श्रीगणेशपुराणे क्रीडाखण्डे चतुर्थोचत्वारिंशादधिकशततमोऽध्यायः
गणेशगीता - "उपासना योगो'' नाम सप्तमोऽध्याय
॥ वरेण्य उवाच ॥
का शुक्ला गतिरुद्दिष्टा का च कृष्णा गजानन ।
किं ब्रह्मसंसृतिः का मे वक्तुमर्हस्यनुग्रहात् ॥ १ ॥
॥ गजानन उवाच ॥
अग्निर्ज्योतिरहः शुक्लकर्मार्हमयनं गतिः ।
चान्द्रं ज्योतिस्तथा धूमो रात्रिश्च दक्षिणायनम् ॥ २ ॥
कृष्णैते ब्रह्मसंसृत्योरवाप्तेः कारणं गती ।
दृश्यादृश्यमिदं सर्वं ब्रह्मैवेत्यवधारय ॥ ३ ॥
क्षरं पञ्चात्मकं विद्धि तदन्तरक्षरं स्मृतम् ।
उभाभ्यां यदतिक्रान्तं शुद्धं विद्धि सनातनम् ॥ ४ ॥
अनेकजन्मसम्भूतिः संसृतिः परिकीर्तिता ।
संसृतिः प्राप्नुवन्त्येते ये तु मां गणयन्ति न ॥ ५ ॥
ये मां सम्यगुपासन्ते परं ब्रह्म प्रयान्ति ते ।
ध्यानाद्यैरुपचारैर्मां तथा पञ्चामृतादिभिः ॥ ६ ॥
स्नानवस्त्राद्यलङ्कारसुगन्धधूपदीपकैः ।
नैवेद्यैः फलताम्बूलैर्दक्षिणाभिश्च योऽर्चयेत् ॥ ७ ॥
भक्त्यैकचेतसा चैव तस्येष्टं पूरयाम्यहम् ।
एवं प्रतिदिनं भक्त्या मद्भक्तो मां समर्पयेत् ॥ ८ ॥
अथवा मानसीं पूजां कुर्वीत स्थिरचेतसा ।
अथवा फलपत्राद्यैः पुष्पमूलजलादिभिः ।
पूजयेन्मां प्रयत्नेन तत्तदिष्टफलं लभेत् ॥ ९ ॥
त्रिविधास्वपि पूजासु श्रेयसी मानसी मता ।
साप्युत्तमा मता पूजाऽनिच्छया या कृता मम् ॥ १० ॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिश्च यः ।
एकां पूजां प्रकुर्वाणोप्यन्यो वा सिद्धिमृच्छति ॥ ११ ॥
मदन्यं देवं यो भक्त्या द्विषन्मामन्यदेवताम् ।
सोऽपि मामेव यजते परं त्वविधितो नृप ॥ १२ ॥
यो ह्यन्यदेवतां मां च द्विषन्नन्यां समर्चयेत् ।
याति कल्पसहस्रं स निरयान्दुःखभाक् सदा ॥ १३ ॥
भूतशुद्धिं विधायादौ प्राणानां स्थापनं तथा ।
आकृष्य चेतसो वृत्तिं ततो न्यासमुपक्रमेत् ॥ १४ ॥
कृत्वान्तर्मातृकान्यासं बहिश्चाथ षडङ्गकम् ।
न्यासं च मूलमन्त्रस्य ततो ध्यात्वा जपेन्मनुम् ॥ १५ ॥
स्थिरचित्तो जपेन् मन्त्रं यथा गुरुमुखोद्गतम् ।
जपं निवेद्य देवाय स्तुत्वा स्तोत्रैरनेकधा ॥ १६ ॥
एवं मां य उपासीत स लभेन् मोक्षमव्ययम् ।
य उपासनया हीनो धिङ्नरो व्यर्थजन्मभाक् ॥ १७ ॥
यज्ञोऽहमौषधं मन्त्रोऽग्नि राज्यं च हविर्हुतम् ।
ध्यानं ध्येयः स्तुतिः स्तोत्रं नतिर्भक्तिरुपासना ॥ १८ ॥
त्रयी ज्ञेयं पवित्रं च पिताच प्रपितामहः ।
ओङ्कारः पावनः साक्षी प्रभुर्मित्रं गतिर्लयः ॥ १९ ॥
उत्पत्तिः पोषको बीजं शरणं वास एव च ।
असन्मृत्युः सदमृतमात्मा ब्रह्माहमेव च ॥ २० ॥
दानं होमस्तपो भक्तिर्जपः स्वाध्याय एव च ।
यद्यत् करोति तत्सर्वं स मे मयि निवेदयेत् ॥ २१ ॥
योषितोऽथ दुराचाराः पापास्त्रैवर्णिकास्तथा ।
मदाश्रया विमुच्यन्ते किं मद्भक्त्या द्विजादयः ॥ २२ ॥
न विनश्यति मद्भक्तो ज्ञात्वेमा मद्विभूतयः ।
प्रभवं मे विभूतीश्च न देवा ऋषयो विदुः ॥ २३ ॥
नानाविभूतिभिरहं व्याप्य विश्वं प्रतिष्ठितः ।
यद्यच्छ्रेष्ठतमं लोके सा विभूतिर्निबोध मे ॥ २४ ॥
॥ ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते
श्रीगजाननवरेण्यसंवादे ``उपासनायोगो'' नाम सप्तमोऽध्याय ॥ ७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे उपासनायोगोनाम चतुर्थोचत्वारिंशादधिकशततमोऽध्यायः
॥ १४४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें