श्रीगणेशपुराणे उपासनाखण्डे सप्तमोऽध्यायः
सोमकान्त पूर्वजन्म कथनं
॥ ऋषय ऊचुः ॥
तत्र गत्वा किमकरोत् सोमकान्तो नृपस्तदा ।
उपायः कथितः को वा भृगुणा सर्ववेदिना ॥ १ ॥
कथयस्व कथामेतां शृण्वतां नो द्विजोत्तम ।
न तृप्तिमधिगच्छामः पीत्वा त्वद्वचनामृतम् ॥ २ ॥
॥ सूत उवाच ॥
सम्यक् पृष्टं महाभागा यूयं तु ज्ञानसागराः ।
यः कथान्तं न प्रयाति श्रोता वक्ताऽथवा द्विजाः ॥ ३ ॥
