श्रीगणेशपुराणे क्रीडाखण्डे चतुःपञ्चाशदुत्तरशततमोऽध्यायः
षट्पञ्चाशद्विनायकवर्णनं
॥ ऋषय ऊचुः ॥
किं पृष्टं सोमकान्तेन विमानवर्तिनाऽनघ ।
तद् वयं श्रोतुमिच्छामो वद सर्वमशेषतः ॥ १ ॥
॥ सूत उवाच ॥
गच्छता व्योममार्गेण पृष्टा दूता महात्मना ।
वाराणसीस्थितानां तु गणेशानां महात्मनाम् ॥ २ ॥
नामानि परिवाराणां तानि नः शृणुतानघाः ।
॥ राजोवाच ॥
दूता वदन्तु कृपया विश्वेशपरिवारगान् ॥ ३ ॥
गणेशान्मम कार्त्स्न्येन स्मरणात्सर्वसिद्धिदान् ।
॥ दूता ऊचुः ॥
कथयामः समासेन विश्वेशावरणे गतान् ॥ ४ ॥
गणेशान् क्रमशो राजन् शृणु सर्वभयापहान् ।
दुर्गा विनायकोऽथार्क भीमचण्डी विनायकः ॥ ५ ॥
देहलीगणपश्चाथ तथोद्दण्डविनायकः ।
पाशपाणिः सर्वविघ्नहरणोऽथ विनायकः ॥ ६ ॥
प्रथमावरणे सिद्धसिद्धिरूपो विनायकः ।
लम्बोदरः कूटदन्तः शूलटङ्क विनायकः ॥ ७ ॥
कूष्माण्डाख्यश्चतुर्थश्च पञ्चमो मुण्डसंज्ञकः ।
विकटद्विजसंज्ञस्तु राजपुत्रविनायकः ॥ ८ ॥
प्रणवाख्योऽथापरश्च द्वितीयावरणे स्थिताः ।
वक्रतुण्ड एकदन्तस्त्रिमुखश्च विनायकः ॥ ९ ॥
विघ्नराजश्चतुर्थोऽथ वरदश्च विनायकः ।
पञ्चास्यश्चापरश्चात्र हेरम्बश्च विनायकः ॥ १० ॥
मोदकप्रिय इत्येव तृतीयावरणे स्थिताः ।
विनायकोऽभयप्रदः सिंहतुण्डविनायकः ॥ ११ ॥
कुणिताक्षश्चापरश्च क्षिप्रप्रसादसंज्ञकः ।
चिन्तामणिरिति ख्यातो दन्तहस्तविनायकः ॥ १२ ॥
प्रचण्डश्चाप्यपरश्चोद्दण्डमुण्डविनायकः ।
चतुर्थावरणे ज्ञेया अष्टावेते विनायकाः ॥ १३ ॥
स्थूलदन्तो द्वितीयस्तु कलिप्रियविनायकः ।
चतुर्दन्तो द्वितुण्डश्च ज्येष्ठो गजविनायकः ॥ १४ ॥
कालाख्यश्च तथा ज्ञेयो नागेशाख्योपरोऽपि च ।
पञ्चमावरणे ज्ञेया अष्टावेते विनायकः ॥ १५ ॥
मणिकर्णविनायक आशासृष्टिविनायकः ।
यक्षाख्यो गजकर्णाख्यश्चित्रघण्टविनायकः ॥ १६ ॥
सुमङ्गलश्च मित्राख्य एते षष्ठे विनायकः ।
मोदः प्रमोदः सुमुखो दुर्मुखश्च विनायकः ॥ १७ ॥
गणपाख्योऽथापरश्च तथा ज्ञान विनायकः ।
सप्तमावरणे ज्ञेयास्तथा द्वारविनायकः ॥ १८ ॥
अविमुक्तोऽष्टमो यत्र मोक्षदोऽथ विनायकः ।
अन्यो भगीरथाख्यो हि हरिश्चन्द्रविनायकः ॥ १९ ॥
कपर्दीति परो ज्ञेयस्तथा बिन्दुविनायकः ।
एतेषां स्मरणं नित्यं सर्वकामफलप्रदम् ॥ २० ॥
प्रातरुत्थाय यश्चैतान् पठते शुद्धमानसः ।
न तस्य विघ्ना विघ्नं हि कुर्वन्ति सर्वकर्मसु ॥ २१ ॥
एकैकनाम्ना राजेन्द्र दूर्वाभिस्तण्डुलैरपि ।
तिलैः शमीदलैश्चैतान् पूजयेद् भक्तिमान् नरः ॥ २२ ॥
असाध्यं साधयेत् कार्यं सर्वत्र विजयी भवेत् ।
आयुष्यं पुष्टिमारोग्यं प्राप्नुयाद्धन मुत्तमम् ॥ २३ ॥
इदं ते कथितं सर्वं यद्धि पृष्टं त्वया नृप ।
तूष्णीं ययुर्देवदूतास्ततो धाम निजं मुदा ॥ २४ ॥
॥ सूत उवाच ॥
इदं तत्कथितं विप्रा विश्वेशावरणं मया ।
इदानीं कथयिष्यामि पुराणस्य फलश्रुतिम् ॥ २५ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे षट्पञ्चाशद्विनायकवर्णनं
नाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें