श्रीगणेशपुराणम् उपासनाखण्डम् प्रथमोऽध्यायः
सोमकान्त वर्णननाम
ॐ नमस्तस्मै गणेशाय
ब्रह्मविद्याप्रदायिने ।
यस्यागस्त्यायते नाम विघ्नसागरशोषणे ॥
॥ ऋषय ऊचुः ॥
सूत सूत महाप्राज्ञ ! वेदशास्त्रविशारद ! ।
सर्वविद्यानिधे त्वत्तो वक्ताऽन्यो नोपलभ्यते ॥ १ ॥
जन्मजन्मान्तरीयं नः स्थितं पुण्यं महत्तरम् ।
तेन सन्दर्शनं जातं सर्वज्ञस्य सतस्तव ॥ २ ॥
वयं धन्यतमा लोके जीवितं नः सुजीवितम् ।
पितरो वेदशास्त्राणि तपांस्याश्रम एव च ॥ ३ ॥
अष्टादशपुराणानि विस्तराच्छ्रावितानि नः ।
अन्यान्यपि हिनः श्रोतुमिच्छास्ति द्विजसत्तम ॥ ४ ॥
शौनकेये महासत्रे सक्ता द्वादशवार्षिके ।
त्वत्कथामृतपानान्नो नान्यद्विश्रामकारणम् ॥ ५ ॥
![]() |


