श्रीगणेशपुराणे क्रीडाखण्डे त्रिचत्वारिंशादधिकशततमोऽध्याय

 श्रीगणेशपुराणे क्रीडाखण्डे त्रिचत्वारिंशादधिकशततमोऽध्यायः

गणेशगीता - "बुद्धियोगो'' नाम षष्टोऽध्यायः
॥ श्री गजानन उवाच ॥

ईदृशं विद्धि मे तत्त्वं मद्गतेनाऽन्तरात्मना ।
यज्ज्ञात्वा मामसन्दिग्धं वेत्सि मोक्ष्यसि सर्वगम् ॥ १ ॥
तत्तेऽहं शृणु वक्ष्यामि लोकानां हितकाम्यया ।
अस्ति ज्ञेयं यतो नान्यन् मुक्तेश्च साधनं नृप ॥ २ ॥

ज्ञेया मत्प्रकृतिः पूर्वं ततः स्याज्ज्ञानगोचरः ।
ततो विज्ञानसम्पत्तिर्मयि ज्ञाते नृणां भवेत् ॥ ३ ॥
क्वनलौ खमहङ्कारः कं चित्तं धीः समीरणः ।
रवीन्दू यागकृच्चैकादशधा प्रकृतिर्मम ॥ ४ ॥
अन्यां मत्प्रकृतिं वृद्धां मुनयः सङ्गिरन्ति च ।
तथा त्रिविष्टपं व्याप्तं जीवत्वं गतयाऽनया ॥ ५ ॥
आभ्यामुत्पाद्यते सर्वं चराचरमयं जगत् ।
सङ्गाद्विश्वस्य सम्भूतिः परित्राणं लयोऽप्यहम् ॥ ६ ॥
तत्त्वमेतन्निबोद्धुं मे यतते कश्चिदेव हि ।
वर्णाश्रमवतां पुंसां पुरा चीर्णेन कर्मणा ॥ ७ ॥
साक्षात् करोति मां कश्चिद्यत्नवत्स्वपि तेषु च ।
मत्तोऽन्यन्नेक्षते किञ्चिन्मयि सर्वं च वीक्षते ॥ ८ ॥
क्षितौ सुगन्धरूपेण तेजोरूपेण चाग्निषु ।
प्रभारूपेण पुष्ण्यब्जे रसरूपेण चाप्सु च ॥ ९ ॥
धीरूपो बलिनां चाहं धीस्तपो बलमेव च ।
त्रिविधेषु विकारेषु मदुत्पन्नेष्वहं स्थितः ॥ १० ॥
न मां विन्दन्ति पापीयान् मायामोहितचेतसः ।
त्रिविकारा मोहयति प्रकृतिर्मे जगत्त्रयम् ॥ ११ ॥
यो मे तत्त्वं विजानाति मोहं त्यजति सोऽखिलम् ।
अनेकैर्जन्मभिश्चैवं ज्ञात्वा मां मुच्यते ततः ॥ १२ ॥
अन्ये नानाविधान् देवान् भजन्ते तान् व्रजन्ति ते ।
यथा यथा मतिं कृत्वा भजते मां जनोऽखिलः ॥ १३ ॥
तथा तथाऽस्य तं भावं पूरयाम्यहमेव तम् ।
अहं सर्वं विजानामि मां न कश्चिद्विबुध्यते ॥ १४ ॥
अव्यक्तं व्यक्तिमापन्नं न विदुः काममोहिताः ।
नाहं प्रकाशतां यामि अज्ञानां पापकर्मणाम् ॥ १५ ॥
यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयान्वितः ।
स यात्यपुनरावृतिं प्रसादान् मम भूभुज ॥ १६ ॥
यं यं देवं स्मरन् भक्त्या त्यजति स्वं कलेवरम् ।
तत् तत् सालोक्यमायाति तत् तद् भक्त्या नराधिप ॥ १७ ॥
अतश्चाहर्निशं भूप स्मर्त्तव्योऽनेकरूपवान् ।
सर्वेषामप्यहं गम्यः स्रोतसामर्णवो यथा ॥ १८ ॥
ब्रह्मविष्णुशिवेन्द्राद्याँल्लोकान्प्राप्य पुनः पतेत् ।
यो मामुपैत्यसन्दिग्धः पतनं तस्य न क्वचित् ॥ १९ ॥
अनन्यशरणो यो मां भक्त्या भजति भूमिप ।
योगक्षेमौ च तस्याहं सर्वदा प्रतिपादये ॥ २२ ॥
द्विविधा गतिरुद्दिष्टा शुक्ला कृष्णा तथा नृप ।
एकया परमं ब्रह्म परया याति संसृतिम् ॥ २१ ॥
॥ ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजानवरेण्यसंवादे ``बुद्धियोगो'' नाम षष्टोऽध्यायः ॥ ६ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बुद्धियोगोनाम त्रिचत्वारिंशादधिकशततमोऽध्यायः ॥ १४३ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-143

कोई टिप्पणी नहीं:

123