श्रीलिङ्गमहापुराण -[पूर्वभाग] -057
॥ श्रीसाम्बसदाशिवाय नमः ॥
सत्तावनवाँ अध्याय
बुध आदि ग्रहों के रथों का स्वरूप, ग्रह-नक्षत्रों एवं तारागणों द्वारा ध्रुव का परिभ्रमण, ग्रहों का स्वरूप - विस्तार तथा उनकी गति का निरूपण
श्रीलिङ्गमहापुराणे पूर्वभागे सप्तपञ्चाशत्तमोऽध्यायः
ज्योतिश्चक्रे ग्रहचारकथनं
॥ सूत उवाच ॥
अष्टभिश्च हयैर्युक्तः सोमपुत्रस्य वै रथः ।
वारितेजोमयश्चाथ पिशङ्गैश्चैव शोभनैः ॥ १ ॥
दशभिश्चाकृशैरश्वैर्नानावर्णै रथः स्मृतः ।
शुक्रस्य क्ष्मामयैर्युक्तो दैत्याचार्यस्य धीमतः ॥ २ ॥
