श्रीलिङ्गमहापुराण -[पूर्वभाग] -057

 श्रीलिङ्गमहापुराण -[पूर्वभाग] -057

॥ श्रीसाम्बसदाशिवाय नमः ॥
सत्तावनवाँ अध्याय
बुध आदि ग्रहों के रथों का स्वरूप, ग्रह-नक्षत्रों एवं तारागणों द्वारा ध्रुव का परिभ्रमण, ग्रहों का स्वरूप - विस्तार तथा उनकी गति का निरूपण
श्रीलिङ्गमहापुराणे पूर्वभागे सप्तपञ्चाशत्तमोऽध्यायः
ज्योतिश्चक्रे ग्रहचारकथनं

॥ सूत उवाच ॥
अष्टभिश्च हयैर्युक्तः सोमपुत्रस्य वै रथः ।
वारितेजोमयश्चाथ पिशङ्गैश्चैव शोभनैः ॥ १ ॥
दशभिश्चाकृशैरश्वैर्नानावर्णै रथः स्मृतः ।
शुक्रस्य क्ष्मामयैर्युक्तो दैत्याचार्यस्य धीमतः ॥ २ ॥


अष्टाश्वश्चाथ भौमस्य रथो हैमः सुशोभनः ।
जीवस्य हैमश्चाष्टाश्वो मन्दस्यायसनिर्मितः ॥ ३ ॥
रथ आपोमयैरश्वैर्दशभिस्तु सितेतरैः ।
स्वर्भानोर्भास्करारेश्च तथा चाष्टहयः स्मृतः ॥ ४ ॥
सर्वे ध्रुवनिबद्धा वै ग्रहास्ते वातरश्मिभिः ।
एतेन भ्राम्यमाणाश्च यथायोगं व्रजन्ति वै ॥ ५ ॥
यावन्त्यश्चैव ताराश्च तावन्तश्चैव रश्मयः ।
सर्वे ध्रुवनिबद्धाश्च भ्रमन्तो भ्रामयन्ति तम् ॥ ६ ॥
अलातचक्रवद्यान्ति वातचक्रेरितानि तु ।
यस्माद्वहति ज्योतींषि प्रवहस्तेन स स्मृतः ॥ ७ ॥
नक्षत्रसूर्याश्च तथा ग्रहतारागणैः सह ।
उन्मुखाभिमुखाः सर्वे चक्रभूताः श्रिता दिवि ॥ ८ ॥
ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम् ।
प्रयान्ति चेश्वरं द्रष्टुं मेढीभूतं ध्रुवं दिवि ॥ ९ ॥
नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः ।
त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः ॥ १० ॥
द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः ।
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात् प्रसर्पति ॥ ११ ॥
उद्धृत्य पृथिवीछायां निर्मितां मण्डलाकृतिम् ।
स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् ॥ १२ ॥
चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते ।
विष्कम्भान्मण्डलाच्चैव योजनाच्च प्रमाणतः ॥ १३ ॥
भार्गवात् पादहीनस्तु विज्ञेयो वै बृहस्पतिः ।
पादहीनौ वक्रसौरी तथायामप्रमाणतः ॥ १४ ॥
विस्तारान् मण्डलाच्चैव पादहीनस्तयोर्बुधः ।
तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै ॥ १५ ॥
बुधेन तानि तुल्यानि विस्तारान् मण्डलादपि ।
प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित् ॥ १६ ॥
तारानक्षत्ररूपाणि हीनानि तु परस्परम् ।
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने ॥ १७ ॥
सर्वोपरि निकृष्टानि तारकामण्डलानि तु ।
योजनद्वयमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥ १८ ॥
उपरिष्टात्त्रयस्तेषां ग्रहा ये दूरसर्पिणः ।
सौरोऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥ १९ ॥
तेभ्योऽधस्तात्तु चत्वारः पुनरन्ये महाग्रहाः ।
सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ २० ॥
तावन्त्यस्तारकाः कोट्यो यावन्त्यृक्षाणि सर्वशः ।
ध्रुवात्तु नियमाच्चैषामृक्षमार्गे व्यवस्थितिः ॥ २१ ॥
सप्ताश्वस्यैव सूर्यस्य नीचोच्चत्वमनुक्रमात् ।
उत्तरायणमार्गस्थो यदा पर्वसु चन्द्रमाः ॥ २२ ॥
उच्चत्वाद् दृश्यते शीघ्रं नातिव्यक्तैर्गभस्तिभिः ।
तदा दक्षिणमार्गस्थो नीचां वीथिमुपाश्रितः ॥ २३ ॥
भूमिरेखावृतः सूर्यः पौर्णिमावास्ययोस्तदा ।
ददृशे च यथाकालं शीघ्रमस्तमुपैति च ॥ २४ ॥
तस्मादुत्तरमार्गस्थो ह्यमावास्यां निशाकरः ।
ददृशे दक्षिणे मार्गे नियमाद् दृश्यते न च ॥ २५ ॥
ज्योतिषां गतियोगेन सूर्यस्य तमसा वृतः ।
समानकालास्तमयौ विषुवत्सु समोदयौ ॥ २६ ॥
उत्तरासु च वीथीषु व्यन्तरास्तमनोदयौ ।
पौर्णिमावास्ययोर्ज्ञेयौ ज्योतिश्चक्रानुवर्तिनौ ॥ २७ ॥
दक्षिणायनमार्गस्थो यदा चरति रश्मिवान् ।
ग्रहाणां चैव सर्वेषां सूर्योऽधस्तात् प्रसर्पति ॥ २८ ॥
विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी ।
नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ २९ ॥
नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः ।
वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः ॥ ३० ॥
तस्माच्छनैश्चरश्चोर्ध्वं तस्मात् सप्तर्षिमण्डलम् ।
ऋषीणां चैव सप्तानां ध्रुवस्योर्ध्वं व्यवस्थितिः ॥ ३१ ॥
तं विष्णुलोकं परमं ज्ञात्वा मुच्येत किल्बिषात् ।
द्विगुणेषु सहस्रेषु योजनानां शतेषु च ॥ ३२ ॥
ग्रहनक्षत्रतारासु उपरिष्टाद्यथाक्रमम् ।
ग्रहाश्च चन्द्रसूर्यौ च युतौ दिव्येन तेजसा ॥ ३३ ॥
नित्यमृक्षेषु युज्यन्ते गच्छन्तोऽहर्निशं क्रमात् ।
ग्रहनक्षत्रसूर्यास्ते नीचोच्चऋजुसंस्थिताः ॥ ३४ ॥
समागमे च भेदे च पश्यन्ति युगपत् प्रजाः ।
ऋतवः षट्स्मृताः सर्वे समागच्छन्ति पञ्चधा ॥ ३५ ॥
परस्परास्थिता ह्येते युज्यन्ते च परस्परम् ।
असङ्करेण विज्ञेयस्तेषां योगस्तु वै बुधैः ॥ ३६ ॥
एवं सङ्क्षिप्य कथितं ग्रहाणां गमनं द्विजाः ।
भास्करप्रमुखानां च यथादृष्टं यथाश्रुतम् ॥ ३७ ॥
ग्रहाधिपत्ये भगवान् ब्रह्मणा पद्मयोनिना ।
अभिषिक्तः सहस्रांशू रुद्रेण तु यथा गुहः ॥ ३८ ॥
तस्माद् ग्रहार्चना कार्या अग्नौ चोद्यं यथाविधि ।
आदित्यग्रहपीडायां सद्भिः कार्यार्थसिद्धये ॥ ३९ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे ज्योतिश्चक्रे ग्रहचारकथनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-57

कोई टिप्पणी नहीं:

123