श्रीलिङ्गमहापुराण -[उत्तरभाग] -011
॥ श्रीसाम्बसदाशिवाय नमः ॥
ग्यारहवाँ अध्याय
भगवान् शिव तथा देवी पार्वती की विभूतियों का वर्णन एवं लिङ्गपूजन का माहात्म्य
श्रीलिङ्गमहापुराणे उत्तरभागे एकादशोऽध्यायः
शिवविभूतिमहिमवर्णनं
>॥ सनत्कुमार उवाच ॥
विभूतीः शिवयोर्मह्यमाचक्ष्व त्वं गणाधिप ।
परापरविदां श्रेष्ठ परमेश्वरभावित ॥ १ ॥
॥ नन्दिकेश्वर उवाच ॥
हन्त ते कथयिष्यामि विभूतीः शिवयोरहम् ।
सनत्कुमार योगीन्द्र ब्रह्मणस्तनयोत्तम ॥ २ ॥
शिवमेवेश्वरं प्राहुर्मायां गौरीं विदुर्बुधाः ॥ ३ ॥
पुरुषं शङ्करं प्राहुर्गौरीं च प्रकृतिं द्विजाः ।
अर्थः शम्भुः शिवा वाणी दिवसोऽजः शिवा निशा ॥ ४ ॥
सप्ततन्तुर्महादेवो रुद्राणी दक्षिणा स्मृता ।
आकाशं शङ्करो देवः पृथिवी शङ्करप्रिया ॥ ५ ॥
समुद्रो भगवान् रुद्रो वेला शैलेन्द्रकन्यका ।
वृक्षः शूलायुधो देवः शूलपाणिप्रिया लता ॥ ६ ॥
ब्रह्मा हरोपि सावित्री शङ्करार्धशरीरिणी ।
विष्णुर्महेश्वरो लक्ष्मीर्भवानी परमेश्वरी ॥ ७ ॥
वज्रपाणिर्महादेवः शची शैलेन्द्रकन्यका ।
जातवेदाः स्वयं रुद्रः स्वाहा शर्वार्धकायिनी ॥ ८ ॥
यमस्त्रियम्बको देवस्तात् प्रिया गिरिकन्यका ।
वरुणो भगवान् रुद्रो गौरी सर्वार्थदायिनी ॥ ९ ॥
बालेन्दुशोखरो वायुः शिवा शिवमनोरमा ।
चन्द्रार्धमौलिर्यक्षेन्द्रः स्वयमृद्धिः शिवा स्मृता ॥ १० ॥
चन्द्रार्धशेखरश्चन्द्रो रोहिणी रुद्रवल्लभा ।
सप्तसप्तिः शिवः कान्ता उमादेवी सुवर्चला ॥ ११ ॥
पण्मुखस्त्रिपुरध्वंसी देवसेना हरप्रिया ।
उमा प्रसूतीर्वै ज्ञेया दक्षो देवो महेश्वरः ॥ १२ ॥
पुरुषाख्यो मनुः शम्भुः शतरूपा शिवप्रिया ।
विदुर्भवानीमाकूतिं रुचिं च परमेश्वरम् ॥ १३ ॥
भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रियः ।
मरीचिर्भगवान् रुद्रः सम्भूतिर्वल्लभा विभोः ॥ १४ ॥
विदुर्भवानीं रुचिरां कविं च परमेश्वरम् ।
गङ्गाधरोऽङ्गिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥ १५ ॥
पुलस्त्यः शशभृन्मौलिः प्रीतिः कान्ता पिनाकिनः ।
पुलहस्त्रिपुरध्वंसी दया कालरिपुप्रिया ॥ १६ ॥
क्रतुर्दक्षक्रतुध्वंसी सन्नतिर्दायिता विभोः ।
त्रिनेत्रोऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥ १७ ॥
ऊर्जामाहुरुमां वृद्धां वसिष्ठं च महेश्वरम् ।
शङ्करः पुरुषाः सर्वे स्त्रियः सर्वा महेश्वरी ॥ १८ ॥
पुल्लिङ्गशब्दवाच्या ये ते च रुदाः प्रकीर्तिताः ।
स्त्रीलिङ्गशब्दवाच्या याः सर्वा गौर्या विभूतयः ॥ १९ ॥
सर्वेस्त्रीपुरुषाः प्रोक्तास्तयोरेव विभूतयः ।
पदार्थशक्तयो यायास्ता गौरीति विदुर्बुधाः ॥ २० ॥
सा सा विश्वेश्वरी देवी स च सर्वो महेश्वरः ।
शक्तिमन्तः पदार्था ये स च सर्वो महेश्वरः ॥ २१ ॥
अष्टौ प्रकृतयो देव्या मूर्तयः परिकीर्तिताः ।
तथा विकृतयस्तस्या देहबद्धविभूतयः ॥ २२ ॥
विस्फुलिङ्गा यथा तावदग्नौ च बहुधा स्मृताः ।
जीवाः सर्वे तथा शर्वो द्वन्द्वसत्त्वमुपागतः ॥ २३ ॥
गौरीरूपाणि सर्वाणि शरीराणि शरीरिणाम् ।
शरीरिणस्तथा सर्वे शङ्करांशा व्यवस्थिताः ॥ २४ ॥
श्राव्यं सर्वमुमारूपं श्रोता देवो महेश्वरः ।
विषयित्वं विभुर्धत्ते विषयात्मकतामुमा ॥ २५ ॥
स्रष्टव्यं वस्तुजातं तु धत्ते शङ्करवल्लभा ।
स्रष्टा स एव विश्वात्मा बालचन्द्रार्धशेखरः ॥ २६ ॥
दृश्यवस्तु प्रजारूपं बिभर्ति भुवनेश्वरी ।
द्रष्टा विश्वेश्वरो देवः शशिखण्डशिखामणिः ॥ २७ ॥
रसजातमुमारूपं घ्रेयजातं च सर्वशः ।
देवो रसयिता शम्भुर्घ्राता च भुवनेश्वरः ॥ २८ ॥
मन्तव्यवस्तुतां धत्ते महादेवी महेश्वरी ।
मन्ता स एव विश्वात्मा महादेवो महेश्वरः ॥ २९ ॥
बोद्धव्यं वस्तु रूपं च बिभर्ति भववल्लभा ।
देवः स एव भगवान् बोद्धा बालेन्दुशेखरः ॥ ३० ॥
पीठाकृतिरुमा देवी लिङ्गरूपश्च शङ्करः ।
प्रतिष्ठाप्य प्रयत्नेन पूजयन्ति सुरासुराः ॥ ३१ ॥
येये पदार्था लिङ्गाङ्कास्ते ते शर्वविभूतयः ।
अर्था भगाङ्किता येये ते ते गौर्या विभूतयः ॥ ३२ ॥
स्वर्गपाताललोकान्तब्रह्माण्डावरणाष्टकम् ।
ज्ञेयं सर्वमुमारूपं ज्ञाता देवो महेश्वरः ॥ ३३ ॥
बिभर्ति क्षेत्रतां देवी त्रिपुरान्तकवल्लभा ।
क्षेत्रज्ञत्वमथो धत्ते भगवानन्धकान्तकः ॥ ३४ ॥
शिवलिङ्गं समुत्सृज्य यजन्ते चान्यदेवताः ।
स नृपः सह देशेन रौरवं नरकं व्रजेत् ॥ ३५ ॥
शिवभक्तो न यो राजा भक्तोऽन्येषु सुरेषु यः ।
स्वपतिं युवतिस्त्यक्त्वा यथा जारेषु राजते ॥ ३६ ॥
ब्रह्मादयः सुराः सर्वे राजानश्च महर्द्धिकाः ।
मानवा मुनयश्चैव सर्वे लिङ्गं यजन्ति च ॥ ३७ ॥
विष्णुना रावणं हत्वा ससैन्यं ब्रह्मणः सुतम् ।
स्थापितं विधिवद्भक्त्या लिङ्गं तीरे नदीपतेः ॥ ३८ ॥
कृत्वा पापसहस्राणि हत्वा विप्रशतं तथा ।
भावात्समाश्रितो रुद्रं मुच्यते नात्र संशयः ॥ ३९ ॥
सर्वे लिङ्गमया लोकाः सर्वे लिङ्गे प्रतिष्ठिताः ।
तस्मादभ्यर्चयेल्लिङ्गं यदीच्छेच्छाश्वतं पदम् ॥ ४० ॥
सर्वाकारौ स्थितावेतौ नरैः श्रेयोऽर्थिभिः शिवौ ।
पूजनीयौ नमस्कार्यौ चिन्तनीयौ च सर्वदा ॥ ४१ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे शिवविभूतिमहिमवर्णनं
नामैकादशोऽध्यायः ॥ ११ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें