श्रीलिङ्गमहापुराण -[पूर्वभाग] -056

 श्रीलिङ्गमहापुराण -[पूर्वभाग] -056

॥ श्रीसाम्बसदाशिवाय नमः ॥
छप्पनवाँ अध्याय
सोम (चन्द्रमा)-की स्थिति एवं गति का निरूपण, चन्द्रकलाओं के ह्रास तथा वृद्धि का वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे षट्पञ्चाशत्तमोऽध्यायः
सोमवर्णनं

॥ सूत उवाच ॥

वीथ्याश्रयाणि चरति नक्षत्राणि निशाकरः ।
त्रिचक्रोभयतोऽश्वश्च विज्ञेयस्तस्य वै रथः ॥ १ ॥
शतारैश्च त्रिभिश्चक्रैर्युक्तः शुक्लैर्हयोत्तमैः ।
दशभिस्त्वकृशैर्दिव्यैरसङ्गैस्तैर्मनोजवैः ॥ २ ॥

रथेनानेन देवैश्च पितृभिश्चैव गच्छति ।
सोमो ह्यम्बुमयैर्गोभिः शुक्लैः शुक्लगभस्तिमान् ॥ ३ ॥
क्रमते शुक्लपक्षादौ भास्करात् परमास्थितः ।
आपूर्यते परस्यान्तः सततं दिवसक्रमात् ॥ ४ ॥
देवैः पीतं क्षये सोममाप्याययति नित्यशः ।
पीतं पञ्चदशाहं तु रश्मिनैकेन भास्करः ॥ ५ ॥
आपूरयन् सुषुम्नेन भागं भागमनुक्रमात् ।
इत्येषा सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः ॥ ६ ॥
स पौर्णमास्यां दृश्येत शुक्लः सम्पूर्णमण्डलः ।
एवमाप्यायितं सोमं शुक्लपक्षे दिनक्रमात् ॥ ७ ॥
ततो द्वितीयाप्रभृति बहुलस्य चतुर्दशीम् ।
पिबन्त्यम्बुमयं देवा मधु सौम्यं सुधामृतम् ॥ ८ ॥
सम्भृतं त्वर्धमासेन ह्यमृतं सूर्यतेजसा ।
पानार्थममृतं सोमं पौर्णमास्यामुपासते ॥ ९ ॥
एकरात्रिं सुराः सर्वे पितृभिस्त्वृषिभिः सह ।
सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य च ॥ १० ॥
प्रक्षीयन्ते परस्यान्तः पीयमानाः कलाः क्रमात् ।
त्रयस्त्रिंशच्छताश्चैव त्रयस्त्रिंशत् तथैव च ॥ ११ ॥
त्रयस्त्रिंशत् सहस्राणि देवाः सोमं पिबन्ति वै ।
एवं दिनक्रमात् पीते विबुधैस्तु निशाकरे ॥ १२ ॥
पीत्वार्धमासं गच्छन्ति अमावास्यां सुरोत्तमाः ।
पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम् ॥ १३ ॥
ततः पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके ।
अपराह्णे पितृगणा जघन्यं पर्युपासते ॥ १४ ॥
पिबन्ति द्विकलं कालं शिष्टा तस्य कला तु या ।
निसृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् ॥ १५ ॥
मासतृप्तिमवाप्याग्र्यां पीत्वा गच्छन्ति तेऽमृतम् ।
पितृभिः पीयमानस्य पञ्चदश्यां कला तु या ॥ १६ ॥
यावत्तु क्षीयते तस्य भागः पञ्चदशस्तु सः ।
अमावास्यां ततस्तस्या अन्तरा पूर्यते पुनः ॥ १७ ॥
वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृतौ ।
एवं सूर्यनिमित्तैषा पक्षवृद्धिर्निशाकरे ॥ १८ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सोमवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-56

कोई टिप्पणी नहीं:

123