श्रीलिङ्गमहापुराण -[उत्तरभाग] -015

श्रीलिङ्गमहापुराण -[उत्तरभाग] -015

॥ श्रीसाम्बसदाशिवाय नमः ॥
पन्द्रहवाँ अध्याय
शिवमाहात्म्य का वर्णन
श्रीलिङ्गमहापुराणे उत्तरभागे पञ्चदशोऽध्यायः
शङ्करस्य त्रिगुणरूपवर्णनं

॥ सनत्कुमार उवाच ॥
भूयोऽपि शिवमाहात्म्यं समाचक्ष्व महामते ।
सर्वज्ञो ह्यसि भूतानामधिनाथ महागुण ॥ १ ॥
॥ शैलादिरुवाच ॥
शिवमाहात्म्यमेकाग्रः शृणु वक्ष्यामि ते मुने ।
बहुभिर्बहुधा शब्दैः कीर्तितं मुनिसत्तमैः ॥ २ ॥


सदसद्रूपमित्याहुः सदसत्पतिरित्यपि ।
तं शिवं मुनयः केचित् प्रवदन्ति च सूरयः ॥ ३ ॥
भूतभावविकारेण द्वितीयेन स उच्यते ।
व्यक्तं तेन विहीनत्वादव्यक्तमसदित्यपि ॥ ४ ॥
उभे ते शिवरूपे हि शिवादन्यं न विद्यते ।
तयोः पतित्वाच्च शिवः सदसत्पतिरुच्यते ॥ ५ ॥
क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं तथा ।
शिवं महेश्वरं केचिन्मुनयस्तत्त्वचिन्तकाः ॥ ६ ॥
उक्तमक्षरमव्यक्तं व्यक्तं क्षरमुदाहृतम् ।
रूपे ते शङ्करस्यैव तस्मान्न पर उच्यते ॥ ७ ॥
तयोः परः शिवः शान्तः क्षराक्षरपरो बुधैः ।
उच्यते परमार्थेन महादेवो महेश्वरः ॥ ८ ॥
समस्तव्यक्तरूपं तु ततः स्मृत्वा स मुच्यते ।
समष्टिव्यष्टिरूपं तु समष्टिव्यष्टिकारणम् ॥ ९ ॥
वदन्ति केचिदाचार्याः शिवं परमकारणम् ।
समष्टिं विदुरव्यक्तं व्यष्टिं व्यक्तं मुनीश्वराः ॥ १० ॥
रूपे ते गदिते शम्भोर्नास्त्यन्यद्वस्तुसम्भवम् ।
तयोः कारमभावेन शिवो हि परमेश्वरः ॥ ११ ॥
उच्यते योगशास्त्रज्ञैः समष्टिव्यष्टिकारणम् ।
क्षेत्रक्षेत्रज्ञरूपी च शिवः कैश्चिदुदाहृतः ॥ १२ ॥
परमात्मा परं ज्योतिर्भगवान् परमेश्वरः ।
चतुर्विंशतितत्त्वानि क्षेत्रज्ञशब्देन सूरयः ॥ १३ ॥
प्राहुः क्षेत्रज्ञशब्देन भोक्तारं पुरुषं तथा ।
क्षेत्रक्षेत्रविदावेते रूपे तस्य स्वयम्भुवः ॥ १४ ॥
न किञ्चिच्च शिवादन्यदिति प्राहुर्मनीषिणः ।
अपरब्रह्मरूपं तं परब्रह्मात्मकं शिवम् ॥ १५ ॥
केचिदाहुर्महादेवमनादि निधनं प्रभुम् ।
भूतेन्द्रियान्तः करणप्रधानविषयात्मकम् ॥ १६ ॥
अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम् ।
ब्रह्मणी ते महेशस्य शिवस्यास्य स्वयम्भुवः ॥ १७ ॥
शङ्करस्य परस्यैव शिवादन्यन्न विद्यते ।
विद्याविद्यास्वरूपी च शङ्करः कैश्चिदुच्यते ॥ १८ ॥
धाता विधाता लोकानामादिदेवो महेश्वरः ।
विद्येति च तमेवाहुरविद्येति मुनीश्वराः ॥ १९ ॥
प्रपञ्चजातमखिलं ते स्वरूपे स्वयम्भुवः ।
भ्रान्तिर्विद्या परं चेति शिवरूपमनुत्तमम् ॥ २० ॥
अवापुर्मुनयो योगात्केचिदागमवेदिनः ।
अर्थेषु बहुरूपेषु विज्ञानं भ्रान्तिरुच्यते ॥ २१ ॥
आत्माकारेण संवित्तिर्बुधैर्विद्येति कीर्त्यते ।
विकल्परहितं तत्त्वं परमित्यभिधीयते ॥ २२ ॥
तृतीयरूपमीशस्य नान्यत्किञ्चन सर्वतः ।
व्यक्ताव्यक्तज्ञरूपीति शिवः कैश्चिन्निगद्यते ॥ २३ ॥
विधाता सर्व लोकानां धाता च परमेश्वरः ।
त्रयोविंशतितत्त्वानि व्यक्तशब्देन सूरयः ॥ २४ ॥
वदन्त्यव्यक्तशब्देन प्रकृतिः च परां तथा ।
कथयन्ति ज्ञशब्देन पुरुषं गुमभोगिनम् ॥ २५ ॥
तत्त्रयं शाङ्करं रूपं नान्यत्किञ्चिदशाङ्करम् ॥ २६ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे शङ्करस्य त्रिगुणरूपवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥

अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[उत्तरभाग]-अध्याय-15

कोई टिप्पणी नहीं:

123