श्रीलिङ्गमहापुराण -[पूर्वभाग] -055
॥ श्रीसाम्बसदाशिवाय नमः ॥
पचपनवाँ अध्याय
शिवस्वरूप भगवान् सूर्य के रथ तथा चैत्रादि बारह मासों में रथ के साथ भ्रमण करने वाले देवता, मुनि, नाग, गन्धर्व आदि का वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चपञ्चाशत्तमोऽध्यायः
सूर्यरथनिर्णय
॥ सूत उवाच ॥
सौरं सङ्क्षेपतो वक्ष्ये रथं शशिन एव च ।
ग्रहाणामितरेषां च यथा गच्छति चाम्बुपः ॥ १ ॥
सौरस्तु ब्रह्मणा सृष्टो रथस्त्वर्थवशेन सः ।
संवत्सरस्यावयवैः कल्पितश्च द्विजर्षभाः ॥ २ ॥
त्रिनाभिना तु चक्रेण पञ्चारेण समन्वितः ।
सौवर्णः सर्वदेवानामावासो भास्करस्य तु ॥ ३ ॥
नवयोजनसाहस्रो विस्तारायामतः स्मृतः ।
द्विगुणोऽपि रथोपस्थादीषादण्डः प्रमाणतः ॥ ४ ॥
असङ्गैस्तु हयैर्युक्तो यतश्चक्रं ततः स्थितैः ।
वाजिनस्तस्य वै सप्त छन्दोभिर्निर्मितास्तु ते ॥ ५ ॥
चक्रपक्षे निबद्धास्तु ध्रुवे चाक्षः समर्पितः ।
सहाश्वचक्रो भ्रमते सहाक्षो भ्रमते ध्रुवः ॥ ६ ॥
अक्षः सहैकचक्रेण भ्रमतेऽसौ ध्रुवेरितः ।
प्रेरको ज्योतिषां धीमान् ध्रुवो वै वातरश्मिभिः ॥ ७ ॥
युगाक्षकोटिसम्बद्धौ द्वौ रश्मी स्यन्दनस्य तु ।
ध्रुवेण भ्रमते रश्मि निबद्धः स युगाक्षयोः ॥ ८ ॥
भ्रमतो मण्डलानि स्युः खेचरस्य रथस्य तु ।
युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य हि ॥ ९ ॥
ध्रुवेण प्रगृहीते वै विचक्राश्वे च रज्जुभिः ।
भ्रमन्तमनुगच्छन्ति ध्रुवं रश्मी च तावुभौ ॥ १० ॥
युगाक्षकोटिस्त्वेतस्य वातोर्मिस्यन्दनस्य तु ।
कीले सक्ता यथा रज्जुर्भ्रमते सर्वतोदिशम् ॥ ११ ॥
भ्राम्यतस्तस्य रश्मी तु मण्डलेषूत्तरायणे ।
वर्धेते दक्षिणे चैव भ्रमता मण्डलानि तु ॥ १२ ॥
आकृष्येते यदा ते वै ध्रुवेणाधिष्ठिते तदा ।
आभ्यन्तरस्थः सूर्योऽथ भ्रमते मण्डलानि तु ॥ १३ ॥
अशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः ।
ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु ॥ १४ ॥
तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु ।
उद्वेष्टयन् स वेगेन मण्डलानि तु गच्छति ॥ १५ ॥
देवाश्चैव तथा नित्यं मुनयश्च दिवानिशम् ।
यजन्ति सततं देवं भास्करं भवमीश्वरम् ॥ १६ ॥
सरथोऽधिष्ठितो देवैरादित्यैर्मुनिभिस्तथा ।
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ १७ ॥
एते वसन्ति वै सूर्ये द्वौ द्वौ मासौ क्रमेण तु ।
आप्याययन्ति चादित्यं तेजोभिर्भास्करं शिवम् ॥ १८ ॥
ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम् ।
गन्धर्वाप्सरसश्चैव नृत्यगेयैरुपासते ॥ १९ ॥
ग्रामणीयक्षभूतानि कुर्वतेऽभीषुसङ्ग्रहम् ।
सर्पा वहन्ति वै सूर्यं यातुधाना अनुयान्ति च ॥ २० ॥
बालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम् ।
इत्येते वै वसन्तीह द्वौ द्वौ मासौ दिवाकरे ॥ २१ ॥
मधुश्च माधवश्चैव शुक्रश्च शुचिरेव च ।
नभोनभस्यौ विप्रेन्द्रा इषश्चोर्जस्तथैव च ॥ २२ ॥
सहः सहस्यौ च तथा तपस्यश्च तपः पुनः ।
एते द्वादश मासास्तु वर्षं वै मानुषं द्विजाः ॥ २३ ॥
वासन्तिकस्तथा ग्रैष्मः शुभो वै वार्षिकस्तथा ।
शारदश्च हिमश्चैव शैशिर ऋतवः स्मृताः ॥ २४ ॥
धातार्यमाथ मित्रश्च वरुणश्चेन्द्र एव च ।
विवस्वांश्चैव पूषा च पर्जन्योंऽशुर्भगस्तथा ॥ २५ ॥
त्वष्टा विष्णुः पुलस्त्यश्च पुलहश्चात्रिरेव च ।
वसिष्ठश्चाङ्गिराश्चैव भृगुर्बुद्धिमतां वरः ॥ २६ ॥
भारद्वाजो गौतमश्च कश्यपश्च क्रतुस्तथा ।
जमदग्निः कौशिकश्च वासुकिः कङ्कणीकरः ॥ २७ ॥
तक्षकश्च तथा नाग एलापत्रस्तथा द्विजाः ।
शङ्खपालस्तथा चान्यस्त्वैरावत इति स्मृतः ॥ २८ ॥
धनञ्जयो महापद्मस्तथा कर्कोटकः स्मृतः ।
कम्बलोऽश्वतरश्चैव तुम्बुरुर्नारदस्तथा ॥ २९ ॥
हाहा हूहूर्मुनिश्रेष्ठा विश्वावसुरनुत्तमः ।
उग्रसेनोऽथ सुरुचिरन्यश्चैव परावसुः ॥ ३० ॥
चित्रसेनो महातेजाश्चोर्णायुश्चैव सुव्रताः ।
धृतराष्ट्रः सूर्यवर्चा देवी साक्षात् कृतस्थला ॥ ३१ ॥
शुभानना शुभश्रोणिर्दिव्या वै पुञ्जिकस्थला ।
मेनका सहजन्या च प्रम्लोचाथ शुचिस्मिता ॥ ३२ ॥
अनुम्लोचा घृताची च विश्वाची चोर्वशी तथा ।
पूर्वचित्तिरिति ख्याता देवी साक्षात्तिलोत्तमा ॥ ३३ ॥
रम्भा चाम्भोजवदना रथकृद् ग्रामणीः शुभः ।
रथौजा रथचित्रश्च सुबाहुर्वै रथस्वनः ॥ ३४ ॥
वरुणश्च तथैवान्यः सुषेणः सेनजिच्छुभः ।
तार्क्ष्यश्चारिष्टनेमिश्च क्षतजित्सत्यजित्तथा ॥ ३५ ॥
रक्षोहेतिः प्रहेतिश्च पौरुषेयो वधस्तथा ।
सर्पो व्याघ्रः पुनश्चापो वातो विद्युद्दिवाकरः ॥ ३६ ॥
ब्रह्मोपेतश्च रक्षेन्द्रो यज्ञोपेतस्तथैव च ।
एते देवादयः सर्वे वसन्त्यर्के क्रमेण तु ॥ ३७ ॥
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः ।
धात्रादिविष्णुपर्यन्ता देवा द्वादश कीर्तिताः ॥ ३८ ॥
आदित्यं परमं भानुं भाभिराप्याययन्ति ते ।
पुलस्त्याद्याः कौशिकान्ता मुनयो मुनिसत्तमाः ॥ ३९ ॥
द्वादशैव स्तवैर्भानुं स्तुवन्ति च यथाक्रमम् ।
नागाश्चाश्वतरान्तास्तु वासुकिप्रमुखाः शुभाः ॥ ४० ॥
द्वादशैव महादेवं वहन्त्येवं यथाक्रमम् ।
क्रमेण सूर्यवर्चान्तास्तुम्बुरुप्रमुखाम्बुपम् ॥ ४१ ॥
गीतैरेनमुपासन्ते गन्धर्वा द्वादशोत्तमाः ।
कृतस्थलाद्या रम्भान्ता दिव्याश्चाप्सरसो रविम् ॥ ४२ ॥
ताण्डवैः सरसैः सर्वाश्चोपासन्ते यथाक्रमम् ।
दिव्याः सत्यजिदन्ताश्च ग्रामण्यो रथकृन्मुखाः ॥ ४३ ॥
द्वादशास्य क्रमेणैव कुर्वतेऽभीषुसङ्ग्रहम् ।
प्रयान्ति यज्ञोपेतान्ता रक्षोहेतिमुखाः सह ॥ ४४ ॥
सायुधा द्वादशैवैते राक्षसाश्च यथाक्रमम् ।
धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापतिः ॥ ४५ ॥
उरगो वासुकिश्चैव कङ्कणीकश्च तावुभौ ।
तुम्बुरुर्नारदश्चैव गन्धर्वौ गायतां वरौ ॥ ४६ ॥
कृतस्थलाप्सराश्चैव तथा वै पुञ्जिकस्थला ।
ग्रामणी रथकृच्चैव रथौजाश्चैव तावुभौ ॥ ४७ ॥
रक्षो हेतिः प्रहेतिश्च यातुधानावुदाहृतौ ।
मधुमाधवयोरेष गणो वसति भास्करे ॥ ४८ ॥
वसन्ति ग्रीष्मकौ मासौ मित्रश्च वरुणश्च ह ।
ऋषिरत्रिर्वसिष्ठश्च तक्षको नाग एव च ॥ ४९ ॥
मेनका सहजन्या च गन्धर्वौ च हाहाहूहूः ।
सुबाहुनामा ग्रामण्यौ रथचित्रश्च तावुभौ ॥ ५० ॥
पौरुषेयो वधश्चैव यातुधानावुदाहृतौ ।
एते वसन्ति वै सूर्ये मासयोः शुचिशुक्रयोः ॥ ५१ ॥
ततः सूर्ये पुनश्चान्या निवसन्तीह देवताः ।
इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च ॥ ५२ ॥
एलापत्रस्तथा सर्पः शङ्खपालश्च तावुभौ ।
विश्वावसूग्रसेनौ च वरुणश्च रथस्वनः ॥ ५३ ॥
प्रम्लोचा चैव विख्याता अनुम्लोचा च ते उभे ।
यातुधानास्तथा सर्पो व्याघ्रश्चैव तु तावुभौ ॥ ५४ ॥
नभोनभस्ययोरेष गणो वसति भास्करे ।
पर्जन्यश्चैव पूषा च भरद्वाजोऽथ गौतमः ॥ ५५ ॥
धनञ्जय इरावांश्च सुरुचिः सपरावसुः ।
घृताची चाप्सरः श्रेष्ठा विश्वाची चातिशोभना ॥ ५६ ॥
सेनजिच्च सुषेणश्च सेनानीर्ग्रामणीश्च तौ ।
आपो वातश्च तावेतौ यातुधानावुभौ स्मृतौ ॥ ५७ ॥
वसन्त्येते तु वै सूर्ये मास ऊर्ज इषे च ह ।
हैमन्तिकौ तु द्वौ मासौ वसन्ति च दिवाकरे ॥ ५८ ॥
अंशुर्भगश्च द्वावेतौ कश्यपश्च क्रतुः सह ।
भुजङ्गश्च महापद्मः सर्पः कर्कोटकस्तथा ॥ ५९ ॥
चित्रसेनश्च गन्धर्व ऊर्णायुश्चैव तावुभौ ।
उर्वशी पूर्वचित्तिश्च तथैवाप्सरसावुभे ॥ ६० ॥
तार्क्ष्यश्चारिष्टनेमिश्च सेनानीर्ग्रामणीश्च तौ ।
विद्युद्दिवाकरश्चोभौ यातुधानावुदाहृतौ ॥ ६१ ॥
सहे चैव सहस्ये च वसन्त्येते दिवाकरे ।
ततः शैशिरयोश्चापि मासयोर्निवसन्ति वै ॥ ६२ ॥
त्वष्टा विष्णुर्जमदग्निर्विश्वामित्रस्तथैव च ।
काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ ॥ ६३ ॥
धृतराष्ट्रः सगन्धर्वः सूर्यवर्चास्तथैव च ।
तिलोत्तमाप्सराश्चैव देवी रम्भा मनोहरा ॥ ६४ ॥
रथजित्सत्यजिच्चैव ग्रामण्यौ लोकविश्रुतौ ।
ब्रह्मोपेतस्तथा रक्षो यज्ञोपेतश्च यः स्मृतः ॥ ६५ ॥
एते देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु ।
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः ॥ ६६ ॥
सूर्यमाप्याययन्त्येते तेजसा तेज उत्तमम् ।
ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम् ॥ ६७ ॥
गन्धर्वाप्सरसश्चैव नृत्यगेयैरुपासते ।
ग्रामणीयक्षभूतानि कुर्वतेऽभीषुसङ्ग्रहम् ॥ ६८ ॥
सर्पा वहन्ति वै सूर्यं यातुधाना अनुयान्ति वै ।
बालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम् ॥ ६९ ॥
एतेषामेव देवानां यथा तेजो यथा तपः ।
यथायोगं यथामन्त्रं यथाधर्मं यथाबलम् ॥ ७० ॥
तथा तपत्यसौ सूर्यस्तेषामिद्धस्तु तेजसा ।
इत्येते वै वसन्तीह द्वौ द्वौ मासौ दिवाकरे ॥ ७१ ॥
ऋषयो देवगन्धर्व पन्नगाप्सरसां गणाः ।
ग्रामण्यश्च तथा यक्षा यातुधानाश्च मुख्यतः ॥ ७२ ॥
एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च ।
भूतानामशुभं कर्म व्यपोहन्तीह कीर्तिताः ॥ ७३ ॥
मानवानां शुभं ह्येते हरन्ति च दुरात्मनाम् ।
दुरितं सुप्रचाराणां व्यपोहन्ति क्वचित् क्वचित् ॥ ७४ ॥
विमाने च स्थिता दिव्ये कामगे वातरंहसि ।
एते सहैव सूर्येण भ्रमन्ति दिवसानुगाः ॥ ७५ ॥
वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै द्विजाः ।
गोपायन्तीह भूतानि सर्वाणि द्यामनुक्षयात् ॥ ७६ ॥
स्थानाभिमानिनामेतत् स्थानं मन्वन्तरेषु वै ।
अतीतानागतानां वै वर्तन्ते साम्प्रतं च ये ॥ ७७ ॥
एते वसन्ति वै सूर्ये सप्तकास्ते चतुर्दश ।
चतुर्दशसु सर्वेषु गणा मन्वन्तरेष्विह ॥ ७८ ॥
सङ्क्षेपाद्विस्तराच्चैव यथावृत्तं यथाश्रुतम् ।
कथितं मुनिशार्दूला देवदेवस्य धीमतः ॥ ७९ ॥
एते देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु ।
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः ॥ ८० ॥
इत्येष एकचक्रेण सूर्यस्तूर्णं रथेन तु ।
हरितैरक्षरैरश्वैः सर्पतेऽसौ दिवाकरः ॥ ८१ ॥
अहोरात्रं रथेनासावेकचक्रेण तु भ्रमन् ।
सप्तद्वीपसमुद्रां गां सप्तभिः सर्पते दिवि ॥ ८२ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सूर्यरथनिर्णयो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥
५५ ॥
See Also :-
1. भगवान् के अङ्ग, उपाङ्ग और आयुधों का रहस्य तथा विभिन्न सूर्यगणों का वर्णन
2. सूर्यदेव के रथ एवं उसके साथ भ्रमण करनेवाले देवता-नाग आदि का वर्णन

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें