श्रीलिङ्गमहापुराण -[उत्तरभाग] -014

 श्रीलिङ्गमहापुराण -[उत्तरभाग] -014

॥ श्रीसाम्बसदाशिवाय नमः ॥
चौदहवाँ अध्याय
भगवान् महेश्वर के पंचब्रह्मात्मक ईशान, तत्पुरुष आदि स्वरूपों का वर्णन
श्रीलिङ्गमहापुराणे उत्तरभागे चतुर्दशोऽध्यायः
पञ्चब्रह्मकथनं

॥ सनत्कुमार उवाच ॥
पञ्च ब्रह्माणि मे नन्दिन्नाचक्ष्व गणसत्तम ।
श्रेयःकरणभूतानि पवित्राणि शरीरिणाम् ॥ १ ॥
॥ नन्दिकेश्वर उवाच ॥
शिवस्यैव स्वरूपाणि पञ्च ब्रह्माह्वयानि ते ।
कथयामि यथातत्त्वं पद्मयोनेः सुतोत्तम ॥ २ ॥


सर्वलोकैकसंहर्ता सर्वलोकैकरक्षिता ।
सर्वलोकैकनिर्माता पञ्चब्रह्मात्मकः शिवः ॥ ३ ॥
सर्वेषामेव लोकानां यदुपादानकारणम् ।
निमित्तकारणं चाहुस्स शिवः पञ्चधा स्मृतः ॥ ४ ॥
मूर्तयः पञ्च विख्याताः पञ्च ब्रह्माह्वयाः पराः ।
सर्वलोकशरण्यस्य शिवस्य परमात्मनः ॥ ५ ॥
क्षेत्रज्ञः प्रथमा मूर्तिशिवस्य परमेष्ठिनः ।
भोक्ता प्रकृतिवर्गस्य भोग्यस्येशानसञ्ज्ञितः ॥ ६ ॥
स्थाणोस्तत्पुरुषाख्या च द्वितीया मूर्तिरुच्यते ।
प्रकृतिः सा हि विज्ञेया परमात्मगुहात्मिका ॥ ७ ॥
अघोराख्या तृतीया च शम्भोर्मूर्तिर्गरीयसी ।
बुद्धेः सा मूर्तिरित्युक्ता धर्माद्यष्टाङ्गसंयुता ॥ ८ ॥
चतुर्थी वामदेवाख्या मूर्तिः शम्भोर्गरियसी ।
अहङ्कारात्मकत्वेन व्याप्य सर्वं व्यवस्थिता ॥ ९ ॥
सद्योजाताह्वया शम्भोः पञ्चमी मूर्तिरुच्यते ।
मनस्तत्त्वात्मकत्वेन स्थिता सर्वशरीरिषु ॥ १० ॥
ईशानः परमो देवः परमेष्ठी सनातनः ।
श्रोत्रेन्द्रियात्मकत्वेन सर्वभूतेष्ववस्थितः ॥ ११ ॥
स्थितस्तत्पुरुषो देवः शरीरेषु शरीरिणाम् ।
त्वगिन्द्रियात्मकत्वेन तत्त्वविद्भिरुदाहृतः ॥ १२ ॥
अघोरोपि महादेवश्चक्षुरात्मतया बुधैः ।
कीर्तितः सर्वभूतानां शरीरेषु व्यवस्थितः ॥ १३ ॥
जिह्वेन्द्रियात्मकत्वेन वामदेवोऽपि विश्रुतः ।
अङ्गभाजामशेषाणामङ्गेषुं परिधिष्ठितः ॥ १४ ॥
घ्राणेन्द्रियात्मकत्वेन सद्योजातः स्मृतो बुधैः ।
प्राणभाजां समस्तानां विग्रहेषु व्यवस्थितः ॥ १५ ॥
सर्वेष्वेव शरीरेषु प्राणभाजां प्रतिष्ठितः ।
वागिन्द्रियात्मकत्वेन बुधैरीशान उच्यते ॥ १६ ॥
पाणीन्द्रियात्मकत्वेन स्थितस्तत्पुरुषो बुधैः ।
उच्यते विग्रहेष्वेव सर्वविग्रहधारिणाम् ॥ १७ ॥
सर्वविग्रहिणां देहे ह्यघोरोऽपि व्यवस्थितः ।
पादेन्द्रियात्मकत्वेन कीर्तितस्तत्त्ववेदिभिः ॥ १८ ॥
पाय्विन्द्रियात्मकत्वेन वामदेवो व्यवस्थितः ।
सर्वभूतनिकायानां कायेषु मुनिभिः स्मृतः ॥ १९ ॥
उपस्थात्मतया देवः सद्योजातः स्थितः प्रभुः ।
इष्यते वेदशास्त्रज्ञैर्देहेषु प्राणधारिणाम् ॥ २० ॥
ईशानं प्राणिनां देवं शब्दतन्मात्ररूपिणम् ।
आकाशजनकं प्राहुर्मुनिवृन्दारकप्रजाः ॥ २१ ॥
प्राहुस्तत्पुरुषं देवं स्पर्शतन्मात्रकात्मकम् ।
समीरजनकं प्राहुर्भगवन्तं मुनीश्वराः ॥ २२ ॥
रूपतन्मात्रकं देवमघोरमपि घोरकम् ।
प्राहुर्वेदविदो मुख्या जनकं जातवेदसः ॥ २३ ॥
रसतन्मात्ररूपत्वात् प्रथितं तत्त्ववेदिनः ।
वामदेवमपां प्राहुर्जनकत्वेन संस्थितम् ॥ २४ ॥
सद्योजातं महादेवं गन्धतन्मात्ररूपिणम् ।
भूम्यात्मानं प्रशंसन्ति सर्वतत्त्वार्थवेदिनः ॥ २५ ॥
आकाशात्मानमीशानमादिदेवं मुनीश्वराः ।
परमेण महत्त्वेन सम्भूतं प्राहुरद्भुतम् ॥ २६ ॥
प्रभुं तत्पुरुषं देवं पवनं पवनात्मकम् ।
समस्तलोकव्यापित्वात् प्रथितं सूरयो विदुः ॥ २७ ॥
अथार्चिततया ख्यातमघोरं दहनात्मकम् ।
कथयन्ति महात्मानं वेदवाक्यार्थवेदिनः ॥ २८ ॥
तोयात्मकं महादेवं वामदेवं मनोरमम् ।
जगत् सञ्जीवनत्वेन कथितं मुनयो विदुः ॥ २९ ॥
विश्वम्भरात्मकं देवं सद्योजातं जगद्गुरुम् ।
चराचरेकभर्तारं परं कविवरा विदुः ॥ ३० ॥
पञ्चब्रह्मात्मकं सर्वं जगत्स्थावरजङ्गमम् ।
शिवानन्दं तदित्याहुर्मुनयस्तत्त्वदर्शिनः ॥ ३१ ॥
पञ्चविंशतितत्त्वात्मा प्रपञ्चे यः प्रदृश्यते ।
पञ्चब्रह्मात्मकत्वेन स शिवो नान्यतां गतः ॥ ३२ ॥
पञ्चविंशतितत्त्वात्मा पञ्चब्रह्मात्मकः शिवः ।
श्रेयोऽर्थिभिरतो नित्यं चिन्तनीयः प्रयत्नतः ॥ ३३ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे पञ्चब्रह्मकथनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥

अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[उत्तरभाग]-अध्याय-14

कोई टिप्पणी नहीं:

123