श्रीलिङ्गमहापुराण -[पूर्वभाग] -052
॥ श्रीसाम्बसदाशिवाय नमः ॥
बावनवाँ अध्याय
विभिन्न द्वीपों की नदियों का वर्णन, केतुमाल, कुरुवर्ष, भारतवर्ष, किम्पुरुष आदि वर्षों में रहने वाले लोगों तथा उनकी लोकवृत्ति का वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे
द्विपञ्चाशत्तमोऽध्यायः
भुवनकोशस्वभाववर्णनं॥ सूत उवाच ॥
नद्यश्च बहवः प्रोक्ताः सदा बहुजलाः शुभाः ।
सरोवरेभ्यः सम्भूतास्त्वसंख्याता द्विजोत्तमाः ॥ १ ॥
प्राङ्मुखा दक्षिणास्यास्तु चोत्तरप्रभवाः शुभाः ।
पश्चिमाग्राः पवित्राश्च प्रतिवर्षं प्रकीर्तिताः ॥ २ ॥
आकाशाम्भोनिधिर्योऽसौ सोम इत्यभिधीयते ।
आधारः सर्वभूतानां देवानाममृताकरः ॥ ३ ॥
अस्मात्प्रवृत्ता पुण्योदा नदी त्वाकाशगामिनी ।
सप्तमेनानिलपथा प्रवृत्ता चामृतोदका ॥ ४ ॥
सा ज्योतींष्यनुवर्तन्ती ज्योतिर्गणनिषेविता ।
ताराकोटिसहस्राणां नभसश्च समायुता ॥ ५ ॥
परिवर्तत्यहरहो यथा सोमस्तथैव सा ।
चत्वार्यशीतिश्च तथा सहस्राणां समुच्छ्रितः ॥ ६ ॥
योजनानां महामेरुः श्रीकण्ठाक्रीडकोमलः ।
तत्रासीनो यतः शर्वः साम्बः सह गणेश्वरैः ॥ ७ ॥
क्रीडते सुचिरं कालं तस्मात् पुण्यजला शिवा ।
गिरिं मेरुं नदी पुण्या सा प्रयाति प्रदक्षिणम् ॥ ८ ॥
विभज्यमानसलिला सा जवेनानिलेन च ।
मेरोरन्तरकूटेषु निपपात चतुर्ष्वपि ॥ ९ ॥
समन्तात् समतिक्रम्य सर्वाद्रीन् प्रविभागशः ।
नियोगाद्देवदेवस्य प्रविष्टा सा महार्णवम् ॥ १० ॥
अस्या विनिर्गता नद्यः शतशोऽथ सहस्रशः ।
सर्वद्वीपाद्रिवर्षेषु बहवः परिकीर्तिताः ॥ ११ ॥
क्षुद्रनद्यस्त्वसंख्याता गङ्गा यद्गाङ्गां गताम्बरात् ।
केतुमाले नराः कालाः सर्वे पनसभोजनाः ॥ १२ ॥
स्त्रियश्चोत्पलवर्णाभा जीवितं चायुतं स्मृतम् ।
भद्राश्वे शुक्लवर्णाश्च स्त्रियश्चन्द्रांशुसन्निभाः ॥ १३ ॥
कालाम्रभोजनाः सर्वे निरातङ्का रतिप्रियाः ।
दशवर्षसहस्राणि जीवन्ति शिवभाविताः ॥ १४ ॥
हिरण्मया इवात्यर्थमीश्वरार्पितचेतसः ।
तथा रमणके जीवा न्यग्रोधफलभोजनाः ॥ १५ ॥
दशवर्षसहस्राणि शतानि दशपञ्च च ।
जीवन्ति शुक्लास्ते सर्वे शिवध्यानपरायणाः ॥ १६ ॥
हैरण्मया महाभागा हिरण्मयवनाश्रयाः ।
एकादश सहस्राणि शतानि दशपञ्च च ॥ १७ ॥
वर्षाणां तत्र जीवन्ति अश्वत्थाशनजीवनाः ।
हैरण्मया इवात्यर्थमीश्वरार्पितमानसाः ॥ १८ ॥
कुरुवर्षे तु कुरवः स्वर्गलोकात् परिच्युताः ।
सर्वे मैथुनजाताश्च क्षीरिणः क्षीरभोजनाः ॥ १९ ॥
अन्योन्यमनुरक्ताश्च चक्रवाकसधर्मिणः ।
अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः ॥ २० ॥
त्रयोदशसहस्राणि शतानि दशपञ्च च ।
जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः ॥ २१ ॥
सहैव मरणं तेषां कुरूणां स्वर्गवासिनाम् ।
हृष्टानां सुप्रवृद्धानां सर्वान्नामृतभोजिनाम् ॥ २२ ॥
सदा तु चन्द्रकान्तानां सदा यौवनशालिनाम् ।
श्यामाङ्गानां सदा सर्व भूषणास्पददेहिनाम् ॥ २३ ॥
जम्बूद्वीपे तु तत्रापि कुरुवर्षं सुशोभनम् ।
तत्र चन्द्रप्रभं शम्भोर्विमानं चन्द्रमौलिनः ॥ २४ ॥
वर्षे तु भारते मर्त्याः पुण्याः कर्मवशायुषः ।
शतायुषः समाख्याता नानावर्णाल्पदेहिनः ॥ २५ ॥
नानादेवार्चने युक्ता नानाकर्मफलाशिनः ।
नानाज्ञानार्थसम्पन्ना दुर्बलाश्चाल्पभोगिनः ॥ २६ ॥
इन्द्रद्वीपे तथा केचित्तथैव च कसेरुके ।
ताम्रद्वीपं गताः केचित्केचिद्देशं गभस्तिमत् ॥ २७ ॥
नागद्वीपं तथा सौम्यं गान्धर्वं वारुणं गताः ।
केचिन्म्लेच्छाः पुलिन्दाश्च नानाजातिसमुद्भवाः ॥ २८ ॥
पूर्वे किरातास्तस्यान्ते पश्चिमे यवनाः स्मृताः ।
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च सर्वशः ॥ २९ ॥
इज्यायुद्धवणिज्याभिर्वर्तयन्तो व्यवस्थिताः ।
तेषां संव्यवहारोऽयं वर्ततेऽत्र परस्परम् ॥ ३० ॥
धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ।
सङ्कल्पश्चाभिमानश्च आश्रमाणां यथाविधि ॥ ३१ ॥
इह स्वर्गापवर्गार्थं प्रवृत्तिर्यत्र मानुषी ।
तेषां च युगकर्माणि नान्यत्र मुनिपुङ्गवाः ॥ ३२ ॥
दशवर्षसहस्राणि स्थितिः किम्पुरुषे नृणाम् ।
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ॥ ३३ ॥
अनामया ह्यशोकाश्च सर्वे ते शिवभाविताः ।
शुद्धसत्त्वाश्च हेमाभाः सदाराः प्लक्षभोजनाः ॥ ३४ ॥
महारजतसङ्काशा हरिवर्षेऽपि मानवाः ।
देवलोकाच्च्युताः सर्वे देवाकाराश्च सर्वशः ॥ ३५ ॥
हरं यजन्ति सर्वेशं पिबन्तीक्षुरसं शुभम् ।
न जरा बाधते तेन न च जीर्यन्ति ते नराः ॥ ३६ ॥
दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ।
मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम् ॥ ३७ ॥
न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः ।
चन्द्रसूर्यौ न नक्षत्रं न प्रकाशमिलावृते ॥ ३८ ॥
पद्मप्रभाः पद्ममुखाः पद्मपत्रनिभेक्षणाः ।
पद्मपत्रसुगन्धाश्च जायन्ते भवभाविताः ॥ ३९ ॥
जम्बूफलरसाहारा अनिष्पन्दाः सुगन्धिनः ।
देवलोकागतास्तत्र जायन्ते ह्यजरामराः ॥ ४० ॥
त्रयोदशसहस्राणि वर्षाणां ते नरोत्तमाः ।
आयुःप्रमाणं जीवन्ति वर्षे दिव्ये त्विलावृते ॥ ४१ ॥
जम्बूफलरसं पीत्वा न जरा बाधते त्विमान् ।
न क्षुधा न क्लमश्चापि न जनो मृत्युमांस्तथा ॥ ४२ ॥
तत्र जाम्बूनदं नाम कनकं देवभूषणम् ।
इन्द्रगोपप्रतीकाशं जायते भास्वरं तु तत् ॥ ४३ ॥
एवं मया समाख्याता नववर्षानुवर्तिनः ।
वर्णायुर्भोजनाद्यानि सङ्क्षिप्य न तु विस्तरात् ॥ ४४ ॥
हेमकूटे तु गन्धर्वा विज्ञेयाश्चाप्सरोगणाः ।
सर्वे नागाश्च निषधे शेषवासुकितक्षकाः ॥ ४५ ॥
महाबलास्त्रयस्त्रिंशद्रमन्ते याज्ञिकाः सुराः ।
नीले तु वैडूर्यमये सिद्धा ब्रह्मर्षयोऽमलाः ॥ ४६ ॥
दैत्यानां दानवानां च श्वेतः पर्वत उच्यते ।
शृङ्गवान् पर्वतश्चैव पितॄणां निलयः सदा ॥ ४७ ॥
हिमवान् यक्षमुख्यानां भूतानामीश्वरस्य च ।
सर्वाद्रिषु महादेवो हरिणा ब्रह्मणाम्बया ॥ ४८ ॥
नन्दिना च गणैश्चैव वर्षेषु च वनेषु च ।
नीलश्वेतत्रिशृङ्गे च भगवान्नीललोहितः ॥ ४९ ॥
सिद्धैर्देवैश्च पितृभिर्दृष्टो नित्यं विशेषतः ।
नीलश्च वैडूर्यमयः श्वेतः शुक्लो हिरण्मयः ॥ ५० ॥
मयूरबर्हवर्णस्तु शातकुम्भस्त्रिशृङ्गवान् ।
एते पर्वतराजानो जम्बूद्वीपे व्यवस्थिताः ॥ ५१ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनकोशस्वभाववर्णनं
नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें