श्रीलिङ्गमहापुराण -[पूर्वभाग] -051

 श्रीलिङ्गमहापुराण -[पूर्वभाग] -051

॥ श्रीसाम्बसदाशिवाय नमः ॥
इक्यावनवाँ अध्याय
दिव्य भूतवन में महादेव के निवास स्थान का वर्णन, कैलास तथा वहाँ की पवित्र नदियों का वर्णन

श्रीलिङ्गमहापुराणे पूर्वभागे एकपञ्चाशत्तमोऽध्यायः

विविधद्वीपशोभावर्णनं
॥ सूत उवाच ॥
देवकूटे गिरौ मध्ये महाकूटे सुशोभने ।
हेमवैडूर्यमाणिक्य नीलगोमेदकान्तिभिः ॥ १ ॥
तथान्यैर्मणिमुख्यैश्च निर्मिते निर्मले शुभे ।


शाखाशतसहस्राढ्ये सर्वद्रुमविभूषिते ॥ २ ॥
चम्पकाशोकपुन्नाग वकुलासनमण्डिते ।
पारिजातकसम्पूर्णे नानापक्षिगणान्विते ॥ ३ ॥
नैकधा तु शतैश्चित्रे विचित्रकुसुमाकुले ।
नितम्बपुष्पसालम्बे नैकसत्त्वगणान्विते ॥ ४ ॥
विमलस्वादुपानीये नैकप्रस्रवणैर्युते ।
निर्झरैः कुसुमाकीर्णैरनेकैश्च विभूषिते ॥ ५ ॥
पुष्पोडुपवहाभिश्च स्रवन्तीभिरलङ्कृते ।
स्निग्धवर्णं महामूलमनेकस्कन्धपादपम् ॥ ६ ॥
रम्यं ह्यविरलच्छायं दशयोजनमण्डलम् ।
तत्र भूतवनं नाम नानाभूतगणालयम् ॥ ७ ॥
महादेवस्य देवस्य शङ्करस्य महात्मनः ।
दीप्तमायतनं तत्र महामणिविभूषितम् ॥ ८ ॥
हेमप्राकारसंयुक्तं मणितोरणमण्डितम् ।
स्फाटिकैश्च विचित्रैश्च गोपुरैश्च समन्वितम् ॥ ९ ॥
सिंहासनैर्मणिमयैः शुभास्तरणसंयुतैः ।
क्षितावितस्ततः सम्यक् शर्वेणाधिष्ठितैः शुभैः ॥ १० ॥
अम्लानमालानिचितैर्नानावर्णैर्गृहोत्तमैः ।
मण्डपैः सुविचित्रैस्तु स्फाटिकस्तम्भसंयुतैः ॥ ११ ॥
संयुतं सर्वभूतेन्द्रैर्ब्रह्मेन्द्रोपेन्द्रपूजितैः ।
वराहगजसिंहर्क्ष शार्दूलकरभाननैः ॥ १२ ॥
गृध्रोलूकमुखैश्चान्यैर्मृगोष्ट्राजमुखैरपि ।
प्रमथैर्विविधैः स्थूलैर्गिरिकूटोपमैः शुभैः ॥ १३ ॥
करालैर्हरिकेशैश्च रोमशैश्च महाभुजैः ।
नानावर्णाकृतिधरैर्नानासंस्थानसंस्थितैः ॥ १४ ॥
दीप्तास्यैर्दीप्तचरितैर्नन्दीश्वरमुखैः शुभैः ।
ब्रह्मेन्द्रविष्णुसङ्काशैरणिमादिगुणान्वितैः ॥ १५ ॥
अशून्यममरैर्नित्यं महापरिषदैस्तथा ।
तत्र भूतपतेर्देवाः पूजां नित्यं प्रयुञ्जते ॥ १६ ॥
झर्झरैः शङ्खपटहैर्भेरीडिण्डिमगोमुखैः ।
ललितावसितोद्गीतैर्वृत्तवल्गितगर्जितैः ॥ १७ ॥
पूजितो वै महादेवः प्रमथैः प्रमथेश्वरः ।
सिद्धर्षिदेवगन्धर्वैर्ब्रह्मणा च महात्मना ॥ १८ ॥
उपेन्द्रप्रमुखैश्चान्यैः पूजितस्तत्र शङ्करः ।
विभक्तचारुशिखरं यत्र तच्छङ्खवर्चसम् ॥ १९ ॥
कैलासो यक्षराजस्य कुबेरस्य महात्मनः ।
निवासः कोटियक्षाणां तथान्येषां महात्मनाम् ॥ २० ॥
तत्रापि देवदेवस्य भवस्यायतनं महत् ।
तस्मिन्नायतने सोमः सदास्ते सगणो हरः ॥ २१ ॥
यत्र मन्दाकिनी नाम नलिनी विपुलोदका ।
सुवर्णमणिसोपाना कुबेरशिखरे शुभे ॥ २२ ॥
जाम्बूनदमयैः पद्मैर्गन्धस्पर्शगुणान्वितैः ।
नीलवैडूर्यपत्रैश्च गन्धोपेतैर्महोत्पलैः ॥ २३ ॥
तथा कुमुदषण्डैश्च महापद्मैरलङ्कृता ।
यक्षगन्धर्वनारीभिरप्सरोभिश्च सेविता ॥ २४ ॥
देवदानवगन्धर्वैर्यक्षराक्षसकिन्नरैः ।
उपस्पृष्टजला पुण्या नदी मन्दाकिनी शुभा ॥ २५ ॥
तस्याश्चोत्तरपार्श्वे तु भवस्यायतनं शुभम् ।
वैडूर्यमणिसम्पन्नं तत्रास्ते शङ्करोऽव्ययः ॥ २६ ॥
द्विजाः कनकनन्दायास्तीरे वै प्राचि दक्षिणे ।
वनं द्विजसहस्राढ्यं मृगपक्षिसमाकुलम् ॥ २७ ॥
तत्रापि सगणः साम्बः क्रीडतेऽद्रिसमे गृहे ।
नन्दायाः पश्चिमे तीरे किञ्चिद्वै दक्षिणाश्रिते ॥ २८ ॥
पुरं रुद्रपुरी नाम नानाप्रासादसङ्कुलम् ।
तत्रापि शतधा कृत्वा ह्यात्मानं चाम्बया सह ॥ २९ ॥
क्रीडते सगणः साम्बस्तच्छिवालयमुच्यते ।
एवं शतसहस्राणि शर्वस्यायतनानि तु ॥ ३० ॥
प्रतिद्वीपे मुनिश्रेष्ठाः पर्वतेषु वनेषु च ।
नदीनदतटाकानां तीरेष्वर्णवसन्धिषु ॥ ३१ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे विविधद्वीपशोभावर्णनं नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-51

कोई टिप्पणी नहीं:

123