श्रीलिङ्गमहापुराण -[पूर्वभाग] -054
॥ श्रीसाम्बसदाशिवाय नमः ॥
चौवनवाँ अध्याय
ज्योतिः सन्निवेश वर्णन में लोकपालों की पुरियों का वर्णन, सूर्य की स्थिति तथा उसकी गति से होने वाले अयन एवं ऋतुओं की स्थिति, ध्रुवस्थान तथा मेघों का स्वरूप और वृष्टि का प्रादुर्भाव
श्रीलिङ्गमहापुराणे पूर्वभागे
चतुःपञ्चाशत्तमोऽध्यायः
ज्योतिश्चक्रे सूर्यगत्यादिकथनं
॥ सूत उवाच ॥
ज्योतिर्गणप्रचारं वै सङ्क्षिप्याण्डे ब्रवीम्यहम् ।
देवक्षेत्राणि चालोक्य ग्रहचारप्रसिद्धये ॥ १ ॥
मानसोपरि माहेन्द्री प्राच्यां मेरोः पुरी स्थिता ।
दक्षिणे भानुपुत्रस्य वरुणस्य च वारुणी ॥ २ ॥
सौम्ये सोमस्य विपुला तासु दिग्देवताः स्थिताः ।
अमरावती संयमनी सुखा चैव विभा क्रमात् ॥ ३ ॥
लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने ।
काष्ठां गतस्य सूर्यस्य गतिर्या तां निबोधत ॥ ४ ॥
दक्षिणप्रक्रमे भानुः क्षिप्तेषुरिव धावति ।
ज्योतिषां चक्रमादाय सततं परिगच्छति ॥ ५ ॥
पुरान्तगो यदा भानुः शक्रस्य भवति प्रभुः ।
सर्वैः सायमनैः सौरो ह्युदयो दृश्यते द्विजाः ॥ ६ ॥
स एव सुखवत्यां तु निशान्तस्थः प्रदृश्यते ।
अस्तमेति पुनः सूर्यो विभायां विश्वदृग्विभुः ॥ ७ ॥
मया प्रोक्तोऽमरावत्यां यथासौ वारितस्करः ।
तथा संयमनीं प्राप्य सुखां चैव विभां खगः ॥ ८ ॥
यदापराह्णस्त्वाग्नेय्यां पूर्वाह्णो नैर्ऋते द्विजाः ।
तदा त्वपररात्रश्च वायुभागे सुदारुणः ॥ ९ ॥
ईशान्यां पूर्वरात्रस्तु गतिरेषा च सर्वतः ।
एवं पुष्करमध्ये तु यदा सर्पति वारिपः ॥ १० ॥
त्रिंशांशकं तु मेदिन्यां मुहूर्तेनैव गच्छति ।
योजनानां मुहूर्तस्य इमां सङ्ख्यां निबोधत ॥ ११ ॥
पूर्णा शतसहस्राणामेकत्रिंशत्तु सा स्मृता ।
पञ्चाशच्च तथान्यानि सहस्राण्यधिकानि तु ॥ १२ ॥
मौहूर्तिकी गतिर्ह्येषा भास्करस्य महात्मनः ।
एतेन गतियोगेन यदा काष्ठां तु दक्षिणाम् ॥ १३ ॥
पर्यपृच्छेत्पतङ्गोऽपि सौम्याशां चोत्तरेऽहनि ।
मध्ये तु पुष्करस्याथ भ्रमते दक्षिणायने ॥ १४ ॥
मानसोत्तरशैले तु महातेजा विभावसुः ।
मण्डलानां शतं पूर्णं तदशीत्यधिकं विभुः ॥ १५ ॥
बाह्यं चाभ्यन्तरं प्रोक्तमुत्तरायणदक्षिणे ।
प्रत्यहं चरते तानि सूर्यो वै मण्डलानि तु ॥ १६ ॥
कुलालचक्रपर्यन्तो यथा शीघ्रं प्रवर्तते ।
दक्षिणप्रक्रमे देवस्तथा शीघ्रं प्रवर्तते ॥ १७ ॥
तस्मात् प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ।
सूर्यो द्वादशभिः शीघ्रं मुहूर्तैर्दक्षिणायने ॥ १८ ॥
त्रयोदशार्धमृक्षाणामह्ना तु चरते रविः ।
मुहूर्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ १९ ॥
कुलालचक्रमध्यं तु यथा मन्दं प्रसर्पति ।
तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥ २० ॥
तस्माद्दीर्घेण कालेन भूमिमल्पां तु गच्छति ।
स रथो धिष्ठितो भानोरादित्यैर्मुनिभिस्तथा ॥ २१ ॥
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ।
प्रदीपयन् सहस्रांशुरग्रतः पृष्ठतोऽप्यधः ॥ २२ ॥
ऊर्ध्वतश्च करं त्यक्त्वा सभां ब्राह्मीमनुत्तमाम् ।
अम्भोभिर्मुनिभिस्त्यक्तैः सन्ध्यायां तु निशाचरान् ॥ २३ ॥
हत्वा हत्वा तु सम्प्राप्तान् ब्राह्मणैश्चरते रविः ।
अष्टादश मुहूर्तं तु उत्तरायणपश्चिमम् ॥ २४ ॥
अहर्भवति तच्चापि चरते मन्दविक्रमः ।
त्रयोदशार्धमृक्षाणि नक्तं द्वादशभी रविः ।
मुहूर्तैस्तावदृक्षाणि दिवाष्टादशभिश्चरन् ॥ २५ ॥
ततो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा ।
मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥ २६ ॥
त्रिंशन्मुहूर्तैरेवाहुरहोरात्रं पुराविदः ।
उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु ॥ २७ ॥
कुलालचक्रनाभिस्तु यथा तत्रैव वर्तते ।
औत्तानपादो भ्रमति ग्रहैः सार्धं ग्रहाग्रणीः ॥ २८ ॥
गणो मुनिज्योतिषां तु मनसा तस्य सर्पति ।
अधिष्ठितः पुनस्तेन भानुस्त्वादाय तिष्ठति ॥ २९ ॥
किरणैः सर्वतस्तोयं देवो वै ससमीरणः ।
औत्तानपादस्य सदा ध्रुवत्वं वै प्रसादतः ॥ ३० ॥
विष्णोरौत्तानपादेन चाप्तं तातस्य हेतुना ।
आपः पीतास्तु सूर्येण क्रमन्ते शशिनः क्रमात् ॥ ३१ ॥
निशाकरान्निस्रवन्ते जीमूतान् प्रत्यपः क्रमात् ।
वृन्दं जलमुचां चैव श्वसनेनाभिताडितम् ॥ ३२ ॥
क्ष्मायां सृष्टिं विसृजतेऽभासयत्तेन भास्करः ।
तोयस्य नास्ति वै नाशः तदैव परिवर्तते ॥ ३३ ॥
हिताय सर्वजन्तूनां गतिः शर्वेण निर्मिता ।
भूर्भुवः स्वस्तथा ह्यापो ह्यन्नं चामृतमेव च ॥ ३४ ॥
प्राणा वै जगतामापो भूतानि भुवनानि च ।
बहुनात्र किमुक्तेन चराचरमिदं जगत् ॥ ३५ ॥
अपां शिवस्य भगवानाधिपत्ये व्यवस्थितः ।
अपां त्वधिपतिर्देवो भव इत्येव कीर्तितः ॥ ३६ ॥
भवात्मकं जगत् सर्वमिति किं चेह चाद्भुतम् ।
नारायणत्वं देवस्य हरेश्चाद्भिः कृतं विभोः ।
जगतामालयो विष्णुस्त्वापस्तस्यालयानि तु ॥ ३७ ॥
दन्दह्यमानेषु चराचरेषु गोधूमभूतास्त्वथ निष्क्रमन्ति ।
या या ऊर्ध्वं मारुतेनेरिता वै तास्तास्त्वभ्राण्यग्निना वायुना च ॥ ३८ ॥
अतो धूमाग्निवातानां संयोगस्त्वभ्रमुच्यते ।
वारीणि वर्षतीत्यभ्रमभ्रस्येशः सहस्रदृक् ॥ ३९ ॥
यज्ञधूमोद्भवं चापि द्विजानां हितकृत्सदा ।
दावाग्निधूमसम्भूतमभ्रं वनहितं स्मृतम् ॥ ४० ॥
मृतधूमोद्भवं त्वभ्रमशुभाय भविष्यति ।
अभिचाराग्निधूमोत्थं भूतनाशाय वै द्विजाः ॥ ४१ ॥
एवं धूमविशेषेण जगतां वै हिताहितम् ।
तस्मादाच्छादयेद्धूममभिचारकृतं नरः ॥ ४२ ॥
अनाछाद्य द्विजः कुर्याद्धूमं यश्चाभिचारिकम् ।
एवमुद्दिश्य लोकस्य क्षयकृच्च भविष्यति ॥ ४३ ॥
अपां निधानं जीमूताः षण्मासानिह सुव्रताः ।
वर्षयन्त्येव जगतां हिताय पवनाज्ञया ॥ ४४ ॥
स्तनितं चेह वायव्यं वैद्युतं पावकोद्भवम् ।
त्रिधा तेषामिहोत्पत्तिरभ्राणां मुनिपुङ्गवाः ॥ ४५ ॥
न भ्रश्यन्ति यतोऽभ्राणि मेहनान्मेघ उच्यते ।
काष्ठावाह्नाश्च वैरिञ्च्याः पक्षाश्चैव पृथग्विधाः ॥ ४६ ॥
आज्यानां काष्ठसंयोगादग्नेर्धूमः प्रवर्तितः ।
द्वितीयानां च संभूतिर्विरिञ्चोच्छ्वासवायुना ॥ ४७ ॥
भूभृतां त्वथ पक्षैस्तु मघवच्छेदितैस्ततः ।
वाह्नेयास्त्वथ जीमूतास्त्वावहस्थानगाः शुभाः ॥ ४८ ॥
विरिञ्चोच्छ्वासजाः सर्वे प्रवहस्कन्धजास्ततः ।
पक्षजाः पुष्कराद्याश्च वर्षन्ति च यदा जलम् ॥ ४९ ॥
मूकाः सशब्ददुष्टाशास्त्वेतैः कृत्यं यथाक्रमम् ।
क्षामवृष्टिप्रदा दीर्घकालं शीतसमीरिणः ॥ ५० ॥
जीवकाश्च तथा क्षीणा विद्युद्ध्वनिविवर्जिताः ।
तिष्ठन्त्याक्रोशमात्रे तु धरापृष्ठादितस्ततः ॥ ५१ ॥
अर्धक्रोशे तु सर्वे वै जीमूता गिरिवासिनः ।
मेघा योजनमात्रं तु साध्यत्वाद्बहुतोयदाः ॥ ५२ ॥
धरापृष्ठाद् द्विजाः क्ष्मायां विद्युद्गुणसमन्विताः ।
तेषां तेषां वृष्टिसर्गं त्रेधा कथितमत्र तु ॥ ५३ ॥
पक्षजाः कल्पजाः सर्वे पर्वतानां महत्तमाः ।
कल्पान्ते ते च वर्षन्ति रात्रौ नाशाय शारदाः ॥ ५४ ॥
पक्षजाः पुष्कराद्याश्च वर्षन्ति च यदा जलम् ।
तदार्णवमभूत्सर्वं तत्र शेते निशीश्वरः ॥ ५५ ॥
आग्नेयानां श्वासजानां पक्षजानां द्विजर्षभाः ।
जलदानां सदा धूमो ह्याप्यायन इति स्मृतः ॥ ५६ ॥
पौण्ड्रास्तु वृष्टयः सर्वा वैद्युताः शीतशस्यदाः ।
पुण्ड्रदेशेषु पतिता नागानां शीकरा हिमाः ॥ ५७ ॥
गाङ्गा गङ्गाम्बुसम्भूता पर्जन्येन परावहैः ।
नगानां च नदीनां च दिग्गजानां समाकुलम् ॥ ५८ ॥
मेघानां च पृथग्भूतं जलं प्रायादगादगम् ।
परावहो यः श्वसनश्चानयत्यम्बिकागुरुम् ॥ ५९ ॥
मेनापतिमतिक्रम्य वृष्टिशेषं द्विजाः परम् ।
अभ्येति भारते वर्षे त्वपरान्तविवृद्धये ॥ ६० ॥
वृष्टयः कथिता ह्यद्य द्विधा वस्तु विवृद्धये ।
सस्यद्वयस्य सङ्क्षेपात् प्रब्रवीमि यथामति ॥ ६१ ॥
स्रष्टा भानुर्महातेजा वृष्टीनां विश्वदृग्विभुः ।
सोऽपि साक्षाद् द्विजश्रेष्ठाश्चेशानः परमः शिवः ॥ ६२ ॥
स एव तेजस्त्वोजस्तु बलं विप्रा यशः स्वयम् ।
चक्षुः श्रोत्रं मनो मृत्युरात्मा मन्युर्विदिग्दिशः ॥ ६३ ॥
सत्यं ऋतं तथा वायुरम्बरं खचरश्च सः ।
लोकपालो हरिर्ब्रह्मा रुद्रः साक्षान् महेश्वरः ॥ ६४ ॥
सहस्रकिरणः श्रीमानष्टहस्तः सुमङ्गलः ।
अर्धनारिवपुः साक्षात् त्रिनेत्रस्त्रिदशाधिपः ॥ ६५ ॥
अस्यैवेह प्रसादात्तु वृष्टिर्नानाभवद् द्विजाः ।
सहस्रगुणमुत्स्रष्टुमादत्ते किरणैर्जलम् ॥ ६६ ॥
जलस्य नाशो वृद्धिर्वा नास्त्येवास्य विचारतः ।
ध्रुवेणाधिष्ठितो वायुर्वृष्टिं संहरते पुनः ॥ ६७ ॥
ग्रहान्निःसृत्य सूर्यात्तु कृत्स्ने नक्षत्रमण्डले ।
चारस्यान्ते विशत्यर्के ध्रुवेण समधिष्ठिता ॥ ६८ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे ज्योतिश्चक्रे
सूर्यगत्यादिकथनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें