श्रीलिङ्गमहापुराण -[पूर्वभाग] -053

श्रीलिङ्गमहापुराण -[पूर्वभाग] -053
॥ श्रीसाम्बसदाशिवाय नमः ॥
तिरपनवाँ अध्याय
भुवनकोश वर्णन में प्लक्ष, शाल्मलि, क्रौंच द्वीपों के महापर्वतों, ऊर्ध्व लोकों तथा नरकों का वर्णन, सर्वत्र सदाशिव की व्यापकता एवं यक्षरूप शिव और भगवती उमा का माहात्म्य
श्रीलिङ्गमहापुराणे पूर्वभागे त्रिपञ्चाशत्तमोऽध्यायः
भुवनकोशविन्यासनिर्णय

॥ सूत उवाच ॥
प्लक्षद्वीपादिद्वीपेषु सप्त सप्तसु पर्वताः ।
ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्वताः ॥ १ ॥
प्लक्षद्वीपे तु वक्ष्यामि सप्त दिव्यान् महाचलान् ।
गोमेदकोऽत्र प्रथमो द्वितीयश्चान्द्र उच्यते ॥ २ ॥


तृतीयो नारदो नाम चतुर्थो दुन्दुभिः स्मृतः ।
पञ्चमः सोमको नाम सुमनाः षष्ठ उच्यते ॥ ३ ॥
स एव वैभवः प्रोक्तो वैभ्राजः सप्तमः स्मृतः ।
सप्तैते गिरयः प्रोक्ताः प्लक्षद्वीपे विशेषतः ॥ ४ ॥
सप्त वै शाल्मलिद्वीपे तांस्तु वक्ष्याम्यनुक्रमात् ।
कुमुदश्चोत्तमश्चैव पर्वतश्च बलाहकः ॥ ५ ॥
द्रोणः कङ्कश्च महिषः ककुद्मान् सप्तमः स्मृतः ।
कुशद्वीपे तु सप्तैव द्वीपाश्च कुलपर्वताः ॥ ६ ॥
तांस्तु सङ्क्षेपतो वक्ष्ये नाममात्रेण वै क्रमात् ।
विद्रुमः प्रथमः प्रोक्तो द्वितीयो हेमपर्वतः ॥ ७ ॥
तृतीयो द्युतिमान्नाम चतुर्थः पुष्पितः स्मृतः ।
कुशेशयः पञ्चमस्तु षष्ठो हरिगिरिः स्मृतः ॥ ८ ॥
सप्तमो मन्दरः श्रीमान् महादेवनिकेतनम् ।
मन्दा इति ह्यपां नाम मन्दरो धारणादपाम् ॥ ९ ॥
तत्र साक्षाद् वृषाङ्कस्तु विश्वेशो विमलः शिवः ।
सोमः सनन्दी भगवानास्ते हेमगृहोत्तमे ॥ १० ॥
तपसा तोषितः पूर्वं मन्दरेण महेश्वरः ।
अविमुक्ते महाक्षेत्रे लेभे स परमं वरम् ॥ ११ ॥
प्रार्थितश्च महादेवो निवासार्थं सहाम्बया ।
अविमुक्तादुपागम्य चक्रे वासं स मन्दरे ॥ १२ ॥
सनन्दी सगणः सोमस्तेनासौ तन्न मुञ्चति ।
क्रौञ्चद्वीपे तु सप्तेह क्रौञ्चाद्याः कुलपर्वताः ॥ १३ ॥
क्रौञ्चो वामनकः पश्चात्तृतीयश्चान्धकारकः ।
अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः ॥ १४ ॥
दिवावृतः परश्चापि विविन्दो गिरिरुच्यते ।
विविन्दात्परतश्चापि पुण्डरीको महागिरिः ॥ १५ ॥
पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः ।
एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः ॥ १६ ॥
शाकद्वीपे च गिरयः सप्त तांस्तु निबोधत ।
उदयो रैवतश्चापि श्यामको मुनिसत्तमाः ॥ १७ ॥
राजतश्च गिरिः श्रीमानाम्बिकेयः सुशोभनः ।
आम्बिकेयात् परो रम्यः सर्वौषधिसमन्वितः ॥ १८ ॥
तथैव केसरीत्युक्तो यतो वायुः प्रजायते ।
पुष्करे पर्वतः श्रीमान्नेक एव महाशिलः ॥ १९ ॥
चित्रैर्मणिमयैः कूटैः शिलाजालैः समुच्छ्रितैः ।
द्वीपस्य तस्य पूर्वार्धे चित्रसानुस्थितो महान् ॥ २० ॥
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ।
अधश्चैव चतुस्त्रिंशत्सहस्राणि महाचलः ॥ २१ ॥
द्वीपस्यार्धे परिक्षिप्तः पर्वतो मानसोत्तरः ।
स्थितो वेलासमीपे तु नवचन्द्र इवोदितः ॥ २२ ॥
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ।
तावदेव तु विस्तीर्णः पार्श्वतः परिमण्डलः ॥ २३ ॥
स एव द्वीपपश्चार्धे मानसः पृथिवीधरः ।
एक एव महासानुः सन्निवेशाद् द्विधा कृतः ॥ २४ ॥
तस्मिन् द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ।
राजतौ मानसस्याथ पर्वतस्यानुमण्डलौ ॥ २५ ॥
महावीतं तु यद्वर्षं बाह्यतो मानसस्य तु ।
तस्यैवाभ्यन्तरो यस्तु धातकीखण्ड उच्यते ॥ २६ ॥
स्वादूदकेनोदधिना पुष्करः परिवारितः ।
पुष्करद्वीपविस्तार विस्तीर्णोऽसौ समन्ततः ॥ २७ ॥
विस्तारान्मण्डलाच्चैव पुष्करस्य समेन तु ।
एवं द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृताः ॥ २८ ॥
द्वीपस्यानन्तरो यस्तु समुद्रः सप्तमस्तु वै ।
एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परम् ॥ २९ ॥
परेण पुष्करस्याथ अनुवृत्य स्थितो महान् ।
स्वादूदकसमुद्रस्तु समन्तात्परिवेष्ट्य च ॥ ३० ॥
परेण तस्य महती दृश्यते लोकसंस्थितिः ।
काञ्चनी द्विगुणा भूमिः सर्वा चैकशिलोपमा ॥ ३१ ॥
तस्याः परेण शैलस्तु मर्यादापारमण्डलः ।
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ॥ ३२ ॥
दृश्यादृश्यगिरिर्यावत्तावदेषा धरा द्विजाः ।
योजनानां सहस्राणि दश तस्योच्छ्रयः स्मृतः ॥ ३३ ॥
तावांश्च विस्तरस्तस्य लोकालोकमहागिरेः ।
अर्वाचीने तु तस्यार्धे चरन्ति रविरश्मयः ॥ ३४ ॥
परार्धे तु तमो नित्यं लोकालोकस्ततः स्मृतः ।
एवं सङ्क्षेपतः प्रोक्तो भूर्लोकस्य च विस्तरः ॥ ३५ ॥
आ भानोर्वै भुवः स्वस्तु आ ध्रुवान् मुनिसत्तमाः ।
आवहाद्या निविष्टास्तु वायोर्वै सप्त नेमयः ॥ ३६ ॥
आवहः प्रवहश्चैव ततश्चानुवहस्तथा ।
संवहो विवहश्चाथ ततश्चोर्ध्वं परावहः ॥ ३७ ॥
द्विजाः परिवहश्चेति वायोर्वै सप्त नेमयः ।
बलाहकास्तथा भानुश्चन्द्रो नक्षत्रराशयः ॥ ३८ ॥
ग्रहाणि ऋषयः सप्त ध्रुवो विप्राः क्रमादिह ।
योजनानां महीपृष्ठादूर्ध्वं पञ्चदशा ध्रुवात् ॥ ३९ ॥
नियुतान्येकनियुतं भूपृष्ठाद्भानुमण्डलम् ।
रथः षोडशसाहस्रो भास्करस्य तथोपरि ॥ ४० ॥
चतुरशीतिसाहस्रो मेरुश्चोपरि भूतलात् ।
कोटियोजनमाक्रम्य महर्लोको ध्रुवाद्ध्रुवः ॥ ४१ ॥
जनलोको महर्लोकात्तथा कोटिद्वयं द्विजाः ।
जनलोकात्तपोलोकश्चतस्रः कोटयो मतः ॥ ४२ ॥
प्राजापत्याद् ब्रह्मलोकः कोटिषट्कं विसृज्य तु ।
पुण्यलोकास्तु सप्तैते ह्यण्डेऽस्मिन् कथिता द्विजाः ॥ ४३ ॥
अधः सप्ततलानां तु नरकाणां हि कोटयः ।
मायान्ताश्चैव घोराद्या अष्टाविंशतिरेव तु ॥ ४४ ॥
पापिनस्तेषु पच्यन्ते स्वस्वकर्मानुरूपतः ।
अवीच्यन्तानि सर्वाणि रौरवाद्यानि तेषु च ॥ ४५ ॥
प्रत्येकं पञ्चकान्याहुर्नरकाणि विशेषतः ।
अण्डमादौ मया प्रोक्तमण्डस्यावरणानि च ॥ ४६ ॥
हिरण्यगर्भसर्गश्च प्रसङ्गाद्बहुविस्तरात् ।
अण्डानामीदृशानां तु कोट्यो ज्ञेयाः सहस्रशः ॥ ४७ ॥
सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधस्तथा ।
अण्डेष्वेतेषु सर्वेषु भुवनानि चतुर्दश ॥ ४८ ॥
प्रत्यण्डं द्विजशार्दूलास्तेषां हेतुर्महेश्वरः ।
अण्डेषु चाण्डबाह्येषु तथाण्डावरणेषु च ॥ ४९ ॥
तमोऽन्ते च तमःपारे चाष्टमूर्तिर्व्यवस्थितः ।
अस्यात्मनो महेशस्य महादेवस्य धीमतः ॥ ५० ॥
अदेहिनस्त्वहो देहमखिलं परमात्मनः ।
अस्याष्टमूर्तेः शर्वस्य शिवस्य गृहमेधिनः ॥ ५१ ॥
गृहिणी प्रकृतिर्दिव्या प्रजाश्च महदादयः ।
पशवः किङ्करास्तस्य सर्वे देहाभिमानिनः ॥ ५२ ॥
आद्यन्तहीनो भगवाननन्तः पुमान् प्रधानप्रमुखाश्च सप्त ।
प्रधानमूर्तिस्त्वथ षोडशाङ्गो महेश्वरश्चाष्टतनुः स एव ॥ ५३ ॥
आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ।
ज्योतिर्गणः शक्रमुखाः सुराश्च वैमानिकाः स्थावरजङ्गमाश्च ॥ ५४ ॥
दृष्ट्वा यक्षं लक्षणैर्हीनमीशं दृष्ट्वा सेन्द्रास्ते किमेतत्त्विहेति ।
यक्षं गत्वा निश्चयात् पावकाद्याः शक्तिक्षीणाश्चाभवन् यत्ततोऽपि ॥ ५५ ॥
दग्धुं तृणं वापि समक्षमस्य यक्षस्य वह्निर्न शशाक विप्राः ।
वायुस्तृणं चालयितुं तथान्ये स्वान् स्वान् प्रभावान् सकलामरेन्द्राः ॥ ५६ ॥
तदा स्वयं वृत्ररिपुः सुरेन्द्रैः सुरेश्वरः सर्वसमृद्धिहेतुः ।
सुरेश्वरं यक्षमुवाच को वा भवानितीत्थं स कुतूहलात्मा ॥ ५७ ॥
तदा ह्यदृश्यं गत एव यक्षस्तदाम्बिका हैमवती शुभास्या ।
उमा शुभैराभरणैरनेकैः सुशोभमाना त्वनु चाविरासीत् ॥ ५८ ॥
तां शक्रमुख्या बहुशोभमानामुमामजां हैमवतीमपृच्छन् ।
किमेतदीशे बहुशोभमाने वाम्बिके यक्षवपुश्चकास्ति ॥ ५९ ॥
निशम्य तद्यक्षमुमाम्बिकाह त्वगोचरश्चेति सुराः सशक्राः ।
प्रणेमुरेनां मृगराजगामिनीमुमामजां लोहितशुक्लकृष्णाम् ॥ ६० ॥
सम्भाविता सा सकलामरेन्द्रैः सर्वप्रवृत्तिस्तु सुरासुराणाम् ।
अहं पुरासं प्रकृतिश्च पुंसो यक्षस्य चाज्ञावशगेत्यथाह ॥ ६१ ॥
तस्माद्द्विजाः सर्वमजस्य तस्य नियोगतश्चाण्डमभूदजाद्वै ।
अजश्च अण्डादखिलं च तस्मात् ज्योतिर्गणैर्लोकमजात्मकं तत् ॥ ६२ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनकोशविन्यासनिर्णयो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-53


कोई टिप्पणी नहीं:

123