श्रीलिङ्गमहापुराण -[उत्तरभाग] -012

श्रीलिङ्गमहापुराण -[उत्तरभाग] -012

॥ श्रीसाम्बसदाशिवाय नमः ॥
बारहवाँ अध्याय
भगवान् शिव की अष्टमूर्तियों का स्वरूप तथा उनकी विश्वरूपता
श्रीलिङ्गमहापुराणे उत्तरभागे द्वादशोऽध्यायः
शिवविश्वरूपवर्णनं

॥ सनत्कुमार उवाच ॥
मूर्तयोऽष्ठौ ममाचक्ष्व शङ्करस्य महात्मनः ।
विश्वरूपस्य देवस्य गणेश्वर महामते ॥ १ ॥
॥ नन्दिकेश्वर उवाच ॥
हन्त ते कथयिष्यामि महिमानमुमापतेः ।
विश्वरूपस्य देवस्य सरोजभवसम्भव ॥ २ ॥


भूरापोऽग्निर्मरुद् व्योम भास्करो दीक्षितः शशी ।
भवस्य मूर्तयः प्रोक्ताः शिवस्य परमेष्ठिनः ॥ ३ ॥
खात्मेन्दुवह्निसूर्याम्भोधराः पवन इत्यपि ।
तस्याष्ट मूर्तयः प्रोक्ता देवदेवस्य धीमतः ॥ ४ ॥
अग्निहोत्रेऽर्पिते तेन सूर्यात्मनि महात्मनि ।
तद्विभूतिस्तथा सर्वे देवास्तृप्यन्ति सर्वदाः ॥ ५ ॥
वृक्षस्य मूलसेकेन यथा शाखोपशाखिकाः ।
तथा तस्यार्चया देवास्तथा स्युस्तद्विभूतयः ॥ ६ ॥
तस्य द्वादशधा भिन्नं रूपं सूर्यात्मकं प्रभोः ।
सर्वदेवात्मकं याज्यं यजन्ति मुनिपुङ्गवाः ॥ ७ ॥
अमृताख्या कला तस्य सर्वस्यादित्यरूपिणः ।
भूतसञ्जीवनी चेष्टा लोकोस्मिन् पीयते सदा ॥ ८ ॥
चन्द्राख्यकिरणास्तस्य धूर्जटेर्भास्करात्मनः ।
ओषधीनां विवृद्ध्यर्थं हिमवृष्टिं वितन्वते ॥ ९ ॥
शुक्लाख्या रश्मयस्तस्य शम्भोर्मार्तण्डरूपिणः ।
घर्मं वितन्वते लोके सस्यपाकादिकारणम् ॥ १० ॥
दिवाकरात्मनस्तस्य हरिकेशाह्वयः करः ।
नक्षत्रपोषकश्चैव प्रसिद्धः परमेष्ठिनः ॥ ११ ॥
विश्वकर्माह्वयस्तस्य किरणो बुधपोषकः ।
सर्वेश्वरस्य देवस्य सप्तसप्तिस्वरूपिणः ॥ १२ ॥
विश्वव्यच इति ख्यातः किरणस्तस्य शूलिनः ।
शुक्रपोषकभावेन प्रतीतः सूर्यरूपिणः ॥ १३ ॥
संयद्वसुरीति ख्यातो यस्य रश्मिस्त्रिशूलिनः ।
लोहिताङ्गं प्रपुष्णाति सहस्रकिरणात्मनः ॥ १४ ॥
अर्वावसुरीति ख्यातो रश्मिस्तस्य पिनाकिनः ।
बृहस्पतिं प्रपुष्णाति सर्वदा तपनात्मनः ॥ १५ ॥
स्वराडिति समाख्यातः शिवस्यांशुः शनैश्चरम् ।
हरिदश्वात्मनस्तस्य प्रपुष्णाति दिवानिशम् ॥ १६ ॥
सूर्यात्मकस्य देवस्य विश्वयोनेरुमापतेः ।
सुषुम्णाख्यः सदा रश्मिः पुष्णाति शिशिरद्युतिम् ॥ १७ ॥
सौम्यानां वसुजातानां प्रकृतित्वमुपागता ।
तस्य सोमाह्वया मूर्तिः शङ्करस्य जगद्गुरोः ॥ १८ ॥
तस्य सोमात्मक रूप शुक्रत्वेन व्यवस्थितम् ।
शरीरभाजां सर्वेषां देवस्यान्तकशासिनः ॥ १९ ॥
शरीरिणामशेषाणां मनस्येव व्यवस्थितम् ।
वपुः सोमात्मकं शम्भोस्तस्य सर्वजगद्गुरोः ॥ २० ॥
शम्भोः षोडशधा भिन्ना स्थितामृतकलात्मनः ।
सर्वभूतशरीरेषु सोमाख्या मूर्तिरुत्तमा ॥ २१ ॥
देवान् पितॄंश्च पुष्णाति सुधयामृतया सदा ।
मूर्तिः सोमाह्वया तस्य देवदेवस्य शासितुः ॥ २२ ॥
पुष्णात्योषधिजातानि देहिनामात्मशुद्धये ।
सोमाह्वया तनुस्तस्य भवानीमिति निर्दिशेत् ॥ २३ ॥
यज्ञानां पतिभावेन जीवानां तपसामपि ।
प्रसिद्धरूपमेतद्वै सोमात्मकमुमापतेः ॥ २४ ॥
जलानामोषधीनां च पतिभावेन विश्रुतम् ।
सोमात्मकं वपुस्तस्य शम्भोर्भगवतः प्रभोः ॥ २५ ॥
देवो हिरण्मयो मृष्टः परस्परविवेकिनः ।
करणानामशेषाणां देवतानां निराकृतिः ॥ २६ ॥
जीवत्वेन स्थिते तस्मिन् शिवे सोमात्मके प्रभौ ।
मधुरा विलयं याति सर्वलोकैकरक्षिणी ॥ २७ ॥
यजमानाह्वया मूर्तिः शैवी हव्यैरहर्निशम् ।
पुष्णाति देवताः सर्वाः कव्यैः पितृगणानपि ॥ २८ ॥
यजमानाह्वया या सा तनुश्चाहुतिजा तया ।
वृष्ट्या भावयति स्पष्टं सर्वमेव परापरम् ॥ २९ ॥
अन्तःस्थं च बहिःस्थं च ब्रह्माण्डानां स्थितं जलम् ।
भूतानां च शरीरस्थं शम्भोर्मूर्तिर्गरीयसी ॥ ३० ॥
नदीनाममृतं साक्षान्नदानामपि सर्वदा ।
समुद्राणां च सर्वत्र व्यापी सर्वमुमापतिः ॥ ३१ ॥
सञ्जीविनी समस्तानां भूतानामेव पाविनी ।
अम्बिका प्राणसंस्था या मूर्तिरम्बुमयी परा ॥ ३२ ॥
अन्तःस्थश्च बहिःस्थश्च ब्रह्माण्डानां विभावसुः ।
यज्ञानां च शरीरस्थः शम्भोर्मूर्तिर्गरीयसी ॥ ३३ ॥
शरीरस्था च भूतानां श्रेयसी मूर्तिरैश्वरी ।
मूर्तिः पावक संस्था या शम्भोरत्यन्तपूजिता ॥ ३४ ॥
भेदा एकोनपञ्चाशद्वेदविद्भिरुदाहृताः ।
हव्यं वहति देवानां शम्भोर्यज्ञात्मकं वपुः ॥ ३५ ॥
कव्यं पितृगणानां च हूयमानं द्विजातिभिः ।
सर्वदेवमयं शम्भोः श्रेष्ठमग्यात्मकं वपुः ॥ ३६ ॥
वदन्ति वेदशास्त्रज्ञा यजन्ति च यथाविधि ।
अन्तःस्थो जगदण्डानां बहिःस्थश्च समीरणः ॥ ३७ ॥
शरीरस्थश्च भूतानां शैवी मूर्तिः पटीयसी ।
प्राणाद्या नागकूर्माद्या आवहाद्याश्च वायवः ॥ ३८ ॥
ईशानमूर्तेरेकस्य भेदाः सर्वे प्रकीर्तिताः ।
अन्तःस्थं जगदण्डानां बहिःस्थं च वियद्विभोः ॥ ३९ ॥
शरीरस्थं च भूतानां शम्भोर्मूर्तिर्गरीयसी ।
शम्भोर्विश्वम्भरा मूर्तिः सर्वब्रह्माधिदेवता ॥ ४० ॥
चराचराणां भूतानां सर्वेषां धारणे मता ।
चराचराणां भूतानां शरीराणि विदुर्बुधाः ॥ ४१ ॥
पञ्चकेनेशमूर्तीनां समारब्धानि सर्वथा ।
पञ्चभूतानि चन्द्रार्कावात्मेति मुनिपुङ्गवाः ॥ ४२ ॥
मूर्तयोऽष्टौ शिवस्याहुर्देवदेवस्य धीमतः ।
आत्मा तस्याष्टमी मूर्तिर्यजमानाह्वया परा ॥ ४३ ॥
चराचर शरीरेषु सर्वेष्वेव स्थिता तदा ।
दीक्षितं ब्राह्मणं प्राहुरात्मानं च मुनीश्वराः ॥ ४४ ॥
यजमानाह्वया मूर्तिः शिवस्य शिवदायिनः ।
मूर्तयोऽष्टौ शिवस्यैता वन्दनीयाः प्रयत्नतः ॥ ४५ ॥
श्रेयोऽर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः ॥ ४६ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे शिवविश्वरूपवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥

अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[उत्तरभाग]-अध्याय-12

कोई टिप्पणी नहीं:

123