श्रीलिङ्गमहापुराण -[उत्तरभाग] -013

श्रीलिङ्गमहापुराण -[उत्तरभाग] -013
॥ श्रीसाम्बसदाशिवाय नमः ॥
तेरहवाँ अध्याय
भगवान् सदाशिव के शर्व, भव आदि आठ स्वरूपों तथा उनकी शक्तियों एवं पुत्रों का वर्णन
श्रीलिङ्गमहापुराणे उत्तरभागे त्रयोदशोऽध्यायः
शिवाष्टमूर्तिवर्णनं

॥ सनत्कुमार उवाच ॥
भूयोऽपि वद मे नन्दिन् महिमानमुमापते ।
अष्टमूर्तेर्महेशस्य शिवस्य परमेष्ठिनः ॥ १ ॥
॥ नन्दिकेश्वर उवाच ॥
वक्ष्यामि ते महेशस्य महिमानमुमापतेः ।
अष्टमूर्तेर्जगद्व्याप्य स्थितस्य परमेष्ठिनः ॥ २ ॥


चराचराणां भूतानां धाता विश्वम्भरात्मकः ।
शर्व इत्युच्यते देवः सर्वशास्त्रार्थपारगैः ॥ ३ ॥
विश्वम्भरात्मनस्तस्य सर्वस्य परमेष्ठिनः ।
विकेशी कथ्यते पत्नी तनयोङ्गारकः स्मृतः ॥ ४ ॥
भव इत्युच्यते देवो भगवान् वेदवादिभिः ।
सञ्जीवनस्य लोकानां भवस्य परमात्मनः ॥ ५ ॥
उमा सङ्कीर्तिता देवी सुतः शुक्रश्च सूरिभिः ।
सप्तलोकाण्डकव्यापी सर्वलोकैकरक्षिता ॥ ६ ॥
वह्न्यात्मा भगवान् देवः स्मृतः पशुपतिर्बुधैः ।
स्वाहा पत्न्यात्मनस्तस्य प्रोक्ता पशुपतेः प्रिया ॥ ७ ॥
षण्मुखो भगवान् देवो बुधैः पुत्र उदाहृतः ।
समस्तभुवनव्यापी भर्ता सर्वशरीरिणाम् ॥ ८ ॥
पवनात्मा बुधैर्देव ईशान इति कीर्त्यते ।
ईशानस्य जगत्कर्तुर्देवस्य पवनात्मनः ॥ ९ ॥
शिवा देवी बुदैरुक्ता पुत्रश्चास्य मनोजवः ।
चराचराणां भूतानां सर्वेषां सर्वकामदः ॥ १० ॥
व्योमात्मा भगवान् देवो भीम इत्युच्यते बुधैः ।
महामहिम्नो देवस्य भीमस्य गगनात्मनः ॥ ११ ॥
दिशो दश स्मृता देव्यः सुतः सर्गश्च सूरिभिः ।
सूर्यात्मा भगवान् देवः सर्वेषां च विभूतिदः ॥ १२ ॥
रुद्र इत्युच्यते देवैर्भगवान् भुक्तिमुक्तिदः ।
सूर्यात्म कस्य रुद्रस्य भक्तानां भक्तिदायिनः ॥ १३ ॥
सुवर्चला स्मृता देवी सुतश्चास्य शनैश्चरः ।
समस्तसौम्यवस्तूनां प्रकृतित्वेन विश्रुतः ॥ १४ ॥
सोमात्मको बुधैर्देवो महादेव इति स्मृतः ।
सोमात्मकस्य देवस्य महादेवस्य सूरिभिः ॥ १५ ॥
दयिता रोहिणी प्रोक्ता बुधश्चैव शरीरजः ।
हव्यकव्यस्थितिं कुर्वन् हव्यकव्याशिनां तदा ॥ १६ ॥
यजमानात्मको देवो महादेवो बुधैः प्रभुः ।
उग्र इत्युच्यते सद्भिरीशानश्चेति चापरैः ॥ १७ ॥
उग्राह्वयस्य देवस्य यजमानात्मनः प्रभोः ।
दीक्षा पत्नी बुधैरुक्ता सन्तानाख्यः सुतस्तथा ॥ १८ ॥
शरीरिणां शरीरेषु कठिनं कोङ्कणादिवत् ।
पार्थिवं तद्वपुर्ज्ञेयं शर्वतत्त्वं बुभुत्सुभिः ॥ १९ ॥
देहे देहे तु देवेशो देहभाजां यदव्ययम् ।
वस्तुद्रव्यात्मकं तस्य भवस्य परमात्मनः ॥ २० ॥
ज्ञेयं च तत्त्वविद्भिर्वै सर्ववेदार्थपारगैः ।
आग्नेयः परिणामो यो विग्रहेषु शरीरिणाम् ॥ २१ ॥
मूर्तिः पशुपतिर्ज्ञेया सा तत्त्वं वेत्तुमिच्छुभिः ।
वायव्यः परिणामो यः शरीरेषु शरीरिणाम् ॥ २२ ॥
बुधैरीशोति सा तस्य तनुर्ज्ञेया न संशयः ।
सुषिरं यच्छरीरस्थमशेषाणां शरीरिणाम् ॥ २३ ॥
भीमस्य सा तनुर्ज्ञेया तत्त्वविज्ञानकाङ्क्षिभिः ।
चक्षुरादिगतं तेजो यच्छरीरस्थमङ्गिनाम् ॥ २४ ॥
रुद्रस्यापि तनुर्ज्ञेया परमार्थं बुभुत्सुभिः ।
सर्वभूतशरीरेषु मनश्चन्द्रात्मकं हि यत् ॥ २५ ॥
महादेवस्य सा मूर्तिर्बोद्धव्या तत्त्वचिन्तकैः ।
आत्मा यो यजमानाख्यः सर्वभूतशरीरगः ॥ २६ ॥
मूर्तिरुग्रस्य सा ज्ञेया परमात्मबुभुत्सुभिः ।
जातानां सर्व भूतानां चतुर्दशसु योनिषु ॥ २७ ॥
अष्टमूर्तेरनन्यत्वं वदन्ति परमर्षयः ।
सप्तमूर्तिमयान्याहुरीशस्याङ्गानि देहिनाम् ॥ २८ ॥
आत्मा तस्याष्टमी मूर्तिः सर्वभूतशरीरगा ।
अष्टमूर्तिममुं देवं सर्वलोकात्मकं विभुम् ॥ २९ ॥
भजस्व सर्वभावेन श्रेयः प्राप्तुं यदीच्छसि ।
प्राणिनो यस्य कस्यापि क्रियते यद्यनुग्रहः ॥ ३० ॥
अष्टमूर्तेर्महेशस्य कृतमाराधनं भवेत् ।
निग्रहश्चेत् कृतो लोके देहिनो यस्य कस्यचित् ॥ ३१ ॥
अष्टमूर्तेर्महेशस्य स एव विहितो भवेत् ।
यद्यवज्ञा कृता लोके यस्य कस्य चिदङ्गिनः ॥ ३२ ॥
अष्टमूर्तेर्महेशस्य विहिता सा भवेद्विभोः ।
अभयं यत् प्रदत्तं स्यादङ्गिनो वस्य कस्यचित् ॥ ३३ ॥
आराधनं कृतं तस्मादष्टमूर्तेर्न संशयः ।
सर्वोपकारकरणं प्रदानमभयस्य च ॥ ३४ ॥
आराधनं तु देवस्य अष्टमूर्तेर्न संशयः ।
सर्वोपकारकरणं सर्वानुग्रह एव च ॥ ३५ ॥
तदर्चनं परं प्राहुरष्टमूर्तेर्मुनीश्वराः ।
अनुग्रहणमन्येषां विधातव्यं त्वयाङ्गिनाम् ॥ ३६ ॥
सर्वाभयप्रदानं च शिवाराधनमिच्छता ॥ ३७ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे शिवाष्टमूर्तिवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥

अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[उत्तरभाग]-अध्याय-13

कोई टिप्पणी नहीं:

123