श्रीलिङ्गमहापुराण -[पूर्वभाग] -007

 श्रीलिङ्गमहापुराणे पूर्वभागे सप्तमोऽध्यायः

मनुव्यासयोगेश्वरतच्छिष्यकथनं
॥ सूत उवाच ॥

रहस्यं वः प्रवक्ष्यामि भवस्यामिततेजसः ।
प्रभावं शंकरस्याद्यं संक्षेपात् सर्वदर्शिनः ॥ १ ॥
योगिनः सर्वतत्त्वज्ञाः परं वैराग्यमास्थिताः ।
प्राणायामादिभिश्चाष्ट साधनैः सहचारिणः ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -006

 श्रीलिङ्गमहापुराणे पूर्वभागे षष्ठोऽध्यायः

शङ्करमाहात्म्यसृष्टिवर्णनं
॥ सूत उवाच ॥

पवमानः पावकश्च शुचिरग्निश्च ते स्मृताः ।
निर्मथ्यः पवमानस्तु वैद्युतः पावकः स्मृतः ॥ १ ॥
शुचिः सौरस्तु विज्ञेयः स्वाहा पुत्रास्त्रयस्तु ते ।
पुत्रैः पौत्रैस्त्विहैतेषां संख्या संक्षेपतः स्मृता ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -005

 श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चमोऽध्यायः

प्रजासृष्टिवर्णनं
॥ सूत उवाच ॥

यदा स्रष्टुं मतिं चक्रे मोहश्चासीन् महात्मनः ।
द्विजाश्च बुद्धिपूर्वं तु ब्रह्मणोऽव्यक्तजन्मनः ॥ १ ॥
तमो मोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ।
अविद्या पञ्चधा ह्येषा प्रादुर्भूता स्वयम्भुवः ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -004

 श्रीलिङ्गमहापुराणे पूर्वभागे चतुर्थोऽध्यायः

सृष्टिप्रारम्भवर्णनं
॥ सूत उवाच ॥

अथ प्राथमिकस्येह यः कालस्तदहः स्मृतम् ।
सर्गस्य तादृशी रात्रिः प्राकृतस्य समासतः ॥ १ ॥
दिवा सृष्टिं विकुरुते रजन्यां प्रलयं विभुः ।
औपचारिकमस्यैतदहोरात्रं न विद्यते ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -003

 श्रीलिङ्गमहापुराणे पूर्वभागे तृतीयोऽध्यायः

प्राकृतप्राथमिकसर्गकथनं
॥ सूत उवाच ॥

अलिङ्गो लिङ्गमूलं तु अव्यक्तं लिङ्गमुच्यते ।
अलिङ्गः शिव इत्युक्तो लिङ्गं शैवमिति स्मृतम् ॥ १ ॥
प्रधानं प्रकृतिश्चेति यदाहुर्लिङ्गमुत्तमम् ।
गन्धवर्णरसैर्हीनं शब्दस्पर्शादिवर्जितम् ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -002

 श्रीलिङ्गमहापुराणे पूर्वभागे द्वितीयोऽध्यायः

अनुक्रमणिकावर्णनं
॥ सूत उवाच ॥

ईशानकल्पवृत्तान्तमधिकृत्य महात्मना ।
ब्रह्मणा कल्पितं पूर्वं पुराणं लैङ्गमुत्तमम् ॥ १ ॥
ग्रन्थकोटिप्रमाणं तु शतकोटिप्रविस्तरे ।
चतुर्लक्षेण संक्षिप्ते व्यासैः सर्वान्तरेषु वै ॥ २ ॥

श्रीलिङ्गमहापुराण -[पूर्वभाग] -001

 ॥ श्रीगणेशाय नमः ॥

॥ ॐ नमः शिवाय ॥
श्रीलिङ्गमहापुराणे पूर्वभागे प्रथमोऽध्यायः
लिङ्गोद्भवप्रतिज्ञावर्णनं

नमो रुद्राय हरये ब्रह्मणे परमात्मने ।
प्रधानपुरुषेशाय सर्गस्थित्यन्तकारिणे ॥ १ ॥
नारदोऽभ्यर्च्य शैलेशे शङ्करं सङ्गमेश्वरे ।
हिरण्यगर्भे स्वर्लीने ह्यविमुक्ते महालये ॥ २ ॥

123