श्रीलिङ्गमहापुराण -[पूर्वभाग] -001

 ॥ श्रीगणेशाय नमः ॥

॥ ॐ नमः शिवाय ॥
श्रीलिङ्गमहापुराणे पूर्वभागे प्रथमोऽध्यायः
लिङ्गोद्भवप्रतिज्ञावर्णनं

नमो रुद्राय हरये ब्रह्मणे परमात्मने ।
प्रधानपुरुषेशाय सर्गस्थित्यन्तकारिणे ॥ १ ॥
नारदोऽभ्यर्च्य शैलेशे शङ्करं सङ्गमेश्वरे ।
हिरण्यगर्भे स्वर्लीने ह्यविमुक्ते महालये ॥ २ ॥



रौद्रे गोप्रेक्षके चैव श्रेष्ठे पाशुपते तथा ।
विघ्नेश्वरे च केदारे तथा गोमायुकेश्वरे ॥ ३ ॥
हिरण्यगर्भे चन्द्रेशे ईशान्ये च त्रिविष्टपे ।
शुक्रेश्वरे यथान्यायं नैमिषं प्रययौ मुनिः ॥ ४ ॥
नैमिषेयास्तदा दृष्ट्वा नारदं हृष्टमानसाः ।
समभ्यर्च्यासनं तस्मै तद्योग्यं समकल्पयन् ॥ ५ ॥
सोऽपि हृष्टो मुनिवरैर्दत्तं भेजे तदासनम् ।
सम्पूज्यमानो मुनिभिः सुखासीनो वरासने ॥ ६ ॥
चक्रे कथां विचित्रार्थां लिङ्गमाहात्म्यमाश्रिताम् ।
एतस्मिन्नेवकाले तु सूतः पौराणिकः स्वयम् ॥ ७ ॥
जगाम नैमिषं धीमान् प्रणामार्थं तपस्विनाम् ।
तस्मै साम च पूजां च यथावच्चक्रिरे तदा ॥ ८ ॥
नैमिषेयास्तु शिष्याय कृष्णद्वैपायनस्य तु ।
अथ तेषां पुराणस्य शुश्रूषा समपद्यत ॥ ९ ॥
दृष्ट्वा तमतिविश्वस्तं विद्वांसं रोमहर्षणम् ।
अपृच्छंश्च ततः सूतमृषिं सर्वे तपोधनाः ॥ १० ॥
पुराणसंहितां पुण्यां लिङ्गमाहात्म्यसंयुताम् ।
॥ नैमिषेया ऊचुः ॥
त्वया सूत महाबुद्धे कृष्णद्वैपायनो मुनिः ॥ ११ ॥
उपासितः पुराणार्थं लब्धा तस्माच्च संहिता ।
तस्माद्भवन्तं पृच्छामः सूत पौराणिकोत्तमम् ॥ १२ ॥
पुराणसंहितां दिव्यां लिङ्गमाहात्म्यसंयुताम् ।
नारदोऽप्यस्य देवस्य रुद्रस्य परमात्मनः ॥ १३ ॥
क्षेत्राण्यासाद्य चाभ्यर्च्य लिङ्गानि मुनिपुङ्गवः ।
इह संनिहितः श्रीमान् नारदो ब्रह्मणः सुतः ॥ १४ ॥
भवभक्तो भवांश्चैव वयं वै नारदस्तथा ।
अस्याग्रतो मुनेः पुण्यं पुराणं वक्तुमर्हसि ॥ १५ ॥
सफलं साधितं सर्वं भवता विदितं भवेत् ।
एवमुक्तः स हृष्टात्मा सूतः पौराणिकोत्तमः ॥ १६ ॥
अभिवाद्याग्रतो धीमान् नारदं ब्रह्मणः सुतम् ।
नैमिषेयांश्च पुण्यात्मा पुराणं व्याजहार सः ॥ १७ ॥
॥ सूत उवाच ॥
नमस्कृत्य महादेवं ब्रह्माणं च जनार्दनम् ।
मुनीश्वरं तथा व्यासं वक्तुं लिङ्गं स्मराम्यहम् ॥ १८ ॥
शब्दं ब्रह्मतनुं साक्षाच्छब्द ब्रह्मप्रकाशकम् ।
वर्णावयवमव्यक्त लक्षणं बहुधा स्थितम् ॥ १९ ॥
अकारोकारमकारं स्थूलं सूक्ष्मं परात्परम् ।
ओङ्काररूपमृग्वक्त्रं समजिह्वा समन्वितम् ॥ २० ॥
यजुर्वेदमहाग्रीवमथर्वहृदयं विभुम् ।
प्रधानपुरुषातीतं प्रलयोत्पत्तिवर्जितम् ॥ २१ ॥
तमसा कालरुद्राख्यं रजसा कनकाण्डजम् ।
सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥ २२ ॥
प्रधानावयवं व्याप्य सप्तधाधिष्ठितं क्रमात् ।
पुनः षोडशधा चैव षड्विंशकमजोद्भवम् ॥ २३ ॥
सर्गप्रतिष्ठासंहार लीलार्थं लिङ्गरूपिणम् ।
प्रणम्य च यथान्यायं वक्ष्ये लिङ्गोद्भवं शुभम् ॥ २४ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे लिङ्गोद्भवप्रतिज्ञावर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-01

कोई टिप्पणी नहीं:

123