श्रीलिङ्गमहापुराणे पूर्वभागे द्वितीयोऽध्यायः
अनुक्रमणिकावर्णनं
॥ सूत उवाच ॥
ईशानकल्पवृत्तान्तमधिकृत्य महात्मना ।
ब्रह्मणा कल्पितं पूर्वं पुराणं लैङ्गमुत्तमम् ॥ १ ॥
ग्रन्थकोटिप्रमाणं तु शतकोटिप्रविस्तरे ।
चतुर्लक्षेण संक्षिप्ते व्यासैः सर्वान्तरेषु वै ॥ २ ॥
व्यस्तेऽष्टादशधा चैव ब्रह्मादौ द्वापरादिषु ।
लिङ्गमेकादशं प्रोक्तं मया व्यासाच्छ्रुतं च तत् ॥ ३ ॥
अस्यैकादशसाहस्रे ग्रन्थमानमिह द्विजाः ।
तस्मात्सङ्क्षेपतो वक्ष्ये न श्रुतं विस्तरेण यत् ॥ ४ ॥
चतुर्लक्षेण सङ्क्षिप्ते कृष्णद्वैपायनेन तु ।
अत्रैकादशसाहस्रैः कथितो लिङ्गसम्भवः ॥ ५ ॥
सर्गः प्राधानिकः पश्चात्प्राकृतो वैकृतानि च ।
अण्डस्यास्य च सम्भूतिरण्डस्यावरणाष्टकम् ॥ ६ ॥
अण्डोद्भवत्वं शर्वस्य रजोगुणसमाश्रयात् ।
विष्णुत्वं कालरुद्रत्वं शयनं चाप्सु तस्य च ॥ ७ ॥
प्रजापतीनां सर्गश्च पृथिव्युद्धरणं तथा ।
ब्रह्मणश्च दिवारात्रमायुषो गणनं पुनः ॥ ८ ॥
सवनं ब्रह्मणश्चैव युगकल्पश्च तस्य तु ।
दिव्यं च मानुषं वर्षमार्षं वै ध्रौव्यमेव च ॥ ९ ॥
पित्र्यं पितॄणां सम्भूतिर्धर्मश्चाश्रमिणां तथा ।
अवृद्धिर्जगतो भूयो देव्याः शक्त्युद्भवस्तथा ॥ १० ॥
स्त्रीपुम्भावो विरिञ्चस्य सर्गो मिथुनसम्भवः ।
आख्याष्टकं हि रुद्रस्य कथितं रोदनान्तरे ॥ ११ ॥
ब्रह्मविष्णुविवादश्च पुनर्लिङ्गस्य सम्भवः ।
शिलादस्य तपश्चैव वृत्रारेर्दर्शनं तथा ॥ १२ ॥
प्रार्थना योनिजस्याथ दुर्लभत्वं सुतस्य तु ।
शिलादशक्रसंवादः पद्मयोनित्वमेव च ॥ १३ ॥
भवस्य दर्शनं चैव तिष्येष्वाचार्यशिष्ययोः ।
व्यासावताराश्च तथा कल्पमन्वन्तराणि च ॥ १४ ॥
कल्पत्वं चैव कल्पानामाख्याभेदेष्वनुक्रमात् ।
कल्पेषु कल्पे वाराहे वाराहत्वं हरेस्तथा ॥ १५ ॥
मेघवाहनकल्पस्य वृत्तान्तं रुद्रगौरवम् ।
पुनर्लिङ्गोद्भवश्चैव ऋषिमध्ये पिनाकिनः ॥ १६ ॥
लिङ्गस्याराधनं स्नान विधानं शौचलक्षणम् ।
वाराणस्याश्च माहात्म्यं क्षेत्रमाहात्म्यवर्णनम् ॥ १७ ॥
भुवि रुद्रालयानां तु संख्या विष्णोर्गृहस्य च ।
अन्तरिक्षे तथाण्डेऽस्मिन् देवायतनवर्णनम् ॥ १८ ॥
दक्षस्य पतनं भूमौ पुनः स्वारोचिषेऽन्तरे ।
दक्षशापश्च दक्षस्य शापमोक्षस्तथैव च ॥ १९ ॥
कैलासवर्णनं चैव योगः पाशुपतस्तथा ।
चतुर्युगप्रमाणं च युगधर्मः सुविस्तरः ॥ २० ॥
संध्यांशकप्रमाणं च संध्यावृत्तं भवस्य च ।
श्मशाननिलयश्चैव चन्द्ररेखासमुद्भवः ॥ २१ ॥
उद्वाहः शंकरस्याथ पुत्रोत्पादनमेव च ।
मैथुनातिप्रसङ्गेन विनाशो जगतां भयम् ॥ २२ ॥
शापः सत्या कृतो देवान् पुरा विष्णुं च पालितम् ।
शुक्रोत्सर्गस्तु रुद्रस्य गाङ्गेयोद्भव एव च ॥ २३ ॥
ग्रहणादिषु कालेषु स्नाप्य लिङ्गं फलं तथा ।
क्षुब्धधी च विवादश्च दधीचोपेन्द्रयोस्तथा ॥ २४ ॥
उत्पत्तिर्नन्दिनाम्ना तु देवदेवस्य शूलिनः ।
पतिव्रतायाश्चाख्यानं पशुपाशविचारणा ॥ २५ ॥
प्रवृत्तिलक्षणं ज्ञानं निवृत्त्यधिकृता तथा ।
वसिष्ठतनयोत्पत्तिर्वासिष्ठानां महात्मनाम् ॥ २६ ॥
मुनीनां वंशविस्तारो राज्ञां शक्तेर्विनाशनम् ।
दौरात्म्यं कौशिकस्याथ सुरभेर्बन्धनं तथा ॥ २७ ॥
सुतशोको वसिष्ठस्य अरुन्धत्याः प्रलापनम् ।
स्नुषायाः प्रेषणं चैव गर्भस्थस्य वचस्तथा ॥ २८ ॥
पराशरस्यावतारो व्यासस्य च शुकस्य च ।
विनाशो राक्षसानां च कृतो वै शक्तिसूनुना ॥ २९ ॥
देवतापरमार्थं तु विज्ञानं च प्रसादतः ।
पुराणकरणं चैव पुलस्त्यस्याज्ञया गुरोः ॥ ३० ॥
भुवनानां प्रमाणं च ग्रहाणां ज्योतिषां गतिः ।
जीवच्छ्राद्धविधानं च श्राद्धार्हाः श्राद्धमेव च ॥ ३१ ॥
नान्दीश्राद्धविधानं च तथाध्ययनलक्षणम् ।
पञ्चयज्ञप्रभावश्च पञ्चयज्ञविधिस्तथा ॥ ३२ ॥
रजस्वलानां वृत्तिश्च वृत्त्या पुत्रविशिष्टता ।
मैथुनस्य विधिश्चैव प्रतिवर्णमनुक्रमात् ॥ ३३ ॥
भोज्याभोज्यविधानं च सर्वेषामेव वर्णिनाम् ।
प्रायश्चित्तमशेषस्य प्रत्येकं चैव विस्तरात् ॥ ३४ ॥
नरकाणां स्वरूपं च दण्डः कर्मानुरूपतः ।
स्वर्गिनारकिणां पुंसां चिह्नं जन्मान्तरेषु च ॥ ३५ ॥
नानाविधानि दानानि प्रेतराजपुरं तथा ।
कल्पं पञ्चाक्षरस्याथ रुद्रमाहात्म्यमेव च ॥ ३६ ॥
वृत्रेन्द्रयोर्महायुद्धं विश्वरूपविमर्दनम् ।
श्वेतस्य मृत्योः संवादः श्वेतार्थे कालनाशनम् ॥ ३७ ॥
देवदारुवने शम्भोः प्रवेशः शंकरस्य तु ।
सुदर्शनस्य चाख्यानं क्रमसंन्यासलक्षणम् ॥ ३८ ॥
श्रद्धासाध्योऽथ रुद्रस्तु कथितं ब्रह्मणा तदा ।
मधुना कैटभेनैव पुरा हृतगतेर्विभोः ॥ ३९ ॥
ब्रह्मणः परमं ज्ञानमादातुं मीनता हरेः ।
सर्वावस्थासु विष्णोश्च जननं लीलयैव तु ॥ ४० ॥
रुद्रप्रसादाद्विष्णोश्च जिष्णोश्चैव तु सम्भवः ।
मन्थानधारणार्थाय हरेः कूर्मत्वमेव च ॥ ४१ ॥
सङ्कर्षणस्य चोत्पत्तिः कौशिक्याश्च पुनर्भवः ।
यदूनां चैव सम्भूतिर्यादवत्वं हरेः स्वयम् ॥ ४२ ॥
भोजराजस्य दौरात्म्यं मातुलस्य हरेर्विभोः ।
बालभावे हरेः क्रीडा पुत्रार्थं शङ्करार्चनम् ॥ ४३ ॥
नारस्य च तथोत्पत्तिः कपाले वैष्णवाद्धरात् ।
भूभारनिग्रहार्थे तु रुद्रस्याराधनं हरेः ॥ ४४ ॥
वैन्येन पृथुना भूमेः पुरा दोहप्रवर्तनम् ।
देवासुरे पुरा लब्धो भृगुशापश्च विष्णुना ॥ ४५ ॥
कृष्णत्वे द्वारकायां तु निलयो माधवस्य तु ।
लब्धो हिताय शापस्तु दुर्वासस्याननाद्धरेः ॥ ४६ ॥
वृष्ण्यन्धकविनाशाय शापः पिण्डारवासिनाम् ।
एरकस्य तथोत्पत्तिस्तोमरस्योद्भवस्तथा ॥ ४७ ॥
एरकालाभतोऽन्योन्यं विवादे वृष्णिविग्रहः ।
लीलया चैव कृष्णेन स्वकुलस्य च संहृतिः ॥ ४८ ॥
एरकास्त्रबलेनैव गमनं स्वेच्छयैव तु ।
ब्रह्मणश्चैव मोक्षस्य विज्ञानं तु सुविस्तरम् ॥ ४९ ॥
पुरान्धकाग्निदक्षाणां शक्रेभमृगरूपिणाम् ।
मदनस्यादिदेवस्य ब्रह्मणश्चामरारिणाम् ॥ ५० ॥
हलाहलस्य दैत्यस्य कृतावज्ञा पिनाकिना ।
जालंधरवधश्चैव सुदर्शनसमुद्भवः ॥ ५१ ॥
विष्णोर्वरायुधावाप्तिस्तथा रुद्रस्य चेष्टितम् ।
तथान्यानि च रुद्रस्य चरितानि सहस्रशः ॥ ५२ ॥
हरेः पितामहस्याथ शक्रस्य च महात्मनः ।
प्रभावानुभवश्चैव शिवलोकस्य वर्णनम् ॥ ५३ ॥
भूमौ रुद्रस्य लोकं च पाताले हाटकेश्वरम् ।
तपसां लक्षणं चैव द्विजानां वैभवं तथा ॥ ५४ ॥
आधिक्यं सर्वमूर्तीनां लिङ्गमूर्तेर्विशेषतः ।
लिङ्गेऽस्मिन्नानुपूर्व्येण विस्तरेणानुकीर्त्यते ॥ ५५ ॥
एतज्ज्ञात्वा पुराणस्य संक्षेपं कीर्तयेत्तु यः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ ५६ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागेऽनुक्रमणिकावर्णनं नाम
द्वितीयोऽध्यायः ॥ २ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें