श्रीलिङ्गमहापुराणे पूर्वभागे चतुर्थोऽध्यायः
सृष्टिप्रारम्भवर्णनं
॥ सूत उवाच ॥
अथ प्राथमिकस्येह यः कालस्तदहः स्मृतम् ।
सर्गस्य तादृशी रात्रिः प्राकृतस्य समासतः ॥ १ ॥
दिवा सृष्टिं विकुरुते रजन्यां प्रलयं विभुः ।
औपचारिकमस्यैतदहोरात्रं न विद्यते ॥ २ ॥
दिवा विकृतयः सर्वे विकारा विश्वदेवताः ।
प्रजानां पतयः सर्वे तिष्ठन्त्यन्ये महर्षयः ॥ ३ ॥
रात्रौ सर्वे प्रलीयन्ते निशान्ते सम्भवन्ति च ।
अहस्तु तस्य वै कल्पो रात्रिस्तादृग्विधा स्मृता ॥ ४ ॥
चतुर्युगसहस्रान्ते मनवस्तु चतुर्दश ।
चत्वारि तु सहस्राणि वत्सराणां कृतं द्विजाः ॥ ५ ॥
तावच्छती च वै संध्या संध्यांशश्च कृतस्य तु ।
त्रिशती द्विशती संध्या तथा चैकशती क्रमात् ॥ ६ ॥
अंशकः षट्शतं तस्मात् कृतसंध्यांशकं विना ।
त्रिद्व्येकसाहस्रमितो विना संध्यांशके न तु ॥ ७ ॥
त्रेताद्वापरतिष्याणां कृतस्य कथयामि वः ।
निमेषपञ्चदशका काष्ठा स्वस्थस्य सुव्रताः ॥ ८ ॥
मर्त्यस्य चाक्ष्णोस्तस्याश्च ततस्त्रिंशतिका कला ।
कलात्रिंशतिको विप्रा मुहूर्त इति कल्पितः ॥ ९ ॥
मुहूर्तपञ्चदशिका रजनी तादृशं त्वहः ।
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः ॥ १० ॥
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ।
त्रिंशद्ये मानुषा मासाः पित्र्यो मासस्तु स स्मृतः ॥ ११ ॥
शतानि त्रीणि मासानां षष्ट्या चाप्यधिकानि वै ।
पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ॥ १२ ॥
मानुषेणैव मानेन वर्षाणां यच्छतं भवेत् ।
पितॄणां त्रीणि वर्षाणि संख्यातानीह तानि वै ॥ १३ ॥
दश वै द्व्यधिका मासाः पितृसंख्येह संस्मृता ।
लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः ॥ १४ ॥
एतद्दिव्यमहोरात्रमिति लैङ्गेऽत्र पठ्यते ।
दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ॥ १५ ॥
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ।
एते रात्र्यहनी दिव्ये प्रसंख्याते विशेषतः ॥ १६ ॥
त्रिंशद्यानि तु वर्षाणि दिव्यो मासस्तु स स्मृतः ।
मानुषं तु शतं विप्रा दिव्यमासास्त्रयस्तु ते ॥ १७ ॥
दश चैव तथाहानि दिव्यो ह्येष विधिः स्मृतः ।
त्रीणि वर्षशतान्येव षष्टिवर्षाणि यानि तु ॥ १८ ॥
दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्तितः ।
त्रीणि वर्षसहस्राणि मानुषाणि प्रमाणतः ॥ १९ ॥
त्रिंशदन्यानि वर्षाणि मतः सप्तर्षिवत्सरः ।
नव यानि सहस्राणि वर्षाणां मानुषाणि तु ॥ २० ॥
अन्यानि नवतीश्चैव ध्रौवः संवत्सरस्तु सः ।
षट्त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि तु ॥ २१ ॥
वर्षाणां तच्छतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः ।
त्रीण्येव नियुतान्याहुर्वर्षाणां मानुषाणि तु ॥ २२ ॥
षष्टिश्चैव सहस्राणि संख्यातानि तु संख्यया ।
दिव्यं वर्षसहस्रं तु प्राहुः संख्याविदो जनाः ॥ २३ ॥
दिव्येनैव प्रमाणेन युगसंख्याप्रकल्पनम् ।
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ॥ २४ ॥
द्वापरश्च कलिश्चैव युगान्येतानि सुव्रताः ।
अथ संवत्सरा दृष्टा मानुषेण प्रमाणतः ॥ २५ ॥
कृतस्याद्यस्य विप्रेन्द्रा दिव्यमानेन कीर्तितम् ।
सहस्राणां शतान्यासंश्चतुर्दश च संख्यया ॥ २६ ॥
चत्वारिंशत् सहस्राणि तथान्यानि कृतं युगम् ।
तथा दशसहस्राणां वर्षाणां शतसंख्यया ॥ २७ ॥
अशीतिश्च सहस्राणि कालस्त्रेतायुगस्य च ।
सप्तैव नियुतान्याहुर्वर्षाणां मानुषाणि तु ॥ २८ ॥
विंशतिश्च सहस्राणि कालस्तु द्वापरस्य च ।
तथा शतसहस्राणि वर्षाणां त्रीणि संख्यया ॥ २९ ॥
षष्टिश्चैव सहस्राणि कालः कलियुगस्य तु ।
एवं चतुर्युगः काल ऋते संध्यांशकात्स्मृतः ॥ ३० ॥
नियुतान्येव षट्त्रिंशन्निरंशानि तु तानि वै ।
चत्वारिंशत्तथा त्रीणि नियुतानीह संख्यया ॥ ३१ ॥
विंशतिश्च सहस्राणि संध्यांशश्च चतुर्युगः ।
एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः ॥ ३२ ॥
कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते ।
मन्वन्तरस्य संख्या च वर्षाग्रेण प्रकीर्तिता ॥ ३३ ॥
त्रिंशत् कोट्यस्तु वर्षाणां मानुषेण द्विजोत्तमाः ।
सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु ॥ ३४ ॥
विंशतिश्च सहस्राणि कालोऽयमधिकं विना ।
मन्वन्तरस्य संख्यैषा लैङ्गेऽस्मिन् कीर्तिता द्विजाः ॥ ३५ ॥
चतुर्युगस्य च तथा वर्षसंख्या प्रकीर्तिता ।
चतुर्युगसहस्रं वै कल्पश्चैको द्विजोत्तमाः ॥ ३६ ॥
निशान्ते सृजते लोकान् नश्यन्ते निशि जन्तवः ।
तत्र वैमानिकानां तु अष्टाविंशतिकोटयः ॥ ३७ ॥
मन्वन्तरेषु वै संख्या सान्तरेषु यथातथा ।
त्रीणि कोटिशतान्यासन् कोट्यो द्विनवतिस्तथा ॥ ३८ ॥
कल्पेऽतीते तु वै विप्राः सहस्राणां तु सप्ततिः ।
पुनस्तथाष्टसाहस्रं सर्वत्रैव समासतः ॥ ३९ ॥
कल्पावसानिकांस्त्यक्त्वा प्रलये समुपस्थिते ।
महर्लोकात्प्रयान्त्येते जनलोकं जनास्ततः ॥ ४० ॥
कोटीनां द्वे सहस्रे तु अष्टौ कोटिशतानि तु ।
द्विषष्टिश्च तथा कोट्यो नियुतानि च सप्ततिः ॥ ४१ ॥
कल्पार्धसंख्या दिव्या वै कल्पमेवं तु कल्पयेत् ।
कल्पानां वै सहस्रं तु वर्षमेकमजस्य तु ॥ ४२ ॥
वर्षाणामष्टसाहस्रं ब्राह्मं वै ब्रह्मणो युगम् ।
सवनं युगसाहस्रं सर्वदेवोद्भवस्य तु ॥ ४३ ॥
सवनानां सहस्रं तु त्रिविधं त्रिगुणं तथा ।
ब्रह्मणस्तु तथा प्रोक्तः कालः कालात्मनः प्रभो ॥ ४४ ॥
भवोद्भवस्तपश्चैव भव्यो रम्भः क्रतुः पुनः ।
ऋतुर्वह्निर्हव्यवाहः सावित्रः शुद्ध एव च ॥ ४५ ॥
उशिकः कुशिकश्चैव गान्धारो मुनिसत्तमाः ।
ऋषभश्च तथा षड्जो मज्जालीयश्च मध्यमः ॥ ४६ ॥
वैराजो वै निषादश्च मुख्यो वै मेघवाहनः ।
पञ्चमश्चित्रकश्चैव आकूतिर्ज्ञान एव च ॥ ४७ ॥
मनः सुदर्शो बृंहश्च तथा वै श्वेतलोहितः ।
रक्तश्च पीतवासाश्च असितः सर्वरूपकः ॥ ४८ ॥
एवं कल्पास्तु संख्याता ब्रह्मणोऽव्यक्तजन्मनः ।
कोटिकोटिसहस्राणि कल्पानां मुनिसत्तमाः ॥ ४९ ॥
गतानि तावच्छेषाणि अहर्निश्यानि वै पुनः ।
परान्ते वै विकाराणि विकारं यान्ति विश्वतः ॥ ५० ॥
विकारस्य शिवस्याज्ञा वशेनैव तु संहृतिः ।
संहृते तु विकारे च प्रधाने चात्मनि स्थिते ॥ ५१ ॥
साधर्म्येणावतिष्ठेते प्रधानपुरुषावुभौ ।
गुणानां चैव वैषम्ये विप्राः सृष्टिरिति स्मृता ॥ ५२ ॥
साम्ये लयो गुणानां तु तयोर्हेतुर्महेश्वरः ।
लीलया देवदेवेन सर्गास्त्वीदृग्विधाः कृताः ॥ ५३ ॥
असंख्याताश्च सङ्क्षेपात् प्रधानादन्वधिष्ठितात् ।
असंख्याताश्च कल्पाख्या ह्यसंख्याताः पितामहाः ॥ ५४ ॥
हरयश्चाप्यसंख्यातास्त्वेक एव महेश्वरः ।
प्रधानादिप्रवृत्तानि लीलया प्राकृतानि तु ॥ ५५ ॥
गुणात्मिका च तद्वृत्तिस्तस्य देवस्य वै त्रिधा ।
अप्राकृतस्य तस्यादिर्मध्यान्तं नास्ति चात्मनः ॥ ५६ ॥
पितामहस्याथ परः परार्धद्वयसम्मितः ।
दिवा सृष्टं तु यत्सर्वं निशि नश्यति चास्य तत् ॥ ५७ ॥
भूर्भुवः स्वर्महस्तत्र नश्यते चोर्ध्वतो न च ।
रात्रौ चैकार्णवे ब्रह्मा नष्टे स्थावरजङ्गमे ॥ ५८ ॥
सुष्वापाम्भसि यस्तस्मान्नारायण इति स्मृतः ।
शर्वर्यन्ते प्रबुद्धो वै दृष्ट्वा शून्यं चराचरम् ॥ ५९ ॥
स्रष्टुं तदा मतिं चक्रे ब्रह्मा ब्रह्मविदां वरः ।
उदकैराप्लुतां क्ष्मां तां समादाय सनातनः ॥ ६० ॥
पूर्ववत् स्थापयामास वाराहं रूपमास्थितः ।
नदीनदसमुद्रांश्च पूर्ववच्चाकरोत्प्रभुः ॥ ६१ ॥
कृत्वा धरां प्रयत्नेन निम्नोन्नतिविवर्जिताम् ।
धरायां सोऽचिनोत् सर्वान् गिरीन् दग्धान् पुराग्निना ॥ ६२ ॥
भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ।
स्रष्टुं च भगवान् चक्रे तदा स्रष्टा पुनर्मतिम् ॥ ६३ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सृष्टिप्रारम्भवर्णनं
नाम चतुर्थोऽध्यायः ॥ ४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें