श्रीलिङ्गमहापुराण -[पूर्वभाग] -006

 श्रीलिङ्गमहापुराणे पूर्वभागे षष्ठोऽध्यायः

शङ्करमाहात्म्यसृष्टिवर्णनं
॥ सूत उवाच ॥

पवमानः पावकश्च शुचिरग्निश्च ते स्मृताः ।
निर्मथ्यः पवमानस्तु वैद्युतः पावकः स्मृतः ॥ १ ॥
शुचिः सौरस्तु विज्ञेयः स्वाहा पुत्रास्त्रयस्तु ते ।
पुत्रैः पौत्रैस्त्विहैतेषां संख्या संक्षेपतः स्मृता ॥ २ ॥


विसृज्य सप्तकं चादौ चत्वारिंशन्नवैव च ।
इत्येते वह्नयः प्रोक्ताः प्रणीयन्तेऽध्वरेषु च ॥ ३ ॥
सर्वे तपस्विनस्त्वेते सर्वे व्रतभृतः स्मृताः ।
प्रजानां पतयः सर्वे सर्वे रुद्रात्मकाः स्मृताः ॥ ४ ॥
अयज्वानश्च यज्वानः पितरः प्रीतिमानसाः ।
अग्निष्वात्ताश्च यज्वानः शेषा बर्हिषदः स्मृताः ॥ ५ ॥
मेनां तु मानसीं तेषां जनयामास वै स्वधा ।
अग्निष्वात्तात्मजा मेना मानसी लोकविश्रुता ॥ ६ ॥
असूत मेना मैनाकं क्रौञ्चं तस्यानुजामुमाम् ।
गङ्गां हैमवतीं जज्ञे भवाङ्गाश्लेषपावनीम् ॥ ७ ॥
धरणीं जनयामास मानसीं यज्ञयाजिनीम् ।
स्वधा सा मेरुराजस्य पत्नी पद्मसमानना ॥ ८ ॥
पितरोऽमृतपाः प्रोक्तास्तेषां चैवेह विस्तरः ।
ऋषीणां च कुलं सर्वं शृणुध्वं तत्सुविस्तरम् ॥ ९ ॥
वदामि पृथगध्याय संस्थितं वस्तदूर्ध्वतः ।
दाक्षायणी सती याता पार्श्वं रुद्रस्य पार्वती ॥ १० ॥
पश्चाद्दक्षं विनिन्द्यैषा पतिं लेभे भवं तथा ।
तां ध्यात्वा व्यसृजद्रुद्राननेकान्नीललोहितः ॥ ११ ॥
आत्मनस्तु समान् सर्वान् सर्वलोकनमस्कृतान् ।
याचितो मुनिशार्दूला ब्रह्मणा प्रहसन् क्षणात् ॥ १२ ॥
तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत् ।
तान्दृष्ट्वा विविधान् रुद्रान्निर्मलान्नीललोहितान् ॥ १३ ॥
जरामरणनिर्मुक्तान् प्राह रुद्रान् पितामहः ।
नमोऽस्तु वो महादेवास्त्रिनेत्रा नीललोहिताः ॥ १४ ॥
सर्वज्ञाः सर्वगा दीर्घा ह्रस्वा वामनकाः शुभाः ।
हिरण्यकेशा दृष्टिघ्ना नित्या बुद्धाश्च निर्मलाः ॥ १५ ॥
निर्द्वंद्वा वीतरागाश्च विश्वात्मानो भवात्मजाः ।
एवं स्तुत्वा तदा रुद्रान् रुद्रं चाह भवं शिवम् ।
प्रदक्षिणीकृत्य तदा भगवान् कनकाण्डजः ॥ १६ ॥
नमोऽस्तु ते महादेव प्रजा नार्हसि शंकर ।
मृत्युहीना विभो स्रष्टुं मृत्युयुक्ताः सृज प्रभो ॥ १७ ॥
ततस्तमाह भगवान् नहि मे तादृशी स्थितिः ।
स त्वं सृज यथाकामं मृत्युयुक्ताः प्रजाः प्रभो ॥ १८ ॥
लब्ध्वा ससर्ज सकलं शंकराच्चतुराननः ।
जरामरणसंयुक्तं जगदेतच्चराचरम् ॥ १९ ॥
शंकरोऽपि तदा रुद्रैर्निवृत्तात्मा ह्यधिष्ठितः ।
स्थाणुत्वं तस्य वै विप्राः शंकरस्य महात्मनः ॥ २० ॥
निष्कलस्यात्मनः शम्भोः स्वेच्छाधृतशरीरिणः ।
शं रुद्रः सर्वभूतानां करोति घृणया यतः ॥ २१ ॥
शंकरश्चाप्रयत्नेन तदात्मा योगविद्यया ।
वैराग्यस्थं विरक्तस्य विमुक्तिर्यच्छमुच्यते ॥ २२ ॥
अणोस्तु विषयत्यागः संसारभयतः क्रमात् ।
वैराग्याज्जायते पुंसो विरागो दर्शनान्तरे ॥ २३ ॥
विमुख्यो विगुणत्यागो विज्ञानस्याविचारतः ।
तस्य चास्य च संधानं प्रसादात् परमेष्ठिनः ॥ २४ ॥
धर्मो ज्ञानं च वैराग्यमैश्वर्यं शंकरादिह ।
स एव शंकरः साक्षात् पिनाकी नीललोहितः ॥ २५ ॥
ये शंकराश्रिताः सर्वे मुच्यन्ते ते न संशयः ।
न गच्छन्त्येव नरकं पापिष्ठा अपि दारुणम् ॥ २६ ॥
आश्रिताः शंकरं तस्मात् प्राप्नुवन्ति च शाश्वतम् ।
॥ ऋषय ऊचुः ॥
मायान्ताश्चैव घोराद्या ह्यष्टविंशतिरेव च ॥ २७ ॥
कोटयो नरकाणां तु पच्यन्ते तासु पापिनः ।
अनाश्रिताः शिवं रुद्रं शंकरं नीललोहितम् ॥ २८ ॥
आश्रयं सर्वभूतानामव्ययं जगतां पतिम् ।
पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम् ॥ २९ ॥
तमसा कालरुद्राख्यं रजसा कनकाण्डजम् ।
सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥ ३० ॥
केन गच्छन्ति नरकं नराः केन महामते ।
कर्मणाकर्मणा वापि श्रोतुं कौतूहलं हि नः ॥ ३१ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे शङ्करमाहात्म्यवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥

   इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-06

कोई टिप्पणी नहीं:

123