श्रीलिङ्गमहापुराण -[पूर्वभाग] -003

 श्रीलिङ्गमहापुराणे पूर्वभागे तृतीयोऽध्यायः

प्राकृतप्राथमिकसर्गकथनं
॥ सूत उवाच ॥

अलिङ्गो लिङ्गमूलं तु अव्यक्तं लिङ्गमुच्यते ।
अलिङ्गः शिव इत्युक्तो लिङ्गं शैवमिति स्मृतम् ॥ १ ॥
प्रधानं प्रकृतिश्चेति यदाहुर्लिङ्गमुत्तमम् ।
गन्धवर्णरसैर्हीनं शब्दस्पर्शादिवर्जितम् ॥ २ ॥


अगुणं ध्रुवमक्षय्यमलिङ्गं शिवलक्षणम् ।
गन्धवर्णरसैर्युक्तं शब्दस्पर्शादिलक्षणम् ॥ ३ ॥
जगद्योनिं महाभूतं स्थूलं सूक्ष्मं द्विजोत्तमाः ।
विग्रहो जगतां लिङ्गमलिङ्गादभवत् स्वयम् ॥ ४ ॥
सप्तधा चाष्टधा चैव तथैकादशधा पुनः ।
लिङ्गान्यलिङ्गस्य तथा मायया विततानि तु ॥ ५ ॥
तेभ्यः प्रधानदेवानां त्रयमासीच्छिवात्मकम् ।
एकस्मात् त्रिष्वभूद्विश्वमेकेन परिरक्षितम् ॥ ६ ॥
एकेनैव हृतं विश्वं व्याप्तं त्वेवं शिवेन तु ।
अलिङ्गं चैव लिङ्गं च लिङ्गालिङ्गानि मूर्तयः ॥ ७ ॥
यथावत् कथिताश्चैव तस्माद् ब्रह्म स्वयं जगत् ।
अलिङ्गी भगवान् बीजी स एव परमेश्वरः ॥ ८ ॥
बीजं योनिश्च निर्बीजं निर्बीजो बीजमुच्यते ।
बीजयोनिप्रधानानामात्माख्या वर्तते त्विह ॥ ९ ॥
परमात्मा मुनिर्ब्रह्म नित्यबुद्धस्वभावतः ।
विशुद्धोऽयं तथा रुद्रः पुराणे शिव उच्यते ॥ १० ॥
शिवेन दृष्टा प्रकृतिः शैवी समभवद्द्विजाः ।
सर्गादौ सा गुणैर्युक्ता पुराव्यक्ता स्वभावतः ॥ ११ ॥
अव्यक्तादिविशेषान्तं विश्वं तस्याः समुच्छ्रितम् ।
विश्वधात्री त्वजाख्या च शैवी सा प्रकृतिः स्मृता ॥ १२ ॥
तामजां लोहितां शुक्लां कृष्णामेकां बहुप्रजाम् ।
जनित्रीमनुशेते स्म जुषमाणः स्वरूपिणीम् ॥ १३ ॥
तामेवाजामजोऽन्यस्तु भुक्तभोगां जहाति च ।
अजा जनित्री जगतां साजेन समधिष्ठिता ॥ १४ ॥
प्रादुर्बभूव स महान् पुरुषाधिष्ठितस्य च ।
अजाज्ञया प्रधानस्य सर्गकाले गुणैस्त्रिभिः ॥ १५ ॥
सिसृक्षया चोद्यमानः प्रविश्याव्यक्तमव्ययम् ।
व्यक्तसृष्टिं विकुरुते चात्मनाधिष्ठितो महान् ॥ १६ ॥
महतस्तु तथा वृत्तिः संकल्पाध्यवसायिका ।
महतस्त्रिगुणस्तस्मादहंकारो रजोऽधिकः ॥ १७ ॥
तेनैव चावृतः सम्यगहंकारस्तमोऽधिकः ।
महतो भूततन्मात्रं सर्गकृद्वै बभूव च ॥ १८ ॥
अहङ्काराच्छब्दमात्रं तस्मादाकाशमव्ययम् ।
सशब्दमावृणोत्पश्चादाकाशं शब्दकारणम् ॥ १९ ॥
तन्मात्राद्भूतसर्गश्च द्विजास्त्वेवं प्रकीर्तितः ।
स्पर्शमात्रं तथाकाशात्तस्माद्वायुर्महान् मुने ॥ २० ॥
तस्माच्च रूपमात्रं तु ततोऽग्निश्च रसस्ततः ।
रसादापः शुभास्ताभ्यो गन्धमात्रं धरा ततः ॥ २१ ॥
आवृणोद्धि तथाकाशं स्पर्शमात्रं द्विजोत्तमाः ।
आवृणोद्रूपमात्रं तु वायुर्वाति क्रियात्मकः ॥ २२ ॥
आवृणोद्रसमात्रं वै देवः साक्षाद्विभावसुः ।
आवृण्वाना गन्धमात्रमापः सर्वरसात्मिकाः ॥ २३ ॥
क्ष्मा सा पञ्चगुणा तस्मादेकोना रससम्भवाः ।
त्रिगुणो भगवान् वह्निर्द्विगुणः स्पर्शसम्भवः ॥ २४ ॥
अवकाशस्ततो देव एकमात्रस्तु निष्कलः ।
तन्मात्राद्भूतसर्गश्च विज्ञेयश्च परस्परम् ॥ २५ ॥
वैकारिकः सात्त्विको वै युगपत्सम्प्रवर्तते ।
सर्गस्तथाप्यहङ्कारादेवमत्र प्रकीर्तितः ॥ २६ ॥
पञ्च बुद्धीन्द्रियाण्यस्य पञ्च कर्मेन्द्रियाणि तु ।
शब्दादीनामवाप्त्यर्थं मनश्चैवोभयात्मकम् ॥ २७ ॥
महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति च ।
जलबुद्बुदवत्तस्मादवतीर्णः पितामहः ॥ २८ ॥
स एव भगवान् रुद्रो विष्णुर्विश्वगतः प्रभुः ।
तस्मिन्नण्डे त्विमे लोका अन्तर्विश्वमिदं जगत् ॥ २९ ॥
अण्डं दशगुणेनैव वारिणा प्रावृतं बहिः ।
आपो दशगुणेनैव तद्बाह्य तेजसा वृताः ॥ ३० ॥
तेजो दशगुणेनैव बाह्यतो वायुना वृतम् ।
वायुर्दशगुणेनैव बाह्यतो नभसा वृतः ॥ ३१ ॥
आकाशेनावृतो वायुरहङ्कारेण शब्दजः ।
महता शब्दहेतुर्वै प्रधानेनावृतः स्वयम् ॥ ३२ ॥
सप्ताण्डावरणान्याहुस्तस्यात्मा कमलासनः ।
कोटिकोटियुतान्यत्र चाण्डानि कथितानि तु ॥ ३३ ॥
तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ।
सृष्टाः प्रधानेन तदा लब्ध्वा शम्भोस्तु संनिधिम् ॥ ३४ ॥
लयश्चैव तथान्योन्यमान्द्यन्तमिति कीर्तितम् ।
सर्गस्य प्रतिसर्गस्य स्थितेः कर्ता महेश्वरः ॥ ३५ ॥
सर्गे च रजसा युक्तः सत्त्वस्थः प्रतिपालने ।
प्रतिसर्गे तमोद्रिक्तः स एव त्रिविधः क्रमात् ॥ ३६ ॥
आदिकर्ता च भूतानां संहर्ता परिपालकः ।
तस्मान्महेश्वरो देवो ब्रह्मणोऽधिपतिः शिवः ॥ ३७ ॥
सदाशिवो भवो विष्णुर्ब्रह्मा सर्वात्मको यतः ।
एकदण्डे तथा लोका इमे कर्ता पितामहः ॥ ३८ ॥
प्राकृतः कथितस्त्वेष पुरुषाधिष्ठितो मया ।
सर्गश्चाबुद्धिपूर्वस्तु द्विजाः प्राथमिकः शुभः ॥ ३९ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे प्राकृतप्राथमिकसर्गकथनं नाम तृतीयोऽध्यायः ॥ ३ ॥

   इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-03

कोई टिप्पणी नहीं:

123