श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चमोऽध्यायः
प्रजासृष्टिवर्णनं
॥ सूत उवाच ॥
यदा स्रष्टुं मतिं चक्रे मोहश्चासीन् महात्मनः ।
द्विजाश्च बुद्धिपूर्वं तु ब्रह्मणोऽव्यक्तजन्मनः ॥ १ ॥
तमो मोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ।
अविद्या पञ्चधा ह्येषा प्रादुर्भूता स्वयम्भुवः ॥ २ ॥
अविद्यया मुनेर्ग्रस्तः सर्गो मुख्य इति स्मृतः ।
असाधक इति स्मृत्वा सर्गो मुख्यः प्रजापतिः ॥ ३ ॥
अभ्यमन्यत सोऽन्यं वै नगा मुख्योद्भवाः स्मृताः ।
त्रिधा कण्ठो मुनेस्तस्य ध्यायतो वै ह्यवर्तत ॥ ४ ॥
प्रथमं तस्य वै जज्ञे तिर्यक् स्रोतो महात्मनः ।
ऊर्ध्व स्रोतः परस्तस्य सात्त्विकः स इति स्मृतः ॥ ५ ॥
अर्वाक् स्रोतोतोऽनुग्रहश्च तथा भूतादिकः पुनः ।
ब्रह्मणो महतस्त्वाद्यो द्वितीयो भौतिकस्तथा ॥ ६ ॥
सर्गस्तृतीयश्चैन्द्रियस्तुरीयो मुख्य उच्यते ।
तिर्यग्योन्यः पञ्चमस्तु षष्ठो दैविक उच्यते ॥ ७ ॥
सप्तमो मानुषो विप्रा अष्टमोऽनुग्रहः स्मृतः ।
नवमश्चैव कौमारः प्राकृता वैकृतास्त्विमे ॥ ८ ॥
पुरस्तादसृजद्देवः सनन्दं सनकं तथा ।
सनातनं मुनिश्रेष्ठा नैष्कर्म्येण गताः परम् ॥ ९ ॥
मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च सोऽसृजद्योगविद्यया ॥ १० ॥
नवैते ब्रह्मणः पुत्रा ब्रह्मज्ञा ब्राह्मणोत्तमाः ।
ब्रह्मवादिन एवैते ब्रह्मणः सदृशाः स्मृताः ॥ ११ ॥
संकल्पश्चैव धर्मश्च ह्यधर्मो धर्मसन्निधिः ।
द्वादशैव प्रजास्त्वेता ब्रह्मणोऽव्यक्तजन्मनः ॥ १२ ॥
ऋभुं सनत्कुमारं च ससर्जादौ सनातनः ।
तावूर्ध्वरेतसौ दिव्यौ चाग्रजौ ब्रह्मवादिनौ ॥ १३ ॥
कुमारौ ब्रह्मणस्तुल्यौ सर्वज्ञौ सर्वभाविनौ ।
वक्ष्ये भार्याकुलं तेषां मुनीनामग्रजन्मनाम् ॥ १४ ॥
समासतो मुनिश्रेष्ठाः प्रजासम्भूतिमेव च ।
शतरूपां तु वै राज्ञीं विराजमसृजत् प्रभुः ॥ १५ ॥
स्वायम्भुवात्तु वै राज्ञी शतरूपा त्वयोनिजा ।
लेभे पुत्रद्वयं पुण्या तथा कन्याद्वयं च सा ॥ १६ ॥
उत्तानपादो ह्यवरो धीमान् ज्येष्ठः प्रियव्रतः ।
ज्येष्ठा वरिष्ठा त्वाकूतिः प्रसूतिश्चानुजा स्मृता ॥ १७ ॥
उपयेमे तदाकूतिं रुचिर्नाम प्रजापतिः ।
प्रसूतिं भगवान् दक्षो लोकधात्रीं च योगिनीम् ॥ १८ ॥
दक्षिणासहितं यज्ञमाकूतिः सुषुवे तथा ।
दक्षिणा जनयामास दिव्या द्वादश पुत्रिकाः ॥ १९ ॥
प्रसूतिः सुषुवे दक्षाच्चतुर्विंशति कन्यकाः ।
श्रद्धां लक्ष्मीं धृतिं पुष्टिं तुष्टिं मेधां क्रियां तथा ॥ २० ॥
बुद्धिं लज्जां वपुः शान्तिं सिद्धिं कीर्तिं महातपाः ।
ख्यातिं शान्तिं च सम्भूतिं स्मृतिं प्रीतिं क्षमां तथा ॥ २१ ॥
संनतिं चानसूयां च ऊर्जां स्वाहां सुरारणिम् ।
स्वधां चैव महाभागां प्रददौ च यथाक्रमम् ॥ २२ ॥
श्रद्धाद्याश्चैव कीर्त्यन्तास्त्रयोदश सुदारिकाः ।
धर्मं प्रजापतिं जग्मुः पतिं परमदुर्लभाः ॥ २३ ॥
उपयेमे भृगुर्धीमान् ख्यातिं तां भार्गवारणिम् ।
सम्भूतिं च मरीचिस्तु स्मृतिं चैवाङ्गिरा मुनिः ॥ २४ ॥
प्रीतिं पुलस्त्यः पुण्यात्मा क्षमां तां पुलहो मुनिः ।
क्रतुश्च सन्नतिं धीमान् अत्रिस्तां चानसूयकाम् ॥ २५ ॥
ऊर्जां वसिष्ठो भगवान् वरिष्ठो वारिजेक्षणाम् ।
विभावसुस्तथा स्वाहां स्वधां वै पितरस्तथा ॥ २६ ॥
पुत्रीकृता सती या सा मानसी शिवसम्भवा ।
दक्षेण जगतां धात्री रुद्रमेवास्थिता पतिम् ॥ २७ ॥
अर्धनारीश्वरं दृष्ट्वा सर्गादौ कनकाण्डजः ।
विभजस्वेति चाहादौ यदा जाता तदाभवत् ॥ २८ ॥
तस्याश्चैवांशजाः सर्वाः स्त्रियस्त्रिभुवने तथा ।
एकादशाविधा रुद्रास्तस्य चांशोद्भवास्तथा ॥ २९ ॥
स्त्रीलिङ्गमखिलं सा वै पुंलिङ्गं नीललोहितः ।
तं दृष्ट्वा भगवान् ब्रह्मा दक्षमालोक्य सुव्रताम् ॥ ३० ॥
भजस्व धात्रीं जगतां ममापि च तवापि च ।
पुन्नाम्नो नरकात्त्राति इति पुत्री त्विहोक्तितः ॥ ३१ ॥
प्रशस्ता तव कान्तेयं स्यात्पुत्री विश्वमातृका ।
तस्मात्पुत्री सती नाम्ना तवैषा च भविष्यति ॥ ३२ ॥
एवमुक्तस्तदा दक्षो नियोगाद् ब्रह्मणो मुनिः ।
लब्ध्वा पुत्रीं ददौ साक्षात् सतीं रुद्राय सादरम् ॥ ३३ ॥
धर्मस्य पत्न्यः श्रद्धाद्याः कीर्तिता वै त्रयोदश ।
तासु धर्मप्रजां वक्ष्ये यथाक्रममनुत्तमम् ॥ ३४ ॥
कामो दर्पोऽथ नियमः संतोषो लोभ एव च ।
श्रुतस्तु दण्डः समयो बोधश्चैव महाद्युतिः ॥ ३५ ॥
अप्रमादश्च विनयो व्यवसायो द्विजोत्तमाः ।
क्षेमं सुखं यशश्चैव धर्मपुत्राश्च तासु वै ॥ ३६ ॥
धर्मस्य वै क्रियायां तु दण्डः समय एव च ।
अप्रमादस्तथा बोधो बुद्धेर्धर्मस्य तौ सुतौ ॥ ३७ ॥
तस्मात् पञ्चदशैवैते तासु धर्मात्मजास्त्विह ।
भृगुपत्नी च सुषुवे ख्यातिर्विष्णोः प्रियां श्रियम् ॥ ३८ ॥
धातारं च विधातारं मेरोर्जामातरौ सुतौ ।
प्रभूतिर्नाम या पत्नी मरीचेः सुषुवे सुतौ ॥ ३९ ॥
पूर्णमासं तु मारीचं ततः कन्याचतुष्टयम् ।
तुष्टिर्ज्येष्ठा च वै दृष्टिः कृषिश्चापचितिस्तथा ॥ ४० ॥
क्षमा च सुषुवे पुत्रान् पुत्रीं च पुलहाच्छुभाम् ।
कर्दमं च वरीयांसं सहिष्णुं मुनिसत्तमाः ॥ ४१ ॥
तथा कनकपीतां स पीवरीं पृथिवीसमाम् ।
प्रीत्यां पुलस्त्यश्च तथा जनयामास वै सुतान् ॥ ४२ ॥
दत्तोर्णं वेदबाहुं च पुत्रीं चान्यां दृषद्वतीम् ।
पुत्राणां षष्टिसाहस्रं सन्नतिः सुषुवे शुभा ॥ ४३ ॥
क्रतोस्तु भार्या सर्वे ते वालखिल्या इति श्रुताः ।
सिनीवालीं कुहूं चैव राकां चानुमतिं तथा ॥ ४४ ॥
स्मृतिश्च सुषुवे पत्नी मुनेश्चाङ्गिरसस्तथा ।
लब्धानुभावमग्निं च कीर्तिमन्तं च सुव्रता ॥ ४५ ॥
अत्रेर्भार्यानसूया वै सुषुवे षट्प्रजास्तु याः ।
तास्त्वेका कन्यका नाम्ना श्रुतिः सा सूनुपञ्चकम् ॥ ४६ ॥
सत्यनेत्रो मुनिर्भव्यो मूर्तिरापः शनैश्चरः ।
सोमश्च वै श्रुतिः षष्ठी पञ्चात्रेयास्तु सूनवः ॥ ४७ ॥
ऊर्जा वसिष्ठाद्वै लेभे सुतांश्च सुतवत्सला ।
ज्यायसी पुण्डरीकाक्षान् वासिष्ठान् वरलोचना ॥ ४८ ॥
रजः सुहोत्रो बाहुश्च सवनश्चानघस्तथा ।
सुतपाः शुक्र इत्येते मुनेर्वै सप्त सूनवः ॥ ४९ ॥
यश्चाभिमानी भगवान् भवात्मा पैतामहो वह्निरसुः प्रजानाम् ।
स्वाहा च तस्मात् सुषुवे सुतानां त्रयं त्रयाणां जगतां हिताय ॥ ५० ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे प्रजासृष्टिवर्णनं
नाम पञ्चमोऽध्यायः ॥ ५ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें