श्रीलिङ्गमहापुराणे पूर्वभागे सप्तमोऽध्यायः
मनुव्यासयोगेश्वरतच्छिष्यकथनं
॥ सूत उवाच ॥
रहस्यं वः प्रवक्ष्यामि भवस्यामिततेजसः ।
प्रभावं शंकरस्याद्यं संक्षेपात् सर्वदर्शिनः ॥ १ ॥
योगिनः सर्वतत्त्वज्ञाः परं वैराग्यमास्थिताः ।
प्राणायामादिभिश्चाष्ट साधनैः सहचारिणः ॥ २ ॥
करुणादिगुणोपेताः कृत्वापि विविधानि ते ।
कर्माणि नरकं स्वर्गं गच्छन्त्येव स्वकर्मणा ॥ ३ ॥
प्रसादाज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ।
योगेन जायते मुक्तिः प्रसादादखिलं ततः ॥ ४ ॥
॥ ऋषय ऊचुः ॥
प्रसादाद् यदि विज्ञानं स्वरूपं वक्तुमर्हसि ।
दिव्यं माहेश्वरं चैव योगं योगविदां वर ॥ ५ ॥
कथं करोति भगवान् चिन्तया रहितः शिवः ।
प्रसादं योगमार्गेण कस्मिन्काले नृणां विभुः ॥ ६ ॥
॥ रोमहर्षण उवाच ॥
देवानां च ऋषीणां च पितॄणां सन्निधौ पुरा ।
शैलादिना तु कथितं शृण्वन्तु ब्रह्मसूनवे ॥ ७ ॥
व्यासावताराणि तथा द्वापरान्ते च सुव्रताः ।
योगाचार्यावताराणि तथा तिष्ये तु शूलिनः ॥ ८ ॥
तत्रतत्र विभोः शिष्याश्चत्वारः शमभाजनाः ।
प्रशिष्या बहवस्तेषां प्रसीदत्येवमीश्वरः ॥ ९ ॥
एवं क्रमागतं ज्ञानं मुखादेव नृणां विभोः ।
वैश्यान्तं ब्राह्मणाद्यं हि घृणया चानुरूपतः ॥ १० ॥
॥ ऋषय ऊचुः ॥
द्वापरे द्वापरे व्यासाः के वै कुत्रान्तरेषु वै ।
कल्पेषु कस्मिन् कल्पे नो वक्तुमर्हसि चात्र तान् ॥ ११ ॥
॥ सूत उवाच ॥
शृण्वन्तु कल्पे वाराहे द्विजा वैवस्वतान्तरे ।
व्यासांश्च साम्प्रतं रुद्रांस्तथा सर्वान्तरेषु वै ॥ १२ ॥
वेदानां च पुराणानां तथा ज्ञानप्रदर्शकान् ।
यथाक्रमं प्रवक्ष्यामि सर्वावर्तेषु साम्प्रतम् ॥ १३ ॥
क्रतुः सत्यो भार्गवश्च अङ्गिराः सविता द्विजाः ।
मृत्युः शतक्रतुर्धीमान् वसिष्ठो मुनिपुङ्गवः ॥ १४ ॥
सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुङ्गवः ।
शततेजाः स्वयं धर्मो नारायण इति श्रुतः ॥ १५ ॥
तरक्षुश्चारुणिर्धीमांस्तथा देवः कृतञ्जयः ।
ऋतञ्जयो भरद्वाजो गौतमः कविसत्तमः ॥ १६ ॥
वाचःश्रवा मुनिः साक्षात् तथा शुष्मायणिः शुचिः ।
तृणबिन्दुर्मुनी रूक्षः शक्तिः शाक्तेय उत्तरः ॥ १७ ॥
जातूकर्ण्यो हरिः साक्षात्कृष्णद्वैपायनो मुनिः ।
व्यासास्त्वेते च शृण्वन्तु कलौ योगेश्वरान् क्रमात् ॥ १८ ॥
असंख्याता हि कल्पेषु विभोः सर्वान्तरेषु च ।
कलौ रुद्रावताराणां व्यासानां किल गौरवात् ॥ १९ ॥
वैवस्वतान्तरे कल्पे वाराहे ये च तान् पुनः ।
अवतारान् प्रवक्ष्यामि तथा सर्वान्तरेषु वै ॥ २० ॥
॥ ऋषय ऊचुः ॥
मन्वन्तराणि वाराहे वक्तुमर्हसि साम्प्रतम् ।
तथैव चोर्ध्वकल्पेषु सिद्धान् वैवस्वतान्तरे ॥ २१ ॥
॥ रोमहर्षण उवाच ॥
मनुः स्वायम्भुवस्त्वाद्यस्ततः स्वारोचिषो द्विजाः ।
उत्तमस्तामसश्चैव रैवताश्चाक्षुषस्तथा ॥ २२ ॥
वैवस्वतश्च सावर्णिर्धर्मः सावर्णिकः पुनः ।
पिशङ्गश्चापिशङ्गाभः शबलो वर्णकस्तथा ॥ २३ ॥
औकारान्ता अकाराद्या मनवः परिकीर्तिताः ।
श्वेतः पाण्डुस्तथा रक्तस्ताम्रः पीतश्च कापिलः ॥ २४ ॥
कृष्णः श्यामस्तथा धूम्रः सुधूम्रश्च द्विजोत्तमाः ।
अपिशङ्गः पिशङ्गश्च त्रिवर्णः शबलस्तथा ॥ २५ ॥
कालन्धुरस्तु कथिता वर्णतो मनवः शुभाः ।
नामतो वर्णतश्चैव वर्णतः पुनरेव च ॥ २६ ॥
स्वरात्मानः समाख्याताश्चान्तरेशाः समासतः ।
वैवस्वत ऋकारस्तु मनुः कृष्णः सुरेश्वरः ॥ २७ ॥
सप्तमस्तस्य वक्ष्यामि युगावर्तेषु योगिनः ।
समतीतेषु कल्पेषु तथा चानागतेषु वै ॥ २८ ॥
वाराहः साम्प्रतं ज्ञेयः सप्तमान्तरतः क्रमात् ।
योगावतारांश्च विभोः शिष्याणां सन्ततिस्तथा ॥ २९ ॥
सम्प्रेक्ष्य सर्वकालेषु तथावर्तेषु योगिनाम् ।
आद्ये श्वेतः कलौ रुद्रः सुतारो मदनस्तथा ॥ ३० ॥
सुहोत्रः कङ्कणश्चैव लोकाक्षिर्मुनिसत्तमाः ।
जैगीषव्यो महातेजा भगवान् दधिवाहनः ॥ ३१ ॥
ऋषभश्च मुनिर्धीमानुग्रश्चात्रिः सुबालकः ।
गौतमश्चाथ भगवान् सर्वदेवनमस्कृतः ॥ ३२ ॥
वेदशीर्षश्च गोकर्णो गुहावासी शिखण्डभृत् ।
जटामाल्यट्टहासश्च दारुको लाङ्गली तथा ॥ ३३ ॥
महाकायमुनिः शूली दण्डी मुण्डीश्वरः स्वयम् ।
सहिष्णुः सोमशर्मा च नकुलीशो जगद्गुरुः ॥ ३४ ॥
वैवस्वतेऽन्तरे सम्यक् प्रोक्ता हि परमात्मनः ।
योगाचार्यावतारा ये सर्वावर्तेषु सुव्रताः ॥ ३५ ॥
व्यासाश्चैवं मुनिश्रेष्ठा द्वापरे द्वापरे त्विमे ।
योगेश्वराणां चत्वारः शिष्याः प्रत्येकमव्ययाः ॥ ३६ ॥
श्वेतः श्वेतशिखण्डी च श्वेताश्वः श्वेतलोहितः ।
दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा ॥ ३७ ॥
विशोकश्च विकेशश्च विपाशः पापनाशनः ।
सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः ॥ ३८ ॥
सनकश्च सनन्दश्च प्रभुर्यश्च सनातनः ।
ऋभुः सनत्कुमारश्च सुधामा विरजास्तथा ॥ ३९ ॥
शङ्खपाद्वैरजश्चैव मेघः सारस्वतस्तथा ।
सुवाहनो मुनिश्रेष्ठो मेघवाहो महाद्युतिः ॥ ४० ॥
कपिलश्चासुरिश्चैव तथा पञ्चशिखो मुनिः ।
वाल्कलश्च महायोगी धर्मात्मानो महौजसः ॥ ४१ ॥
पराशरश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा ।
बलबन्धुर्निरामित्रः केतुशृङ्गस्तपोधनः ॥ ४२ ॥
लम्बोदरश्च लम्बश्च लम्बाक्षो लम्बकेशकः ।
सर्वज्ञः समबुद्धिश्च साध्यः सर्वस्तथैव च ॥ ४३ ॥
सुधामा काश्यपश्चैव वासिष्ठो विरजास्तथा ।
अत्रिर्देवसदश्चैव श्रवणोऽथ श्रविष्ठकः ।
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ ४४॥
कश्यपोऽप्युशनाश्चैव च्यवनोऽथ बृहस्पतिः ।
उतथ्यो वामदेवश्च महायोगो महाबलः ॥ ४५ ॥
वाचःश्रवाः सुधीकश्च श्यावाश्वश्च यतीश्वरः ।
हिरण्यनाभः कौशल्यो लोगाक्षिः कुथुमिस्तथा ॥ ४६ ॥
सुमन्तुर्बर्बरी विद्वान् कबन्धः कुशिकन्धरः ।
प्लक्षो दाल्भ्यायणिश्चैव केतुमान् गोपनस्तथा ॥ ४७ ॥
भल्लावी मधुपिङ्गश्च श्वेतकेतुस्तपोनिधिः ।
उशिको बृहदश्वश्च देवलः कविरेव च ॥ ४८ ॥
शालिहोत्रोऽग्निवेशश्च युवनाश्वः शरद्वसुः ।
छगलः कुण्डकर्णश्च कुम्भश्चैव प्रवाहकः ॥ ४९ ॥
उलूको विद्युतश्चैव मण्डूको ह्याश्वलायनः ।
अक्षपादः कुमारश्च उलूको वत्स एव च ॥ ५० ॥
कुशिकश्चैव गर्भश्च मित्रः कौरुष्य एव च ।
शिष्यास्त्वेते महात्मानः सर्वावर्तेषु योगिनाम् ॥ ५१ ॥
विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः ।
एते पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ॥ ५२ ॥
शिष्याः प्रशिष्याश्चैतेषां शतशोऽथ सहस्रशः ।
प्राप्य पाशुपतं योगं रुद्रलोकाय संस्थिताः ॥ ५३ ॥
देवादयः पिशाचान्ताः पशवः परिकीर्तिताः ।
तेषां पतित्वात्सर्वेशो भवः पशुपतिः स्मृतः ॥ ५४ ॥
तेन प्रणीतो रुद्रेण पशूनां पतिना द्विजाः ।
योगः पाशुपतो ज्ञेयः परावरविभूतये ॥ ५५ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे
मनुव्यासयोगेश्वरतच्छिष्यकथनं नाम सप्तमोऽध्यायः ॥ ७ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें