॥ अथ गजाननचरितं द्वापरयुग ॥
श्रीगणेशपुराणे क्रीडाखण्डे सप्तविंशत्युत्तरशततमोऽध्यायः
सिन्दूरोत्पत्तिवर्णनं
॥ व्यास उवाच ॥
चतुरानन देवेश गुणेशचरितं शुभम् ।
कथितं विस्तराद् देव नाहं तृप्तोऽस्मि तच्छ्रवात् ॥ १ ॥
सुधया तु विरक्तः स्यान्न कथा श्रवणान्नरः ।
त्रेतायुगकथा सर्वा गुणेशस्य श्रुता मया ॥ २ ॥
