श्रीगणेशपुराणे क्रीडाखण्डे द्वाविंशोत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे द्वाविंशोत्तरशततमोऽध्यायः

श्रीगणेशसेनाविजयवर्णनं
॥ क उवाच ॥

सिंहासनस्थे देवेश मयूरेशे गणैर्वृते ।
गौतमाद्या मुनिगणाः प्रशशंसुर्गुणेश्वरम् ॥ १ ॥
॥ ऋषय ऊचुः ॥
येन शक्रो जितः सङ्ख्ये नागैः शेषो धरातले ।
तस्य का गणनाऽन्येषां सोऽपि युद्धे जितस्त्वया ॥ २ ॥


रक्षिता बहवस्तस्मात् सिन्धोर्दुष्टात्सुरेश्वर ।
गणानां सर्वलोकानामन्यथा जीवनं कथम् ॥ ३ ॥
॥ क उवाच ॥
इत्थं तेषु वदत्स्वेव तत्कीर्तिं गिरिजऽऽययौ ।
आलिङ्ग्य प्राह पुत्रं सा श्रान्तोऽसि युद्धलालसः ॥ ४ ॥
ततः शीघ्रं समायातो भर्गो देवं स सस्वजे ।
उवाचेन्द्रादिभिर्देवैरसाध्यं कृतवानसि ॥ ५ ॥
परब्रह्मस्वरूपस्य चराचरगुरोरपि ।
सर्वज्ञस्य धराभारोद्धरणे निरतस्य ते ॥ ६ ॥
महिमानं स्वरूपाणि ब्रह्माद्या न विदुः सुराः ।
गौतमाद्याश्च मुनयः शक्तिः का तत्र नो भवेत् ॥ ७ ॥
॥ क उवाच ॥
इत्थं वदति देवेशे शिवेऽथ पार्वतीं जगौ ।
नारदो मुनिवर्योऽसौ मातः शृणु वचो मम ॥ ८ ॥
बहवो वासरा जाता अत्र स्थाने कदा शिवे ।
मोक्षमेष्यति दैत्योऽसौ सिन्धुर्दुष्टतमोऽनघे ॥ ९ ॥
कदा विवाहो भविता मयूरेशस्य सुव्रते ।
वासवाद्या जिता येन नाशं स कथमेष्यति ॥ १० ॥
आज्ञां देहि गमिष्यामः पुनरेष्याम सत्वरम् ।
कदा स्युः सिन्धुदैत्यात् ते देवाश्च मुक्तबन्धनाः ॥ ११ ॥
दैत्यस्य मरणं मातरसाध्यं दृश्यते मया ।
॥ क उवाच ॥
सुरर्षेर्वाक्यमाकर्ण्य प्रोचुस्तं ते गणास्तदा ॥ १२ ॥
षडाननादयो वीरा नारदं देवदर्शनम् ।
उद्दीपयन्तं तं देवं मयूरेशं सुरेश्वरम् ॥ १३ ॥
आश्चर्यं नारदमुने सर्वज्ञस्यापि तेऽनघ ।
एतदर्थं समायातो निजधाम्नो भुवं विभुः ॥ १४ ॥
अवाप्तसकलार्थोऽसौ मयूरेशोऽखिलार्थकृत् ।
अगुणस्य गुणेशस्य गुणक्षोभविधायिनः ॥ १५ ॥
स्वरूपं किं न जानासि ब्रह्माद्यैरनिरूपितम् ।
मयूरेशस्य वीर्यं च भूभारोत्तारणैषिणः ॥ १६ ॥
इन्द्राद्यवध्यानसुरन्निघ्नतो बलशालिनः ।
अनन्तकोटिब्रह्माण्डनायकस्याखिलात्मनः ॥ १७ ॥
उत्पत्तिस्थितिसंहारकारिणो जगतामपि ।
॥ क उवाच ॥
इति तद्भारती श्रुत्वा पुनः प्रोवाच नारदः ॥ १८ ॥
यदा द्रक्ष्यामि तं दैत्यं निहतं मुक्तिमागतम् ।
तदा सर्वं वचः सत्यं मन्येऽहं नान्यथा क्वचित् ॥ १९ ॥
निशम्यत्थं वचस्तस्य चुक्रोध स मयूरराट् ।
जगर्ज क्रोधदीप्तोऽसौ नादयन् भुवनत्रयम् ॥ २० ॥
दहन्निव त्रिलोकीं स शीर्णयन् पृथिवीमपि ।
मेघगम्भीरया वाचा बभाण तं मुनिं तदा ॥ २१ ॥
॥ मयूरेश उवाच ॥
मान्योऽसि ब्रह्मपुत्रत्वात् सर्वज्ञत्वान् मुनीश्वर ।
अतस्त्वां प्रब्रवीम्यद्य मर्यादां परिपालयन् ॥ २२ ॥
तव प्रसादात् ब्रह्माण्डं प्राशयिष्येऽन्तकं क्षणात् ।
भूगोलं न्युब्जतां नेष्ये शोषयिष्येऽम्बुधीनपि ॥ २३ ॥
चालयिष्ये तथा मेरुं मुने निश्वासवायुना ।
शृणु नारद सत्यां मे प्रतिज्ञामद्य सर्वग ॥ २४ ॥
हनिष्ये सिन्धुदैत्यं तं नात्र कार्या विचारणा ।
॥ क उवाच ॥
इत्युक्त्वा प्रययौ योद्धुं बर्ह्यारुढो विनायकः ॥ २५ ॥
आहतुस्तं तदा नन्दी भृङ्गी चौभौ विनायकम् ।
आवां युद्धं करिष्यावो पश्य नौ रणकौशलम् ॥ २६ ॥
इत्युक्त्वा वायुवेगेन गतौ तौ गण्डकीं पुरीम् ।
वीरभद्रो भूतराजो ययौ श्रुत्वा तयोर्गतिम् ॥ २७ ॥
तदा च कम्पे धरणी शेषो विह्वलतां ययौ ।
ददृशुस्ते च चत्वारो दुर्गं दुर्गं सुरेश्वरैः ॥ २८ ॥
पर्यङ्के सुखमासीनं सिन्धुं चारा न्यवेदयन् ।
चत्वारः पर्वताकारा गर्जयन्तो दिशो नभः ॥ २९ ॥
वीरास्तव पुरीं याताः किं स्थितोऽसि महासुर ।
श्रुत्वेत्थं वचनं सिन्धुर्मग्नश्चिन्तार्णवे क्षणात् ।
दुर्गापि चिन्तयाविष्टा सा सोऽपि श्यामतामियात् ॥ ३० ॥
अधोमुखतया चोभौ दुःखं प्रापतुरञ्जसा ।
दुर्गा प्रोचे महाराज मयोक्तं न कृतं त्वया ॥ ३१ ॥
तस्येदं हि फलं प्राप्तमिदानीं किं नु चिन्तया ।
एवं वदति सा वाक्यं तावत्ते वीरसत्तमाः ॥ ३२ ॥
नानाश्चर्ययुतं नानारत्नकाञ्चननिर्मितम् ।
अनेक शिखरं तस्य सभामण्डपमाययुः ॥ ३३ ॥
उडीय सहसा भृङ्गी तस्थौ क्रुद्धस्तु मण्डपे ।
बभञ्ज मण्डपं सद्यः स बलेन महाबलः ॥ ३४ ॥
अङ्गणे तस्य खण्डानि पतितानि समन्ततः ।
तत्तस्त्रयोऽपि ते वीरा भृङ्गिनं समुपागताः ॥ ३५ ॥
युद्धावेशारुणमुखाः ससैन्यं तं ग्रसिष्णवः ।
दृष्ट्वा तत्कर्म तेषां तु सिन्धुसेना ययौ पुरः ॥ ३६ ॥
खड्गचर्मधनुर्बाणकुन्तमुद्गरधारिणी ।
घ्नन्तु घ्नन्तु महावेगांश्चतुरो वीरपुङ्गवान् ॥ ३७ ॥
इत्युक्त्वा चतुरो हन्तुमागता दैत्यसैनिकाः ।
असङ्ख्याताश्चतुर्भिस्तैर्युयुधुर्जातसम्भ्रमाः ॥ ३८ ॥
हन्मि त्वां जहि मह्यं चेत्यत्र कोलाहलोऽभवत् ।
ततोऽभूत् तुमुलं युद्धं चतुर्भिदैत्यसेनया ॥ ३९ ॥
रजोऽन्धकारे शस्त्रांणां प्रकाशनावलोकयन् ।
शतकोटि हता दैत्याश्चतुर्भिः संयुगे तदा ॥ ४० ॥
असङ्ख्यातान् महावीरान् पोथयामासुरोजसा ।
गृहीत्वा पादयोस्ते तान् भ्रामयित्वा पुनः पुनः ॥ ४१ ॥
नभोऽक्षिपन् महावीरास्ते भूमौ शतधाऽपतन् ।
शरैरस्त्रैश्च शस्त्रैश्च पादेन करघाततः ॥ ४२ ॥
नाशिता सर्वसेना सा दैतेयी रणमण्डले ।
ततस्ते तद्गृहं गत्वा सिन्धुं पर्यङ्कसंस्थितम् ॥ ४३ ॥
रणस्तम्भं समानिन्युर्धृत्वा केशेषु वेगतः ।
ततः सिन्धुर्महास्त्रैः स चक्रे युद्धं तु तैः सह ॥ ४४ ॥
व्यसृजत् पन्नगास्त्रं स भुजगैर्वेष्टितास्त्रयः ।
गरुडास्त्रं च सहसा भृङ्गिणाऽमोचि तत्क्षणात् ॥ ४५ ॥
अग्न्यस्त्रे मोचिते तेन पर्जन्यास्त्रं च सोऽसृजत् ।
वाय्वस्त्रे मोचिते तेन पर्वतास्त्रं च तेऽसृजन् ॥ ४६ ॥
ततस्ते मल्लयुद्धेन योधयामासुरादरात् ।
नन्दी तु पातयामास मुकुटं दैत्यमस्तकात् ॥ ४७ ॥
भृङ्गी तु ताडयामास पृष्ठे दैत्यं महारुषा ।
वीरभद्रोऽग्रहीद् भार्यां कचे तस्याथ पश्यतः ॥ ४८ ॥
भूतराजो जघानैनं लत्तया वैरभावतः ।
दुर्गा नेत्रे निमील्यैव नापश्यत् तं तथाविधम् ॥ ४९ ॥
निन्दन्ती तस्य कर्माणि पपाल निजमन्दिरम् ।
आवेशात् सिन्धुदैत्योऽपि वीरभद्रं पदेऽग्रहीत् ॥ ५० ॥
मुष्टिना नन्दिनं हत्वा शिखामाक्रम्य भृङ्गिणः ।
अपातयद् भूमितले भूतराजो मुमूर्छ ह ॥ ५१ ॥
मुकुटं मस्तके न्यस्य मुक्ताहारं गले तथा ।
तुरङ्गवरमारुह्य शेषानाहूय सैनिकान् ॥ ५२ ॥
हनिष्येऽद्य मयूरेशमित्युक्त्वा युयुधे पुनः ॥ ५३ ॥
जगर्ज सहसा दैत्यो गर्जयन् विदिशो दिशः ।
गतेषु तेषु वीरेषु चतुर्षु गणनायकम् ॥ ५४ ॥
वदत्सु दैत्यसेनायां सर्वेषां नाशनं कृतम् ।
आनीतः सिन्धुदैत्योऽपि रणभूमिं गणेश्वर ॥ ५५ ॥
अल्पसेनाचरैर्युक्तं मोचयैनं भवार्णवात् ।
वयमेव हनिष्यामो नाज्ञासीत् तव विघ्नराट् ॥ ५६ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे श्रीगणेशसेनाविजयवर्णनं नाम द्वाविंशोत्तरशततमोऽध्यायः ॥ १२२ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-122

कोई टिप्पणी नहीं:

123