श्रीगणेशपुराणे क्रीडाखण्डे त्रयोविंशत्युत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे त्रयोविंशत्युत्तरशततमोऽध्यायः

सिन्धुवध
॥ क उवाच ॥

आगतं सिन्धुमाकर्ण्य जहृषे स मयूरराट् ।
नीलकण्ठं समारुह्य ययौ युद्धाय सत्वरः ॥ १ ॥
चतुर्भिरायुधैः सर्वा भासन् विदिशो दिशः ।
कल्पान्तमेघसदृशनादेन नादयन् नभः ॥ २ ॥


ददर्श पुरतः सिन्धुं युद्धाय कृतनिश्चयम् ।
सोऽप्येनं समरे दृष्ट्वा पश्यति स्म पुनः पुनः ॥ ३ ॥
यथा सिहं नागराजो गरुडं चाथ वायुभुक् ।
मधुकैटभौ यथा विष्णुं त्रिपुरो वा शिवापतिम् ॥ ४ ॥
शुम्भो वापि निशुम्भो वा जगदम्बां महाबलाम् ।
ततो युद्धं प्रकुर्वाते नानाशस्त्रैः परस्परम् ॥ ५ ॥
जपाकुसुमसङ्काशौ देहौ जातो तदा तयोः ।
ददाह पृथिवीं साद्रिं शस्त्रसङ्घट्टजोऽनलः ॥ ६ ॥
च कम्पे पृथिवी सर्वा साब्धिद्वीपा सपर्वता ।
बाणमादाय सिन्धुः स वह्नयस्त्रेणाभिमन्त्र्य च ॥ ७ ॥
ससर्ज दग्धुं तं देवं मयूरेशं रणाङ्गणे ।
स दहन् देवसेनां तां दशदिक्षु ससर्प ह ॥ ८ ॥
ततः पाशं मयूरेशो मेघास्त्रेण सुयोज्य च ।
न्यक्षिपद् दैत्यसेनायां कम्पयन् भुवनत्रयम् ॥ ९ ॥
अशमच्च ततो वह्निर्जलधाराऽभिवृष्टिभिः ।
प्रभूतेनाथ तमसा दिशो व्याप्ता दशापि च ॥ १० ॥
विशीर्णाः पर्वतास्ताभिः पतिता वृक्षसञ्चयाः ।
अयं किं प्रलयः प्राप्त इत्यशोचत् स दैत्यराट् ॥ ११ ॥
पवनास्त्रेण तान् मेघांस्तदा सिन्धुर्न्यवारयत् ।
स वायुः कम्पयामास गगनं च दिशो दश ॥ १२ ॥
ततो देवोऽमन्त्रयत्स कमलं निजहस्तके ।
पर्वतास्त्रेण सहसा तत्याज दैत्यपुङ्गवे ॥ १३ ॥
उन्मूल्य तद् द्रुमान् व्योम द्योतयच्च दिशो दश ।
अगच्छद् दैत्यसेनायां प्रासुवत् पर्वतान् बहून् ॥ १४ ॥
असङ्ख्यातैर्गिरिवरैश्छादितं पृथिवीतलम् ।
न स्थातुमवकाशोऽभून्न च गन्तुमथापि च ॥ १५ ॥
पवनं कुण्ठितं दृष्ट्वा पर्वतान् सर्वतोऽपि च ।
वज्रास्त्रं प्रेरयामास ततो वज्राणि निर्ययुः ॥ १६ ॥
असङ्ख्यातैश्च वज्रैश्च पर्वताश्चूर्णितास्तदा ।
ततोऽकुशं मयूरेशो वज्रास्त्रेण न्यमन्त्रयत् ॥ १७ ॥
ससर्ज तेषु वज्रेषु वज्रयुद्धमभूत् तदा ।
तच्छब्देन च कम्पे भूः पातालानि दिशो नभः ॥ १८ ॥
न्यपदत् वज्रघातेन वह्निर्लोकान् ददाह सः ।
परस्परं निरस्तानि वज्राण्यन्तर्दधुस्तदा ॥ १९ ॥
ततोऽवदन् महादैत्योऽमात्यान् प्रति महारुषा ।
किमनेन प्रयोगेण भस्म कुर्यां क्षणादमुम् ॥ २० ॥
शिवबालं शिवास्तन्यपानदक्षं शिवोचितम ।
इत्युक्त्वाऽभिद्रवद्दैत्यो हन्तुं तं स गुणेश्वरम् ॥ २१ ॥
दधार तं निरीक्ष्यैवमायान्तं दैत्यपुङ्गवम् ।
विराड्रूपो मयूरेशो बिभेद सहसा नभः ॥ २२ ॥
चरणाक्रान्त पातालः श्रोत्रव्याप्त दिगन्तरः ।
सहस्रपादं सहसा निरीक्ष्य सहस्रनेत्रं च सहस्रशीर्षम् ।
खं रोदसी व्याप्य च तिष्ठमानं सिन्धुर्मुमूर्च्छाथ पतँश्च भूमौ ॥ २३ ॥
आच्छादयन्तं हस्तेन व्योम सर्वं सुरेश्वरम् ।
सावधानमनाः किञ्चित् सस्मार रविजं वरम् ॥ २४ ॥
॥ सिन्धुरुवाच ॥
रविणा पूर्वमुक्तोऽहं वरदाने महौजसा ।
आच्छादयेद् यो गगनमेकहस्तेनरेऽसुर ॥ २५ ॥
स ते मुक्तिपदं सद्यो नेष्यते बहुकालतः ।
अतोऽनेन रणेनाऽलं यद् भाव्यं तद् भविष्यति ॥ २६ ॥
पुनर्निरीक्ष्यमाणोऽसौ ह्रस्वकायं ददर्श तम् ।
षड्भुजं तु मयूरेशं परं विस्मयमायमौ ॥ २७ ॥
ततोऽवरुह्य देवेशो मयूरेशः शिखण्डिनः ।
उपस्पृश्य जलं शुद्धं जजाप परमं मनुम् ॥ २८ ॥
परशुं मन्त्रयामास महोव्याप्तं दिगन्तरम् ।
लक्षीकृत्य रिपोर्नाभिं सुधामन्त्रेण संयुतम् ॥ २९ ॥
स्फोटयन्निव ब्रह्माण्डं क्रोधसंरक्तलोचनः ।
ज्वालामालाकुलं तं स मुमोच गिरिजासुतः ॥ ३० ॥
स मोच्यमानो गगनं नादयन् विदिशो दिशः ।
भासयन् महसा पृथ्वीं सपर्वतवनाकराम् ॥ ३१ ॥
दृष्ट्वा दैत्यः समायान्तं परशुं कालसन्निभम् ।
शीघ्रं चक्रे धनुर्घोरं शरं यावद्धियोज्यते ॥ ३२ ॥
तावत् स बिभिदे नाभिममृताभियुतं लघु ।
अमृते निःसृते दैत्यो वाताहत इव द्रुमः ॥ ३३ ॥
पपात सहसा भूमौ वज्राहत इवाचलः ।
प्रसार्य वक्त्रं रुधिरं वमन् प्राणान् विसृज्य सः ॥ ३४ ॥
मयूरेशप्रतापेन मुक्तिं प्राप सुदुर्लभाम् ।
पश्यतां सर्वलोकानां तद्भुतमिवाभवत् ॥ ३५ ॥
अवतेरुर्विमानानि युद्धं द्रष्टुं स्थितानि ह ।
पपात पुष्पवृष्टिश्च शनैर्मेघा जगर्जिरे ॥ ३६ ॥
अशीशमद् रजो भौमं ववौ वातः सुखावहः ।
प्रसेदुश्च दिशः सर्वा गन्धर्वा मधुरं जगुः ॥ ३७ ॥
ननृतुश्चाप्सरः सङघास्तुष्टवुर्मुनिदेवताः ।
षडाननादयो वीरा मयूरेशं मुदा युताः ॥ ३८ ॥
॥ देवा कृत मयूरेश स्तुति ॥
॥ सर्वे ऊचुः ॥
परब्रह्मरूपं चिदानन्दरूपं सदानन्दरूपं सुरेशं परेशम् ।
गुणाब्धि गुणेशं गुणातीतमीशं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ३९ ॥
जगद्वन्द्यमेकं परोङ्कारमेकं गुणानां परं कारणं निर्विकल्पम् ।
जगत्पालकं हारकं तारकं तं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४० ॥
महादेवसूनुं महादैत्यनाशं महापूरुषं सर्वदा विघ्ननाशम् ।
सदा भक्तपोषं परं ज्ञानकोशं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४१ ॥
अनादिं गुणादिं सुरादिं शिवाया महातोषदं सर्वदा सर्ववन्द्यम् ।
सुरार्यन्न्तकं भुक्तिमुक्तिप्रदं तं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४२ ॥
परं मायिनं मायिनामप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशम् ।
असङ्ख्यावतारं निजाज्ञाननाशं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४३ ॥
अनेकक्रियाकारणं श्रुत्यगम्यं त्रयीबोधितानेककर्मादिबीजम् ।
क्रिया सिद्धिहेतुं सुरेन्द्रादिसेव्यं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४४ ॥
महाकालरूपं निमेषादिरूपं कलाकल्परूपं सदागम्यरूपम् ।
जनज्ञानहेतुं नृणां सिद्धिदं तं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४५ ॥
महेशादिदेवैः सदा सेव्यपादं सदा रक्षकं योगिनां चित्स्वरूपम् ।
सदाकामरूपं कृपाम्भोनिधिं तं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥ ४६ ॥
सदा भक्तानां त्वं प्रसभपरमानन्दसुखदो
यतस्त्वं लोकानां परमकरुणामाशु तनुषे ।
षडूर्मीणां वेगं सुरवर सदा नाशय विभो
ततो मुक्तिः श्लाघ्या तव भजनतोऽनन्तसुखदात् ॥ ४७ ॥
किमस्माभिः स्तोत्रं गजवदन ते शक्यमतुलं
विधातुं वा रम्यं गुणनिधिरसि प्रेम जगताम् ।
न चास्माकं शक्तिस्तव गुणगणं वर्णितुमहो
त्वदीयोऽयं वारां निधिरिव जगत् सर्जनविधिः ॥ ४८ ॥
॥ क उवाच ॥
एवं स्तुत्वा पुनस्तेऽमुं प्रार्थयामासुरादरात् ।
यदुक्तं ते मयूरेश तत्कृतं परमं वचः ॥ ४९ ॥
सर्वेषां सुरसङ्घानामवध्योऽयं हतोऽसुरः ।
ततोऽगात् पार्वती तत्र जहृषे चालिलिङ्ग तम् ॥ ५० ॥
शिवोऽपि प्रययौ तत्र समालिङ्ग्य च तमब्रवीत् ।
सम्यक् कृतं त्वया वत्स त्रैलोक्यं हर्ष निर्भरम् ॥ ५१ ॥
सिन्धोर्वधः सर्वसुरैरसाध्यो न च ते श्रमः ।
पराक्रमवतः सर्वलोकरक्षारतस्य च ॥ ५२ ॥
चतुर्वेदानिरुप्यस्य सर्वविद्यानिधेरपि ।
एवमुक्त्वा गतास्ते तु सर्वे स्वस्थानमादृताः ॥ ५३ ॥
मयूरेशं नमस्कृत्य ततो देवाब्रुवँश्च तम् ।
इदं यः पठते स्तोत्रं स कामाल्लभतेऽखिलान् ॥ ५४ ॥
सहस्रावर्तनात् कारागृहस्थं मोचयेज्जनम् ।
अयुतावर्तनान्मर्त्योऽसाध्यं यत्साधयेत् क्षणात् ॥ ५५ ॥
सर्वत्र जयमाप्नोति श्रियं परमदुर्लभाम् ।
पुत्रवान्धनवांश्चैव वशतामखिलं नयेत् ॥ ५६ ॥
॥ क उवाच ॥
एवमुक्त्वा ह्यनुज्ञाताः साध्वित्युक्त्वा ययुः सुराः ।
मयूरेशो गणैर्युक्तः स्वधाम प्रत्यपद्यत ॥ ५७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धुवधो नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ॥ १२३ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-123

कोई टिप्पणी नहीं:

123