श्रीगणेशपुराणे क्रीडाखण्डे चतुर्विंशत्युत्तरशततमोऽध्यायः
सिन्धुनिरुद्धदेवगणमोचनं
॥ क उवाच ॥
पतिते सिन्धुदैत्ये तु हतशेषा रणे स्थिताः ।
आययुर्गण्डकीं यावत्तावत्ते चिन्तया युताः ॥ १ ॥
उग्रा दुर्गा चक्रपाणिरतिष्ठन् विह्वला भृशम् ।
तावत् तेषां दुष्टचिह्नं बभूव विविधं तदा ॥ २ ॥
उदक्शिराः प्रसुष्वाप काश्चित्तत्राशुभावहः ।
जानुनोर्मस्तकं न्यस्य तस्थौ तूष्णीं चलन्निव ॥ ३ ॥
हनौ पाणितलं न्यस्य तस्थौ काचिन्मुदं विना ।
एतस्मिन्नन्तरे दूता यमदूता इवाययुः ॥ ४ ॥
अतिम्लानमुखा दीना नाब्रुवन् मूकतां गताः ।
पृष्टास्ते प्राहुरपरे वृत्तान्तं रणभूगतम् ॥ ५ ॥
॥ दूता ऊचुः ॥
असङ्ख्यातान् महावीरान् हत्वा सिन्धुर्दिवं गतः ।
बालानस्मान् परित्यज्य तेन हीना रुदामहे ॥ ६ ॥
निरीक्ष्य देवान् निहतान् क्रुद्धोऽगाद् गिरिजासुतः ।
अस्त्रैरस्त्राणि संवार्य मुमोच परशुं शितम् ॥ ७ ॥
तेन सिन्धुर्मृतस्तत्र पतितो धरणीतले ।
मुमूर्छस्तत्र सर्वेऽपि तदीया नागराश्च ह ॥ ८ ॥
श्रुत्वा वार्तां दूतमुखाद् रुरुदुः सर्व एव ते ।
विललापाथ दुर्गा सा जघान शिर उत्कटम् ॥ ९ ॥
मुक्तकेशा मुहुर्वक्त्रं निघ्नती गतभूषणा ।
उग्रा च जननी चास्य चक्रपाणिः पिता तदा ॥ १० ॥
पौराश्च रुरुदुस्तत्र निघ्नन्तः पाणिना मुखम् ।
अवनौ शिर आस्फाल्य लुलुण्ठुर्घोरनिस्वनाः ॥ ११ ॥
कश्चिद्धूलिं निचिक्षेप मुखे शिरसि दुःखितः ।
हस्तपृष्ठं ददंशान्यास्ताभ्यां भूमिमथाहनत् ॥ १२ ॥
अशपन् निगरिजापुत्रं स्त्रियो भङ्क्त्वा कराङ्गुलीः ।
॥ उग्रोवाच ॥
नानायत्नैस्तपसा सूर्यतुष्ट्या नत्या स्तुत्या लङघनैः सर्वदानैः ।
प्रातःकालान् मा हतस्त्वं कथञ्चिच्छूरो मानी केन नीतोऽसि रें त्वम् ॥ १३ ॥
त्रिलोकनायकेनाऽहं श्लाघ्या त्रैलोक्यमण्डले ।
शपिष्यन्ति च मां लोका हतभाग्यासि साम्प्रतम् ॥ १४ ॥
जितः कृतान्तः पूर्वं ते कथं तेन समागमः ।
प्राप्तस्त्वया कथं पुत्र न जितः पुनरेव सः ॥ १५ ॥
सकामो गिरिजापुत्रस्त्वयि याते दिवं सुत ।
मामपृष्ट्वा कथं यातः स्वर्ग लोकं सुखावहम् ॥ १६ ॥
दुःखितायां मयि सुत कथं सन्तोषमेष्यसि ।
गर्जन्ति नैव जीमूतत्स्त्वयि गर्जति पुत्रक ॥ १७ ॥
निःशब्दः स कथं पुत्र पतितस्त्वं रणाङ्गणे ।
॥ दुर्गोवाच ॥
देहैक्यं कृतवान् धाता दम्पत्योर्वेददर्शनात् ॥ १८ ॥
प्राणैक्यं न कृतं कस्माद्ब्रह्मणा मूढबुद्धिना ।
नाहं शचीं च सावित्रीं सौभाग्यमदगर्विता ॥ १९ ॥
गणयामि न चान्याश्च सा कथं विधवाऽभवम् ।
स्वहस्तेन च कस्तूरीं चन्दनं च यदा भवान् ॥ २० ॥
चर्चति स्म तदाङ्गानि शीतलानि ममाऽभवन् ।
इदानीं दह्यमानानि शोकेन तानि निर्वप ॥ २१ ॥
न भक्षयसि पूर्वं त्वं मद्विना विषमण्वपि ।
स कथं मां विना स्वर्गसुखं भोक्ष्यसि तादृशम् ॥ २२ ॥
अपराधं विना भृत्ये नोदासीना भवन्ति हि ।
साधवः समशीलाश्च तत् कथं मामुपेक्षसे ॥ २३ ॥
उपाधिरहितं प्रेम कृतं नानाविधं पुरा ।
अनिर्वाच्यं कथं त्यक्त्वा तद् गतोऽसि सुरान्तक ॥ २४ ॥
॥ क उवाच ॥
तपोवृद्धा ज्ञानवृद्धाः प्राब्रुवन् निष्ठुरं वचः ।
न रोदनं प्रशंसन्ति धर्मशास्त्रविदो जनाः ॥ २५ ॥
यदश्रु सुहृदामास्ये प्रेतस्य तत्पतेद् धृवम् ।
तस्मात्तस्य हितं यत् स्यात् तत् कर्तव्यं दयावता ॥ २६ ॥
विचार्यमाणे तस्यापि मोक्षोऽदायि कृपावता ।
निर्गुणेन चिदानन्दघनेन ब्रह्मरूपिणा ॥ २७ ॥
दयापरवशाज्जन्म बिभ्रता लोकशङ्कृता ।
मयूरेशेन सङ्ग्रामे निघ्नता सम्मुखं च तम् ॥ २८ ॥
आत्मनो नैव मरणं नोत्पत्तिः क्वापि विद्यते ।
अनादित्वान्निर्गुणत्वान्नित्यत्वाद् वेदनिश्चयात् ॥ २९ ॥
स्वार्थं हि रोदते जन्तुर्हितं प्रेतस्य नेहते ।
असङ्ख्य भारवाड्देवी न भारं सहते धरा ॥ ३० ॥
प्रेतस्य शेषः कमठो वराहोऽसौ धराधरः ।
इत्युक्त्वा ते तदा शोकं विजहुर्बुद्धवाक्यतः ॥ ३१ ॥
उग्रा च चक्रपाणिश्च दुर्गा च सखिभिः सह ।
नागराश्चापि शोचन्तो ययुः सङ्ग्राममण्डलम् ॥ ३२ ॥
ददृशुः सेवकैः सिन्धुं वीज्यमानं रणाङ्गणे ।
पतितं वक्त्रकमलं व्यादाय सितलोचनम् ॥ ३३ ॥
असृक्स्रवन्तं दुर्गन्धं पक्षिश्वापदसङकुलम् ।
उपविष्टास्तु परितः शोचन्तो भृशदुःखिताः ॥ ३४ ॥
अङ्के कृत्वा शिरस्तस्य दुर्गाऽशोचत् खरस्वना ।
पादसंवाहनं नाथ हस्ताभ्याम् पूर्वमाचरम् ॥ ३५ ॥
जनमध्ये न तच्छक्यमुत्तिष्ठ प्राणनायक ।
शत्रौ जीवति निद्रां त्वं कथं विराधिगच्छसि ॥ ३६ ॥
तन्मुखे स्थापयित्वास्यं हाहाकारं च साऽकरोत् ।
न्यषेधन् वृद्धविज्ञास्तां तत उग्राऽब्रवीद् वचः ॥ ३७ ॥
चक्रपाणिः पिता चास्यं क्षालयन्तौ शुशोचतम् ।
उत्तिष्ठ वत्स किं शेषे शेषे रिपुगणे सति ॥ ३८ ॥
वज्री वज्राहत इव पतितो धरणीतले ।
इदानीं बाल युद्धे त्वं कथं निपतितो भुवि ॥ ३९ ॥
जितः कृतान्तो भूक्षेपात् तद्वशं कथमागतः ।
किञ्चिद् वाक्यं वद विभो हृदयानन्दकारकम् ॥ ४० ॥
यस्य शब्देन त्रैलोक्यं कम्पते स्म पुराऽनघ ।
कथं स्ववचनं नाद्य वदसे मन्दविक्रम ॥ ४१ ॥
नावाभ्यामपराद्धं ते येन मौनं त्वमाश्रितः ।
न भाषसे रोषवशात् सेनाशेषसमन्वितः ॥ ४२ ॥
कथं विह्वलतां यातः कामं यो जितवान् रुचा ।
ततो विज्ञाश्च वृद्धाश्च नानादृष्टान्तदर्शनैः ॥ ४३ ॥
समादध्युः प्ररुदतो मृतानुमरणं न हि ।
रामो दाशरथिः किं नु लोकान्तरगतो न हि ॥ ४४ ॥
विक्रमेण रिपूं जित्वा गतः किं न रघूत्तमः ।
अन्येऽपि शतशो भूपास्त्वत्कृते मरणं गताः ।
कीर्तिं नानाविधां कृत्वा स्वर्गस्थाः सुखमश्नुते ॥ ४५ ॥
॥ क उवाच ॥
ततस्ते संस्कृतिं चक्रुर्बिल्वचन्दनदारुभिः ।
दुर्गा सहैव संयाता पातिव्रत्यगुणान्विता ॥ ४६ ॥
ततो ययौ मयूरेशं चक्रपाणिः सनागरः ।
नमस्कृत्य प्रतुष्टाव बद्धाञ्जलिपुटः शनैः ॥ ४७ ॥
॥ राजोवाच ॥
निर्गुणस्त्वं परात्मासि चराचरगतिर्विभो ।
त्रयीगम्यो गुणाध्यक्षो विरजो विश्वनायकः ॥ ४८ ॥
तवैव मायया देवा मोहितस्त्वां न ते विदुः ।
अहं धन्यो नागरिका धन्यास्त्वद्दर्शनाद्विभो ॥ ४९ ॥
॥ क उवाच ॥
एवं तेन स्तुतो देवः करुणाब्धिर्मयूरराट् ।
उवाच परमप्रीतः सर्वशास्त्रार्थतत्त्ववित् ॥ ५० ॥
॥ देव उवाच ॥
वरं वरय मत्तस्त्वं चक्रपाणे हतार्भक ।
॥ राजोवाच ॥
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ॥ ५१ ॥
तदा गृहानुपागच्छ पुनीहि नगरीमिमाम् ।
॥ क उवाच ॥
एवमाकर्ण्य तद्वाक्यं बर्हिणं स समारुहत् ॥ ५२ ॥
ययौ स नगरं पश्चात् त्र्यम्बको गिरिजायुतः ।
अग्रतस्ते गणाः सर्वे मुनयो हर्षनिर्भराः ॥ ५३ ॥
वाद्यत्सु सर्ववाद्येषु युयुस्ते गण्डकीं पुरीम् ।
नानाध्वजपताकाभिर्युतां संसिक्तपद्धतिम् ॥ ५४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धुनिरुद्धदेवगणमोचनं नाम
चतुर्विंशत्युत्तरशततमोऽध्यायः ॥ १२४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें