श्रीगणेशपुराणे क्रीडाखण्डे षड्विंशत्युत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे षड्विंशत्युत्तरशततमोऽध्यायः

मयूरेशान्तर्न्धानवर्णनं
॥ क उवाच ॥

सिद्धे विवाहे च ततो मयूरेशः शिखण्डिनम् ।
आरुह्य सहसा गन्तुं नगरीं स्वामियेष सः ॥ १ ॥
स्वं स्वं वाहनमारुढा गीर्वाणास्तत्क्षणेन च ।
यान्ति स्म पुरतस्तस्य मुनयः पृष्ठतो ययुः ॥ २ ॥


अन्वयुर्नागराः सर्वे स्त्रियश्च बालकानि च ।
आनन्दयुक्ता नगरात् सहसा चक्रपाणिना ॥ ३ ॥
वाद्यत्सु सर्ववाद्येषु ननृतुश्चाप्सरोगणाः ।
रणभूमिं गतो यावन् मयूरेशोऽखिलैर्वृतः ॥ ४ ॥
तावत्स्कन्दादयो वीराः प्रार्थयां चक्रिरे विभुम् ।
॥ वीरा ऊचुः ॥
सेनाचरा दैत्यगणैर्निहता युद्धसम्भ्रमात् ॥ ५ ॥
उत्तस्थुः सर्व एवैते त्वत् कटाक्षामृतोक्षिताः ।
तान् दृष्ट्वा जीवितांस्तेन सर्वे देवाश्च नागराः ॥ ६ ॥
विस्मयं परमं प्राप्ताः साधु साध्वब्रुवंस्तदा ।
ततो योजनमात्रं च दत्वा मार्गमवस्थितः ॥ ७ ॥
देवोऽब्रवीच्चक्रपाणिं मूर्ध्निं दत्त्वा करं शुभम् ।
आलिङ्ग्य दशदोर्दण्डैः शत्रुपक्षभयङ्करैः ॥ ८ ॥
॥ देव उवाच ॥
त्वं याहि गण्डकी शीघ्रं नागरैर्मम वाक्यतः ।
॥ क उवाच ॥
एवमाकर्ण्य तद्वाक्यं मुमोचाश्रूणि सत्वरम् ॥ ९ ॥
नागराश्च प्रणम्योच्चैरुचुर्वाक्यं शुचान्विताः ।
यत्र यासि नयास्मांस्त्वमत्र त्यक्तुं न चार्हसि ॥ १० ॥
नागतः स्यात् पूर्वमेव तदा दुःखं न नो भवेत् ।
एवमुक्त्वा नमस्कृत्य ययुः सर्वे तदाज्ञया ॥ ११ ॥
चक्रपाणिरपि तदा नमस्कृत्य ययौ पुरः ।
वर्णयन्तो गुणगणांस्तदीयानद्भुतान् बहून् ॥ १२ ॥
क्षणेन नगरीं प्राप्य चक्रपाण्यनुमोदिताः ।
नागराः स्वगृहं प्राप्ताश्चक्रपाणिर्निजालयम् ॥ १३ ॥
पञ्चानामपि देवानां प्रासादानप्यकारयत् ।
पञ्चायतनमूर्तिं च स्थापयामास तेषु च ॥ १४ ॥
प्रत्यहं पूजयामास भक्तिभावसमन्वितः ।
मयूरेशपुरीं प्राप्तो मयूरेशोऽपि तत्क्षणात् ॥ १५ ॥
आश्चर्यं परमं प्राप्ता गणाः सर्वे निरीक्ष्यतम् ।
यस्यां रत्नमया स्तम्भा भित्तयोऽष्टापदान्विताः ॥ १६ ॥
एको ना दृश्यते तत्रा सङ्ख्यातजनसंयुतः ।
प्रविश्य स सभां रम्या ब्रह्मादीनुपवेश्य च ॥ १७ ॥
मध्ये विवेश च ततो लोकयन् सर्वतः स्वयम् ।
ददर्श पूर्वभागे से मन्मथं रति संयुतम् ॥ १८ ॥
देवीं मार्जारनाम्नीं तां लोके ख्यातां सुखप्रदाम् ।
दक्षिणस्यां दिशि तदा लोकयत् पार्वतीशिवौ ॥ १९ ॥
तत्पुरो विरजां देवीं भक्तकामप्रपूरिकाम् ।
पश्चिमायां दिशिततो वाराहं धरणीयुतम् ॥ २० ॥
आश्रयां नाम देवीं च सर्वविघ्नहरां शुभाम् ।
उत्तरस्यां दिशि तदा श्रीहरिं समलोकयत् ॥ २१ ॥
मुक्तादेवीं च विख्यातां सर्वमुक्तिप्रदां ततः ।
त्रयस्त्रिंशत्कोटिसुराः स्थितास्तद्दर्शनेच्छया ॥ २२ ॥
भाद्रशुद्धप्रतिपदि स्नात्वाऽभ्यर्च्य गजाननम् ।
गत्वा तु पूर्वदिग्भागे मार्जारीं पूजयेत् ततः ॥ २३ ॥
दत्वा दानानि विप्रेभ्यः स्मृत्वा ध्यात्वा गजाननम् ।
मौनं व्रतं समास्थाय न श्रुत्वा पादजध्वनिम् ॥ २४ ॥
कृमिकीटपतङ्गादीन् न हिंसेत प्रयतः शुचिः ।
पुनः स्नात्वा समभ्यर्चेद् देवदेवं गजाननम् ॥ २५ ॥
पूर्ववत्तु द्वितीयेऽह्नि तृतीये च ततः क्रमात् ।
तथैव दक्षिणद्वारि विरजां द्वितयेऽहनि ॥ २६ ॥
तृतीये पश्चिमद्वारि तथैवाश्रमसंज्ञिताम् ।
नत्वाऽर्चयेच्चतुर्थ्यां तु तद्वदुत्तरतो नरः ॥ २७ ॥
मुक्तां देवी समभ्यर्च्य मयूरेशं च तद्दिने ।
पूजामहोत्सवं कुर्याद् रात्रौ जागरणं चरेत् ॥ २८ ॥
एवं यः कुरुते भक्त्या द्वाराणि चोपवासतः ।
स सर्वाल्लँभते कामान् मयूरेशप्रसादतः ॥ २९ ॥
चतुर्थ्यामेव चत्वारि शक्तो द्वाराणि पूर्ववत् ।
आद्यन्तमज्जनादेवदर्शनं च करोति यः ॥ ३० ॥ (नद्यन्तर्मज्जनं देवदर्शनं)
तस्य सद्यः फलं दद्यात् परितुष्टो गजाननः ।
तस्माच्छुद्धप्रतिपदमारभ्य ब्रह्मचर्यवान् ॥ ३१ ॥
ततश्चतुर्थ्यामुषसि स्नानं कृत्वा विधानतः ।
नित्यं सम्पाद्य विधिवन् मयूरेशं समर्चयेत् ॥ ३२ ॥
प्रदक्षिणा नमस्कारान् कुर्यादेवैकविंशतिम् ।
पूर्वद्वारे नमस्कृत्य मार्जारीं त्वरयान्वितः ॥ ३३ ॥
एवं शिवावाश्रयां च मुक्तादेवीं नमेत् पराम् ।
प्रारभेद् दिनशेषे तु मयूरेश्वरपूजनम् ॥ ३४ ॥
षोडशैरुपचारैस्तु पूजयेत् सुसमाहितः ।
रात्रौ जागरणं कुर्याद् गीतवादीत्रनिस्वनैः ॥ ३५ ॥
प्रभाते विमले स्नात्वा पुनर्देवं समर्चयेत् ।
ब्राह्मणैः सह कुर्वीत पारणं स्वस्य शक्तितः ॥ ३६ ॥
तेभ्यो दद्याद् हिरण्यं च वासो धान्यं गवादिकम् ।
एवं यः कुरुते मर्त्यो दुःसाध्यमपि साधयेत् ॥ ३७ ॥
पुत्रपौत्रयुतो भोगान् भुक्त्वा चान्ते व्रजेद्दिवम् ।
इन्द्रादयो लोकपालाः पूजयिष्यन्ति तं नरम् ॥ ३८ ॥
सेवन्ते पादकमलं तस्य या अष्टनायिकाः ।
अन्धस्तु लभते दृष्टिं मूको वाचं लभेद्ध्रुवम् ॥ ३९ ॥
बधिरः श्रुतिमाप्नोति पङ्गुश्च चरणावपि ।
भार्यार्थी लभते भार्या विद्यार्थी लभते मतिम् ॥ ४० ॥
एतदेव फलं प्रोक्तं द्वारेषु चोपवासतः ।
ततः कदाचिद् देवेशो मयूरेशोऽखिलान् सुरान् ॥ ४१ ॥
उवाच श्लक्ष्णया वाचा हरिब्रह्मशिवादिकान् ।
॥ मयूरेश उवाच ॥
यदर्थमवतीर्णोहं तत्कार्यं नः कुतं सुराः ॥ ४२ ॥
निहता बहवो दैत्या भूभारश्च कृतो लघुः ।
सिन्धोः कारागृहात् सर्वे मोचिता अमृतान्धसः ॥ ४३ ॥
स्वाहास्वधावषट्कारा भविष्यन्ति यथा पुरा ।
भवतामाज्ञया देवा यास्ये स्वं धाम साम्प्रतम् ॥ ४४ ॥
एवमाकर्ण्य तद्वाक्यं देवाः सर्वे शुचान्विताः ।
त्यजन्तोऽश्रूणि सम्प्रोचुः परस्परमुखेक्षणाः ॥ ४५ ॥
अस्मांस्त्यक्त्वा मयूरेश क्व वा गन्तुं समीहसे ।
कथं स्नेहं परित्यज्य नैष्ठुर्यं परमं गतः ॥ ४६ ॥
ततस्तत् पार्वती श्रुत्वा सहसा शोककर्षिता ।
पपात मूर्च्छिता भूमौ मुहूर्तादवदच्च सा ॥ ४७ ॥
॥ पार्वत्युवाच ॥
दीननाथ दयासिन्धो सिन्धुदैत्यविमर्दन ।
क्व यास्यसि जगन्नाथ हित्वा मा जननीं तव ॥ ४८ ॥
न स्थास्यन्ति मम प्राणास्त्वयि याते सुरेश्वर ।
॥ देव उवाच ॥
द्वापरे पुनरेवाहं यास्ये त्वत्पुत्रतां शुभे ॥ ४९ ॥
न मिथ्या वचनं मे स्यान्न चिन्तां कर्तुमर्हसि ।
ममापि दुःखमतुलं वियोगात्तव जायते ॥ ५० ॥
नैकत्र सर्वदा मातः सुहृदां वसतिर्भवेत् ॥
सिन्दूरो नाम दैत्योऽपि भविष्यति सुदारुणः ॥ ५१ ॥
अवध्यः सर्वदेवानां तदाऽहं स्यान्तवार्भकः ॥
स्मृतमात्रस्तवाग्रेऽहं स्थास्यामि शिवनन्दिनि ॥ ५२ ॥
ततः षडाननः प्राह नय मां यत्र यास्यसि ।
बालके कृपणे दीने नौदासिन्यं हि युज्यते ॥ ५३ ॥
॥ देव उवाच ॥
न चिन्तां कुरु बन्धो त्वमत्रायास्याम्यहं पुनः ।
भवतो न वियोगो मे सर्वान्तर्यामिणः खलु ॥ ५४ ॥
तस्मै ददौ मयूरं तं मयूरेशः स्वबन्धवे ।
मयूरध्वज इत्येव नामचक्रेऽस्य तत्क्षणात् ॥ ५५ ॥
आरुरोह मयूरं तं स्कन्दो बन्धोरथाज्ञया ।
तस्मिन्नेव क्षणे देवोऽन्तर्दधे स मयूरराट् ॥ ५६ ॥
तस्मिन्नन्तर्हिते केशा अपश्यन्न्हृदि तं सदा ।
ततो ब्रह्मा वालुकाभिः कृत्वा मूर्तिं गजाननीम् ॥ ५७ ॥
स्थापयामास विधिवत् प्रासादे सुमनोहरे ।
पुपूजुः सर्वलोकास्तमुपचारैर्यथाविधि ॥ ५८ ॥
वसिष्ठाद्या मुनिगणाः सस्नुर्ब्रह्मकमण्डलौ ।
सर्वं नित्यविधिं कृत्वा ययुर्मूर्तिं सुशोभनीम् ॥ ५९ ॥
उपोष्य केचिद् पिदधुर्द्वाराणि धामलब्धये ।
स्नात्वा नत्वा मयूरेशं धावमानास्तथाऽपरे ॥ ६० ॥
ऊचुः परस्परं देवा मुनयोऽपि मुदा तदा ।
नैतादृशं पुण्यक्षेत्रं यत्र देवः स्थितः स्वयम् ॥ ६१ ॥
मयूरेशो विघ्नहरो भक्तानां कामपूरकः ।
पूजायित्यैवमुक्त्वा तु जग्मुस्ते स्वं स्वमाश्रमम् ॥ ६२ ॥
ब्रह्मादयः सुराः स्वं स्वं पदमभ्यागमंस्तदा ।
शङ्करः सपरीवारः कैलासमगमन् मुदा ॥ ६३ ॥
स्वधास्वाहावषट्कारैरिन्द्राद्या मुमुदुस्तदा ।
॥ क उवाच ॥
एवं ते सर्वमाख्यातं त्रेतायुगकृतं मुने ॥ ६४ ॥
मयूरेशस्य चरितं श्रवणात्सर्वकामदम् ।
धन्यं यशस्यमायुष्यं सर्वपापहरं नृणाम् ॥ ६५ ॥
पुत्रदं धनदं विद्याप्रदं दुःखनिवारणम् ।
आधिव्याधिहरं कुष्ठ दुष्टरोगादिनाशनम् ॥ ६६ ॥
पठतां शृण्वतां पुंसां भुक्तिमुक्तिप्रदं शुभम् ।
विजयश्रीपदं नॄणां क्षत्रियाणां विशामपि ॥ ६७ ॥
शूद्राणामपि सर्वेषां श्रीप्रदं पुष्टिवर्धनम् ।
यद् यत् ते परिपृष्ठं मे ततत्ते कथितं मुने ।
गजाननस्य चरितं पुनः श्रोष्यसि मन्मुखात् ॥ ६८ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे मयूरेशान्तर्न्धानवर्णनं नाम षड्विंशत्युत्तरशततमोऽध्यायः ॥ १२६ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-126

कोई टिप्पणी नहीं:

123