श्रीगणेशपुराणे क्रीडाखण्डे सप्तविंशत्युत्तरशततमोऽध्यायः

॥ अथ गजाननचरितं द्वापरयुग ॥

श्रीगणेशपुराणे क्रीडाखण्डे सप्तविंशत्युत्तरशततमोऽध्यायः
सिन्दूरोत्पत्तिवर्णनं

॥ व्यास उवाच ॥

चतुरानन देवेश गुणेशचरितं शुभम् ।
कथितं विस्तराद् देव नाहं तृप्तोऽस्मि तच्छ्रवात् ॥ १ ॥
सुधया तु विरक्तः स्यान्न कथा श्रवणान्नरः ।
त्रेतायुगकथा सर्वा गुणेशस्य श्रुता मया ॥ २ ॥


गजाननेति नामास्य द्वापपरे तु कुतोऽभवत् ।
मूषको वाहनं चास्य कथं यातो महाविभो ॥ ३ ॥
कृपया संशयममुं छिन्धि त्वं कमलासन ।
॥ क उवाच ॥
सम्यक्पृष्टं त्वया वत्स मम चित्तगतं मुने ॥ ४ ॥
यतः श्रोता च वक्ता च पृच्छकः सिद्धिमाप्नुयात् ।
तां कथा कथयिष्यामि विनायककृतां मुने ॥ ५ ॥
द्वापरे यत्कृतं तेन चरितं शृणु साम्प्रतम् ।
यथा गजाननो देवो रक्तवर्णश्चतुर्भुजः ॥ ६ ॥
गजाननश्चाखुवाहस्तत्सर्वं कथयामि ते ।
कदाचिद् ब्रह्मभुवनं यातः शम्भुर्यदृच्छया ॥ ७ ॥
उत्थापयामास तदा प्रसुप्तं कमलासनम् ।
स उत्थितो महाजृम्भां चकार क्रोधसंयुतः ॥ ८ ॥
तत एको महाघोरः पुरुषः समपद्यत ।
स च चक्रे महाघोरं शब्दं सर्वभयङ्करम् ॥ ९ ॥
च कम्पे पृथिवी तेन साब्धिद्वीपा सपर्वता ।
दिक्पालाश्चकिताः सर्वे शेषः क्षुब्धोऽसृजद् विषम् ॥ १० ॥
विशीर्णा गिरयः सर्वे भूतान्याकुलतां ययुः ।
कल्पान्त इव तत्रासीत् त्रैलोक्यवासिनां नृणाम् ॥ ११ ॥
ब्रह्माण्डं मस्तकेनासौ स्फोटयन्निव तस्थिवान् ।
यद्देहतश्चारुगन्धो व्यानशे भुवनत्रयम् ॥ १२ ॥
जपाकुसुमदेहस्य प्रभयारुणिता दिशः ।
अयं किं मदनो जातो द्वितीयो ब्रह्मसम्भवः ॥ १३ ॥
कामस्तु लज्जितस्तस्य सद्यो रूपनिरीक्षणात् ।
पुरस्तं सन्निरीक्ष्यैनं विस्मितः कमलासनः ॥ १४ ॥
कस्य त्वं कुत उत्पन्नः किं चिकीर्षसि तद्वद ।
॥ पुरुष उवाच ॥
अनेकानि सुरेश त्वं ब्रह्माण्डानि सृजस्यपि ॥ १५ ॥
विभ्रान्त इव कस्मान्मां सर्वज्ञः सन् हि पृच्छसि ।
जृम्भायास्ते समुत्पन्नं कथं मां नावबुध्यसे ॥ १६ ॥
अनुगृह्णिष्व पुत्रं मा देहि नाम यथामति ।
स्थानं च देहि मे नाथ भक्ष्यं कार्यं च मे वद ॥ १७ ॥
इत्याकर्ण्य वचस्तस्य प्रोवाच चतुराननः ।
रक्तं वपुर्यतस्तेऽस्ति सिन्दुराख्यो भविष्यसि ॥ १८ ॥
सामर्थ्यं च महत् ते स्यात् त्रैलोक्याकर्षणक्षमम् ।
क्रोधादालिङ्गसे यं त्वं शतधा स भविष्यति ॥ १९ ॥
पञ्चभ्योऽपि च भूतेऽभ्यो न भयं ते कदाचन ।
देवदानवयक्षेभ्यो मानुषेभ्यो भयं न ते ॥ २० ॥
इन्द्रादिलोकपालेभ्यः कालादपि भयं न ते ।
न नागेभ्यो न रक्षोभ्यो नाहोरात्रे भयं न ते ॥ २१ ॥
सजीवान्न च निर्जीवाद् भयं सिन्दूर ते भवेत् ।
वस यत्र मनस्ते स्यात् स्थातुं त्रिभुवनेष्वपि ॥ २२ ॥
ततः स वरदानेन तुतोष चतुरास्यजः ।
चक्रन्द कम्पयन् शब्दैस्त्रैलोक्यं सचराचरम् ॥ २३ ॥
चुक्षुभुः सागराः सर्वे लोकपालाश्च दुद्रुवुः ।
उवाच स तदा देवं नमस्कृत्य पितामहम् ॥ २४ ॥
तव वाक्यामृतेनाहं प्रीतो ब्रह्माण्डनायक ।
त्वमेव विश्वं सृजसि पासि हंसि गुणैस्त्रिधा ॥ २५ ॥
त्वयि सुप्ते जगत्सुप्तमन्धकारश्च जायते ।
महत् भाग्यं मम विभो तपोदानव्रतैर्विना ॥ २६ ॥
पुत्रस्नेहात्प्रसन्नस्त्वं नान्यथा ते प्रसन्नता ।
कल्पकोटिततोभिस्त्वं प्रसन्नो जायसे विभो ॥ २७ ॥
॥ क उवाच ॥
इत्युक्त्वा तं प्रणम्यासौ कृत्वापि च प्रदक्षिणम् ।
जगाम मनसा भूमिं मार्गे तर्कमथाकरोत् ॥ २८ ॥
न मे तपो वा ध्यानं वा जपः स्वाध्याय एव च ।
कथं तेन वरा दत्ताः सत्या उत वृथा नु ते ॥ २९ ॥ (मिथ्या उत ऋता नु ते)
गत्वा द्रक्ष्यामि पितरमित्युक्त्वाऽगात् पितामहम् ।
तुलयित्वा तु दोर्दण्डौ जगर्ज स भयानकः ॥ ३० ॥
तमेवालिगितुं चैच्छत् तत ऊचे पितामहः ।
पुत्रस्नेहान्मया दत्ता वरा अन्यस्य दुर्लभाः ॥ ३१ ॥
दुष्टभावान् ममैव त्वमपकर्तुमिहागतः ।
भुजगस्य पयो दत्तं विषमेव हि जायते ॥ ३२ ॥
दुष्टभावं गतो यस्मात् तस्माद्दैत्यो भविष्यसि ।
परमात्माऽवतीर्याशु हनिष्यति गजाननः ॥ ३३ ॥
तवान्तं सुरभि ज्ञात्वा स्वाङ्गे तन्मर्दयिष्यति ।
सिन्दूरारुणदेहश्च सिन्दूरप्रिय एव च ॥ ३४ ॥
भविष्यति स देवोऽपि सिन्दूरवध एव च ।
एवमुक्त्वा पपालाशु भयेन कमलासनः ॥ ३५ ॥
मनोवायुमहावेगो निश्वासश्वाससङ्कुलः ।
दैत्योऽपि पृष्ठतो याति शापमाकर्ण्य मन्युमान् ॥ ३६ ॥
स्वेदेनार्द्रतनुर्दुष्टो दृष्ट्वा दृष्ट्वा पुरो व्रजन् ।
धरिष्यामि पदेऽन्यस्मिन्निति दैत्योऽभ्यधावत ।
वैकुण्ठमगमद् ब्रह्मा कम्पमानस्त्वरान्वितः ॥ ३७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्दूरोत्पत्तिवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥ १२७ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-127

कोई टिप्पणी नहीं:

123