श्रीगणेशपुराणे क्रीडाखण्डे पञ्चविंशोत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे पञ्चविंशोत्तरशततमोऽध्यायः

श्रीगणेशविवाहवर्णनं
॥ क उवाच ॥

सभां संवारयामास चक्रपाणिः पुरो गतः ।
परार्ध्यास्तरणैर्वस्त्रैः पताकाध्वजचामरैः ॥ १ ॥
नानारत्नेषु दीप्तेषु भूमिस्तम्भगतेषु च ।
अनन्तो दृश्यते यत्र सङ्क्रान्तप्रतिमो नरः ॥ २ ॥


ददर्श नगरीं देवो नानाध्वजविराजिताम् ।
प्रासादशिखरारूढाः पश्यन्ति स्माऽसुरस्त्रियः ॥ ३ ॥
ततो मुक्ताः सुरास्ते तं सम्मुखं चक्रपाणिना ।
आयर्युमाधवः शक्रोऽनल ऐलविलोऽपि च ॥ ४ ॥
मरुद् रविः शशी चान्ये वाद्यघोषेण सत्वरम् ।
स्वस्ववाहात् समुत्तीर्य प्रणेमुः सर्व एव तम् ॥ ५ ॥
आलिलिङ्गुर्मयूरेशं देवाः पौराश्च सादरम् ।
माधवश्च मयूरेशं दृष्ट्वा हर्षसमन्वितः ॥ ६ ॥
प्रशशंसुः सिन्धुवधात् सर्वे हर्यादयः सुराः ।
॥ देवा ऊचुः ॥
आक्रान्तं विष्टपं येन स हतः क्षणमात्रतः ॥ ७ ॥
दत्तानि स्वपदान्याशु नेदृग्दृष्टो न वा श्रुतः ।
अत्र ये वैष्णवाः शैवाः शाक्ताः सौराश्च तेऽप्यमुम् ॥ ८ ॥
तत्तद्रूपं निरीक्ष्यैव पुपूजुः परया मुदा ।
मयूरेश जयस्वेति श्रुत्वा वाचः सुविस्मिताः ॥ ९ ॥
बालकाश्च सुसम्पन्ना मुग्धाः प्रौढाश्च योषितः ।
पुपूजुर्मनसा देवं वृद्धाश्च तरुणास्तदा ॥ १० ॥
चक्रपाणिगृहे देवो मध्ये सिंहासने शुभे ।
उपविष्टो मयूरेशो विबुधाश्च समन्ततः ॥ ११ ॥
मुनयश्च गणाः सर्वे सप्तकोटिमिता मुने ।
नुनुवुर्बन्दिनः सर्वै धन्या देवा नृपास्तथा ॥ १२ ॥
ननृतुश्चाप्सरः सङ्घा जगुस्ते नारदादयः ।
चक्रपाणिस्ततः सर्वान् सम्पूज्य विधिवत् तदा ॥ १३ ॥
उवाच च सभामध्ये धन्यं मे जन्म कर्म च ।
इन्द्रादयो लोकपालाः समितौ यस्य मेऽधुना ॥ १४ ॥
शतजन्मार्जितैः पुण्यैर्मयूरेशो निरीक्षितः ।
॥ क उवाच ॥
इन्द्रो दृष्ट्वा मयूरेशं प्रथमं पूजितं रुषा ॥ १५ ॥
अब्रवीत् सहसा भ्रान्तो मायया जगदीशितुः ।
॥ शक्र उवाच ॥
चतुर्मुखोऽपि लक्ष्मीशो जगदुत्पत्तिकारकः ॥ १६ ॥
मूढोऽसि चक्रपाणे त्वमर्भस्य प्रपूजनात् ।
अस्मान् धिक्कृत्य यन्मोहात् पूजितो बालकस्त्वया ॥ १७ ॥
जनकं सर्वलोकानां त्यज्य संहारकारकम् ।
त्रैलोक्यजननीमम्बां सृष्टिस्थित्यन्तकारिणीम् ॥ १८ ॥
रविं त्रैलोक्यनेतारं त्रयीकर्मप्रवर्तकम् ।
हित्वा सम्पूजितो बालो नेदं सम्यक् कृतं त्वया ॥ १९ ॥
॥ क उवाच ॥
एवं वदति देवेन्द्रे चक्रपाणिस्तदाऽब्रवीत् ।
रुद्रात् सूर्यात् कुबेराच्च शक्राच्च मरुतोऽनलात् ॥ २० ॥
दृष्टः पराक्रमोऽतीव सिन्धुदैत्यविनाशनात् ।
मोक्षात् सर्वसुराणाञ्च कारागाराद् गुणेश्वरः ॥ २१ ॥
योवऽतीर्णो भुवो भारं हर्तुं शिवनिवेशने ।
परमात्माऽनन्तशक्तिर्नानादैत्यविभञ्जनः ॥ २२ ॥
॥ क उवाच ॥
एवं वदति तस्मिंस्तु श्रुतः शब्दः सुरैर्महान् ।
मूर्च्छिताः पतिताः केचिद् ब्रह्माण्डस्फोटशङ्कया ॥ २३ ॥
च कम्पे धरणी सर्वा न प्राज्ञायत किञ्चन ।
कोटिसूर्यप्रकाशेन सहसाच्छादितं जगत् ॥ २४ ॥
ततस्तैस्त्रिदशैस्तत्र दृष्टो देवोऽतिसुन्दरः ।
नानालङ्कारसंयुक्तो दशबाहुर्गजाननः ॥ २५ ॥
एवं दृष्ट्वा स्वरूपं ते विस्मितास्त्रिदशास्तदा ।
पुनस्तमेव ददृशुः पञ्चरूपिणमीश्वरम् ॥ २६ ॥
पद्मासनगतं मध्ये वक्रतुण्डं शिवं पुनः ।
आग्नेय्यां नैर्ऋते सूर्यं पार्वतीं मारुतेऽपि च ॥ २७ ॥
नारायणं तथेशान्ये ततो भ्रममिताः सुराः ।
ततस्ते शुश्रुवुर्व्योमवाणीं भ्रमनिवारिकाम् ॥ २८ ॥
आराध्योऽयं सर्वजनैरेको जातः स पञ्चधा ।
अनादिनिधनो देवो जगद्व्यापी गजाननः ॥ २९ ॥
अयमेव सदा पूज्यः सर्वविघ्नविनाशनः ।
देवैर्मनुष्यैर्यक्षैश्च नागै रक्षोभिरेव च ॥ ३० ॥
एतास्मिन् पूजिते पञ्चपूजनं च भविष्यति ।
न बुद्धिभेदं तनुयादेतस्मिन् नरकाय सा ॥ ३१ ॥
॥ क उवाच ॥
श्रुत्वैवं ते मयूरेशं शुण्डादण्डविराजितम् ।
ददृशुर्वज्रिमुख्यास्ते आद्यमोङ्काररूपिणम् ॥ ३२ ॥
ततः प्रबुद्धास्ते देवास्त्यक्त्वा भ्रान्तिस्मयं च तम् ।
पुपूजुर्जयशब्दैस्तं सर्वान्तर्यामिणं विभुम् ॥ ३३ ॥
ततः पुपूजे हर्षेण चक्रपाणिर्गुणेश्वरम् ।
पञ्चामृतैः शुद्धजलैर्दिव्यवस्त्रैश्च भूषणैः ॥ ३४ ॥
पुष्पैर्धूपैश्च दीपैश्च नैवेद्यैर्विविधैरपि ।
फलताम्बूलनिचयैर्दक्षिणाभिरनेकशः ॥ ३५ ॥
नीराजनैर्मन्त्रपुष्पैर्नतिभिः स्तुतिभिस्तदा ।
तथैव पूजयामास भक्त्या सर्वसुरानपि ॥ ३६ ॥
उवाच तान् नृपवरो धन्योऽहं च प्रपूजनात् ।
यतो नैतादृशः क्वापि जातः सर्वसमागमः ॥ ३७ ॥
ततस्तत्राब्रवीत् हृष्टो नारदश्चतुराननम् ।
॥ नारद उवाच ॥
सिद्धिबुद्धि विवाहार्थमाज्ञया तेऽब्जसम्भव ॥ ३८ ॥
शिवं शिवां च विज्ञाप्य निश्चयः प्राङ्मया कृतः ।
मयूरेशाय सम्यक् ते दातव्ये बहुलक्षणे ॥ ३९ ॥
ततः सर्वे सुरा देवं ब्रह्माणं मन्मथातुराः ।
प्रत्येकं ते ह्ययाचन्त मम देहीति सादरम् ॥ ४० ॥
ततो ब्रह्मा तयोर्हस्ते मालां दत्त्वाऽब्रवीदिदम् ।
॥ क उवाच ॥
त्रयस्त्रिंशत्कोटिसुरेष्वेको यो भासते हृदि ॥ ४१ ॥
तमेव वृणुतं देव्यौ मालाभ्यां मत्समक्षतः ।
त्यक्वा सर्वान् सुराँस्ते तु सिद्धिबुद्धी उभे अपि ॥ ४२ ॥
मयूरेशगले माले निक्षिपेतां मुदा तदा ।
विमनस्कास्ततो देवा असृजन् श्वासमारुतम् ॥ ४३ ॥
ताभ्यां जानुगताभ्यां तु शुशुभे स मयूरराट् ।
ब्रह्मा यथाविधि तयोर्विवाहमकरोत् तदा ॥ ४४ ॥
उवाच च सभामध्ये मया लब्धं हृदि स्थितम् ।
न्यवेदयत् तं देवेशं मयूरेशं विधानतः ॥ ४५ ॥
अद्य यावन्मयैते वै पालिते बहुयत्नतः ।
इदानीं ते मया दत्ते रक्षस्व बहुयत्नतः ॥ ४६ ॥
तत इन्द्रादयो देवा मयूरेशं व्यजिज्ञपुः ।
तव प्रसादाद् देवेश मुक्ताः कारागृहात् ततः ॥ ४७ ॥
ततः सिन्धुर्गतो मोक्षं स्वस्थानं कृपया तव ।
यास्यामो देह्यनुज्ञां नो मुनिभिर्गौतमादिभिः ॥ ४८ ॥
॥ क उवाच ॥
ददावाज्ञां मयूरेशो यातुकामान् मुदा तदा ।
पार्वती च स्नुषे चोभे स्वाङ्कमारोप्य सादरम् ॥ ४९ ॥
मयूरेशं च परमं हर्षमाप शिवान्विता ।
ददौ दानान्यनेकानि वासांस्याभरणानि च ॥ ५० ॥
य इदं शृणुयान्मर्त्यो विवाहं च वधं (वयं) शुभम् ।
सिन्धोर्जय गणेशस्य सर्वकामाल्लँभेन्नरः ॥ ५१ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे श्रीगणेशविवाहवर्णनं नाम पञ्चविंशोत्तरशततमोऽध्यायः ॥ १२५ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-125

कोई टिप्पणी नहीं:

123