श्रीगणेशपुराणे क्रीडाखण्डे एकविंशोत्तरशततमोऽध्यायः
युध्दवर्णनं
॥ क उवाच ॥
वीरभद्रादिभिर्वीरैः सुखासीनं गणेश्वरम् ।
आययुर्वेगतो देवा भीताः श्वासमाकुलाः ॥ १ ॥
न्यवेदयन्त वृत्तान्तं स्वयं सिन्धुः समागतः ।
मेनिरे ते पुनः प्राप्तं कालं संहर्त्तुमात्मनः ॥ २ ॥
॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॥ ३ ॥
ततो हर्षान्मयूरेशो रुरोह शिखिनं तदा ।
आयुधानि च चत्वारि प्रगृह्य च जगर्ज च ॥ ४ ॥
नमस्कृत्य शिवं वेगाद् ययौ स द्योतयन् दिशः ।
तदाशीः कवचो वीरसहितो वाहिनीयुतः ॥ ५ ॥
यावत् स पुरतो याति सिन्धुं हन्तुं समुद्यतः ।
तावत् षडाननः प्राह यामि युद्धाय विघ्नराट् ॥ ६ ॥
तिष्ठत्सु बहुवीरेषु कथं युद्धाय यास्यसि ।
पौरुषं पश्य सर्वषां तस्मिन् क्षीणे रणं कुरु ॥ ७ ॥
एवमुक्त्वा नमस्कृत्य ययौ युद्धाय षण्मुखः ।
चतुरङ्गबलं गृह्य सिन्धुसेनामथाऽवधीत् ॥ ८ ॥
सोऽपि तां न्यहनत् सेनां नानाशस्त्रैः शरव्रजैः ।
सहस्व प्रहरस्वाद्य हन्मि सम्मुखतां व्रज ॥ ९ ॥
एवं कोलहलोऽप्यासीद् वीराणां तत्र युद्ध्यताम् ।
पेतुर्वीराः शस्त्रहताः शरजालगतासवः ॥ १० ॥
छिन्नाङ्गा भिन्नपादाश्च छिन्नबाहूरुमस्तकाः ।
असिभिर्भिण्दिपालैश्च कुन्तैर्मुद्गरसञ्चयैः ॥ ११ ॥
मारयन्तः स्थिरा वीरास्तान् परान् युद्धदुर्मदान् ।
कोलाहलो महानासीत् क्ष्वेडितैर्हेषितैरपि ॥ १२ ॥
वाद्यध्वनिप्रतिध्वानैर्बृंहितै रथनेमिभिः ।
असम्बद्धमभूद् युद्धं सेनयोरुभयोरपि ॥ १३ ॥
यथाप्रतिज्ञं वीरास्ते निजघ्नुर्मस्तकं मुखम् ।
नेत्रे बाहूदरं नाभिं पादौ गुल्फौ च जानुनी ॥ १४ ॥
कोऽपि हस्तेन पादेन कोऽपि खड्गेन नाशयन् ।
असिना केऽप्यरिगणानन्धकारे महत्यपि ॥ १५ ॥
अस्तं याते दिनकरे दृष्ट्वा पृष्ट्वा निजघ्निरे ।
देवान् ज्ञात्वाऽसुरा जघ्नुरितरानितरेऽपि च ॥ १६ ॥
असृक्प्रवाहस्तत्रासीत्प प्रधने तुमुले तदा ।
वहन् प्रेतानिषज्जीवान् हुङ्कारेण च तान् परे ॥ १७ ॥
बलान् निष्काशयामासुर्विशल्यांश्चक्रिरे यथा ।
इतो न सेने पञ्चाहविरामं युद्धलम्पटे ॥ १८ ॥
एवं पदाताः सिन्धोस्ते कोटिशोऽथ हताः सुरैः ।
ततोऽगात् तद्गजानीकमसङ्ख्यं शस्त्रसंयुतम् ॥ १९ ॥
धिष्ठितं सादिभिर्वीरेर्नानायुद्धविशारदैः ।
वीरभद्रादयो जघ्नुर्गजसेनां दुरत्ययाम् ॥ २० ॥
केषाञ्चिन्मस्तका भिन्नाः केषाचिच्च करा द्विजाः ।
अग्निशस्त्रधरैः केचित् पातिता वीरसंयुताः ॥ २१ ॥
वीरभद्रोऽतिवीर्येण गजेनैवाहनद् गजम् ।
पेततुरष्टधा भिन्नावुभावपि तदा गजौ ॥ २२ ॥
ततः षडाननो निघ्नन् गजानीके व्यरोचत ।
वीरैस्तु सहितान् मत्ताननन्तान् करिसञ्चयान् ॥ २३ ॥
शक्त्या शरैरनेकैः सोऽनाशयत् षड्धनुश्च्युतैः ।
हिरण्यगर्भोऽनेकवीरयुतांस्तानप्यपातयत् ॥ २४ ॥
भूतराजोऽपि शस्त्रैस्तान् गजान् नानाविधान् रणे ।
न्यपातयद् वीरयुक्तान् नाराचक्षतजीवितान् ॥ २५ ॥
सिंहो भूत्वा पुष्पदन्तो दारयामास तान् गजान् ।
नन्दी तु गजरूपेण बभञ्ज तान् गहान् बहून् ॥ २६ ॥
अन्यैश्च शरसङ्घातैः सर्वे ते विनिपातिताः ।
कञ्चित् पुच्छे गृहित्वेभं भ्रामयित्वा परेऽक्षिपत् ॥ २७ ॥
उभावपि लयं यातौ दृढाघातेन चूर्णितौ ।
ततोऽश्वचारा युयुधुर्गजानीके निवारिते ॥ २८ ॥
असङ्ख्यातान् निजघ्नुस्तान् सुरान् नानायुधै रणे ।
पतिता मूर्च्छिता देवाः पुनः संज्ञां च लेभिरे ॥ २९ ॥
ततो विव्यधुरश्वस्थान् वीरानश्वानथो रुषा ।
क्रोधेन देवान् घ्नन्ति स्म हयारूढा महासुराः ॥ ३० ॥
सुरांस्तान् निन्युरन्तं ते शस्त्रास्त्रशरवृष्टिभिः ।
षड्वीराः पुनरायाताः श्रुत्वा देवान् हतान् युधि ॥ ३१ ॥
ततस्ते पुनराजघ्नुर्दैते यानश्वसादिनः ।
चत्वारस्ते चतुर्दिक्षु प्रायुध्यन् बलवत्तरम् ॥ ३२ ॥
ररक्षतुरुभौ सैन्यं स्वीयं देवगणैर्युतम् ।
मारयामासुरश्वांस्तानश्वस्थान् वीरसंयुतान् ॥ ३३ ॥
अयुध्यन् पादचारेण निघ्नन्तोऽरिगणान् बहून् ।
कोटिकोटिमितास्तत्र पेतुस्ते तु शरार्दिताः ॥ ३४ ॥
नन्दी भृङ्गी हतानश्वान् पतितान् वीक्ष्य सादिनः ।
पादाघातेन तेनाशु पातयन् नन्दिकेश्वरः ॥ ३५ ॥
वीरभद्रोऽप्यसङ्ख्यातान् अश्वयोधान् न्यपातयत् ।
हतेषु मुख्यवीरेषु चतुर्भिः सर्वतो दिशम् ॥ ३६ ॥
कल्पान्त इव तत्रासीद् दैत्यानां रणकर्मणाम् ।
ततः केचित् सुरगणान् पेदिरे शरणं तदा ॥ ३७ ॥
हाहाकारो महानासीद् दैत्यसैन्याश्वसादिषु ।
एवं हत्वाऽखिलां सेनां षड्वीरास्ते मुदं ययु ॥ ३८ ॥
वाद्यत्सु सर्ववाद्येषु जगर्जुस्तुष्टुवुर्विभुम् ।
जयः प्राप्तो मयूरेशप्रभावात् स्मरणान्नतेः ॥ ३९ ॥
ततः सिन्धुः समाकर्ण्य शरणागतवाक्यतः ।
वृत्तान्तं हतसेनाया हस्त्यश्वरथ संयुतः ॥ ४० ॥
अमात्यान् सर्ववीरांश्च प्रोवाच युद्धलालसः ।
॥ सिन्धुरुवाच ॥
ये ये गच्छन्ति योद्धारस्तान् शृणोमि हतान् परैः ॥ ४१ ॥
इदानीं यामि तं हन्तुं गुणेशं च स्वयं बलात् ।
॥ क उवाच ॥
इत्युक्त्वा क्ष्वेडितेनासौ गगनं च दिशो दश ॥ ४२ ॥
नादयामास त्रींल्लोकान् ग्रसन्भूस्वर्गमण्डलम् ।
योजयित्वाऽक्षिपत् बाणमाकर्णकर्षणाज्जवात् ॥ ४३ ॥
सेनायां वीरभद्रादिपालितायां महाबलैः ।
निरीक्ष्य सर्ववीरान् स बाणं धनुषि सन्दधे ॥ ४४ ॥
अस्त्रमन्त्रेण सहसा शतजप्तेन दैत्यराट् ।
कृपीटयोनिः सहसा तस्माज्जातो ददाह ताम् ॥ ४५ ॥
देवसेनां च पृथिवीं सवनां च सपर्वताम् ।
ततोऽपश्यन् सैनिकास्ते दह्यमानान् कृशानुना ॥ ४६ ॥
पुरुषं वह्निसम्भूतं जटिलं दीप्ततेजसम् ।
विद्युज्जिह्वं करालास्यं गिलन्तं देवसैनिकान् ॥ ४७ ॥
षडाननादयो भीता दुद्रुवुस्ते दिशो दश ।
यं यं स भक्षति स्माजौ स स प्राप स्मरन् मुदा ॥ ४८ ॥
निजधाम मयूरेशमेव मत्ताऽखिला चमूः ।
यतो यतो याति सेना ततस्तद् वक्त्रसम्भवः ॥ ४९ ॥
तनूनपाद् दहत्येनां प्रलयाग्निरिव ज्वलन् ।
एवं सा वह्निना दग्धा मयूरेशस्य वाहिनी ॥ ५० ॥
धूमान्धकारे महति न प्राज्ञायत किञ्चन ।
ततः सर्वे मयूरेशपृष्ठभागं समाश्रिताः ॥ ५१ ॥
त्राहि त्राहीति जल्पन्तो दग्धास्ते जातवेदसा ।
अनिवार्यं महास्त्रं तद्दृष्ट्वा देवो मयूरराट् ॥ ५२ ॥
निस्तेजाश्चिन्तयामास भीतो लोके लघुत्वतः ।
शिवः प्रसादं चेत् कुर्यात् तदैवात्र जयो भवेत् ॥ ५३ ॥
इत्युक्त्वा परशुं गृह्य मन्त्रयित्वाऽक्षिपन् बलात् ।
महसा जितसूर्यः स गर्जयन् गगनं दिशः ॥ ५४ ॥
यातो दहन्वैरिसेनां जगत् कल्पानलो यथा ।
तस्मादपि महानेकः पुरुषः समजायत ॥ ५५ ॥
यस्यास्ये सर्वभूगोलः किन्नु मास्यति साम्बरः ।
पुरुषः पुरुषेणासावस्त्रमस्त्रेण वै तदा ॥ ५६ ॥
अयुध्यतां ततो जग्मुर्द्रष्टुं देवर्षयस्तदा ।
दैत्यास्त्रं भक्षितं तेन कृतान्तास्त्रेण सत्वरम् ॥ ५७ ॥
ययौ सेनां च निर्दग्धुं ज्वालामालिव हव्यभुक् ।
दैत्यराजोऽपि तं दृष्ट्वा बाणवृष्टिमवासृजत् ॥ ५८ ॥
एकस्मान् मन्त्रिताद् बाणादनन्ता निःसृताः शराः ।
देवसेनाचरास्तेषु निमग्ना वेगशालिनः ॥ ५९ ॥
मयूरेशः क्रोधवशान् नानाऽस्त्राणि तदाऽसृजत् ।
तैरस्त्रैर्दैत्यराजस्य निरस्यास्त्राणि सर्वशः ॥ ६० ॥
अभक्षयद् दैत्यसेनां स कालपुरुषः पुनः ।
यतो यतः पलायन्तेऽसुरास्तत्र च याति सः ॥ ६१ ॥
चिन्ताक्रान्तस्ततो दैत्यः कर्तव्यं नाभ्यपद्यत ।
किं कर्तव्यं क्व गन्तव्यं क्व न स्थेयमचिन्तयत् ॥ ६२ ॥
अस्तं याते दिनकरे स्वधाम प्रत्यपद्यत ।
गच्छन् स्खलन् पतन्भूमौ नष्टकुण्डलभूषणः ॥ ६३ ॥
नगरं प्राविशदसौ ततः शम्भुरिवापरः ।
गुप्त एवावसत् क्वापि स्त्रीणां चैवानुजीविनाम् ॥ ६४ ॥
जगर्ज सगणो देवो ज्ञात्वा तद्वृत्तमाशु सः ।
तेन नादेन सहसा नादितं भुवनत्रयम् ॥ ६५ ॥
सञ्जहार कृतान्तास्त्रं मन्त्रविद्भुजगं यथा ।
स्वनिवेशं जगामाशु मयूरेशो गणैर्वृताः ॥ ६६ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे युध्दवर्णनं नामैकविंशोत्तरशततमोऽध्यायः ॥ १२१ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें