श्रीगणेशपुराणे क्रीडाखण्डे त्रयोदशाधिकशततमोऽध्यायः
मित्रकौस्तुभवध
॥ क उवाच ॥
पदातयः पुरो यान्ति कम्पयन्तो वसुन्धराम् ।
विकरालमुखा वीराः सिन्दूरारुणमस्तकाः ॥ १ ॥
केचिन्निबद्धकवचा मुक्तकेशाः सुदारुणाः ।
केचिन्निबद्धकटयः केचिच्चन्दनचर्चिताः ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे त्रयोदशाधिकशततमोऽध्यायः
मित्रकौस्तुभवध
॥ क उवाच ॥
पदातयः पुरो यान्ति कम्पयन्तो वसुन्धराम् ।
विकरालमुखा वीराः सिन्दूरारुणमस्तकाः ॥ १ ॥
केचिन्निबद्धकवचा मुक्तकेशाः सुदारुणाः ।
केचिन्निबद्धकटयः केचिच्चन्दनचर्चिताः ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे द्वादशाधिकशततमोऽध्यायः
मयूरेशस्य युद्धाय निश्चयः
॥ क उवाच ॥
शिखण्डिनं समारुह्य मयूरेशः परे दिने ।
आयुधानि च चत्वारि प्रगृह्य करपङ्कजे ॥ १ ॥
जगर्ज घनवद् घोरं ययौ रणचिकीर्षया ।
शिवोऽपि गर्जन् सहसा वृषारूढो ययौ तदा ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे
एकादशाधिकशततमोऽध्यायः
विचारवर्णनं
॥ क उवाच ॥
प्रायात्सभां महारम्यां द्वारपालनिवेदितः ।
नन्दी ननन्द तं दृष्ट्वा दैत्यं सिन्धु सभागतम् ॥ १ ॥
महावीरैः परिवृतं नानाशस्त्रेषु पाणिभिः ।
वाराङ्गनानृत्यरतं वीज्यमानं नृभिर्मुदा ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे
दशाधिकशततमोऽध्यायः
दूतप्रेषणं
॥ क उवाच ॥
जयशाली मयूरेशो यात्यग्रे हर्षनिर्भरः ।
पृष्ठतो यान्ति बालास्ते ततो वृषगतः शिवः ॥ १ ॥
गौतमाद्या मुनिगणा लग्नसिद्ध्यै ययुस्ततः ।
गर्जन्तो गर्जयन्तश्च दिशश्च विदिशोऽपि च ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे
नवाधिकशततमोऽध्यायः
राक्षसवध
॥ क उवाच ॥
कदाचित् पार्वती प्राह सुखासीनं महेश्वरम् ।
गतानि तु महादेव वर्षाणि दशपञ्च च ॥ १ ॥
विवाहश्चिन्त्यतामस्य मयूरेशस्य साम्प्रतम् ।
सुशीला सुमुखी बाला मृगाक्षी हंसगामिनी ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे
अष्टाधिकशततमोऽध्यायः
रविजगर्वपरिहारो
॥ क उवाच ॥
ततः पञ्चदशे वर्षे मयूरेशोऽर्भकैः सह ।
गतः स्नातुं नदीं पुण्यां नाम्ना ब्रह्मकमण्डलुम् ॥ १ ॥
स्नात्वा नित्यं समाप्याशु मानसैः षोडशैः पृथक् ।
उपचारैः पुपूजस्ते हृदिस्थं गणनायकम् ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे सप्ताधिकशततमोऽध्यायः
इन्द्रमखभङ्ग
॥ क उवाच ॥
ततश्चतुर्दशे वर्षे गौतमाद्याः सुरर्षयः ।
आययुर्गिरिजागेहं नानागणयुतं शिवम् ॥ १ ॥
नमस्कृत्य च तानम्बा नानासनगतान् पुरः ।
पूजयित्वा विधानेन प्रोवाच हृद्गतं वचः ॥ २ ॥