श्रीगणेशपुराणे क्रीडाखण्डे नवाधिकशततमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे नवाधिकशततमोऽध्यायः
राक्षसवध

॥ क उवाच ॥

कदाचित् पार्वती प्राह सुखासीनं महेश्वरम् ।
गतानि तु महादेव वर्षाणि दशपञ्च च ॥ १ ॥
विवाहश्चिन्त्यतामस्य मयूरेशस्य साम्प्रतम् ।
सुशीला सुमुखी बाला मृगाक्षी हंसगामिनी ॥ २ ॥


पिकवाक् सुनसा तन्वी वधूः क्वापि विचार्यताम् ।
मन्मथातुलदेहस्य सर्वाङ्गसुन्दरस्य ह ॥ ३ ॥
॥ क उवाच ॥
इति तद्वचनं श्रुत्वा साधु साध्वित्यभाषत ।
सोऽचिन्तयच्छुभां कन्यां मनसा नाप कुत्रचित् ॥ ४ ॥
ततश्चिन्तां परां प्राप तावन्नारद आगतः ।
सम्पूज्य चोपवेश्यैनमासने शम्भुरब्रवीत् ॥ ५ ॥
॥ शम्भुरुवाच ॥
आह्लादं परमं प्राप्तस्तवागमनतो मुने ।
चिरागतोऽसि च मुने दिनं स्थातुं त्वमर्हसि ॥ ६ ॥
अतिसुन्दरकायस्य तनयस्य ममानघ ।
गवेषय वधूं विप्र यतस्त्रैलोक्यगो भवान् ॥ ७ ॥
॥ क उवाच ॥
तथैव पार्वती प्राह वधूं शीघ्रं विचारय ।
॥ नारद उवाच ॥
न स्थातुं शक्यते स्वामिन् कर्मणा द्विमुहूर्तकम् ॥ ८ ॥
एतदर्थमहं प्राप्तो ब्रह्मणा प्रेषितः शिव ।
तव पुत्रप्रभावश्च लावण्यं वय एव च ॥ ९ ॥
ज्ञातं धात्रा सिद्धिबुद्धी तस्मै दातुमभीप्सता ।
अनसूया शची चापि तयो रूपेण लज्जिते ॥ १० ॥
संज्ञाऽभूद् दण्डकारण्ये शिलाऽहल्यापि सा ह्यभूत् ।
जालन्धरस्य या पत्नी वृन्दा माधवमोहिनी ॥ ११ ॥
सापि वृक्षत्वमापन्ना यद्रूपदर्शनाद् हर ।
अन्ये नानावरा गौरि नागता ब्रह्मणो हृदि ॥ १२ ॥
नैतादृशं क्वापि देवि सौन्दर्यं शौर्यमेव च ।
तयोर्योगेन च तव सुतः शोभामवाप्नुयात् ॥ १३ ॥
रत्नकाञ्चनयोर्यद्वद्यथा मुक्ताप्रवालयोः ।
॥ क उवाच ॥
एवं नारदवाक्येन स तुतोष हरः शिवा ॥ १४ ॥
॥ शिव उवाच ॥
सम्यगुक्तं मुने वाक्यं वाञ्छितार्थकरं शुभम् ।
॥ क उवाच ॥
शिवोऽपि तत्क्षणादेव वृषारूढः समाह्वयत् ॥ १५ ॥
इन्द्रादीदेवनिचयान् गौतमादीन् मुनीनपि ।
अर्धाङ्गे पार्वतीं गृह्य ययौ हर्षसमन्वितः ॥ १६ ॥
शिखण्डिनं समारुह्य मयूरेशः पुरो ययौ ।
नारदस्तु तपोयोगादन्तरिक्षचरो ययौ ॥ १७ ॥
सप्तकोटिगणाः क्रीडां कुर्वन्तोऽभिययुस्तदा ।
नानायुधधरा हर्षाद् गर्जयन्तो दिशोदश ॥ १८ ॥
वाद्यत्सु सर्ववाद्येषु रजसाच्छादिते रवौ ।
अष्टाशीतिसहस्राणि मुनयोऽपि ययुर्मुदा ॥ १९ ॥
गण्डकीनगरं सर्वं गन्तुकामा व्यलोकयन् ।
गुल्मं मार्गे रक्षसां ते सप्तकोटि गणान्वितम् ॥ २० ॥
नभस्पर्शिमुखानां च सर्वदा कालधिक्कृताम् ।
निशाचराः शुश्रुवुस्ते सेनायास्तु रवं दृढम् ॥ २१ ॥
सुप्तोत्थिताश्च सन्नद्धा ययू रणविधित्सया ।
॥ राक्षसा ऊचुः ॥
कस्य यूयं कुतो याथ कृत आगमनं च वः ॥ २२ ॥
न विज्ञाय पुरे गन्तुं दास्यामः स्वामिनश्च नः ।
॥ मयूरेश उवाच ॥
स्वतन्त्रा अन्तका दैत्यरक्षसां साधुपालकाः ॥ २३ ॥
अत्तो यच्छन्तु नो मार्गं नो चेन्नाशं व्रजिष्यथ ।
॥ क उवाच ॥
एतस्मिन्नन्तरे प्राप्तो विकृतो हेमनामकः ॥ २४ ॥
असुरोऽथाब्रवीद् देवमेकाकी प्रहितः पुरा ।
इदानीं राक्षसैः सार्द्धमादास्ये जीवितं तव ॥ २५ ॥
उवाच राक्षसान् सोऽथ नानादैत्या हता बलात् ।
अहं च विकृतोऽनेन यतोऽहं हन्यते जवात् ॥ २६ ॥
॥ क उवाच ॥
इति तद्वचनं श्रुत्वा चुक्रोध स मयूरराट् ।
मुनिपुत्रान् समाज्ञाप्य युध्यध्वं मे ह्यनुग्रहात् ॥ २७ ॥
कुशानुद्यम्य ते हर्षात् युद्धं कर्तुं समुद्यताः ।
उवाच पृष्ठतो देवो घ्नन्तु बालाः कुशैरिमान् ॥ २८ ॥
मन्त्रितास्ते कुशास्तेषां मस्तकानच्छिनन् बहून् ।
तेषां शस्त्राणि कुण्ठानि जातानि तदनुग्रहात् ॥ २९ ॥
जायन्ते तावदेते तान् कुशैर्जघ्नुस्तु राक्षसान् ।
खण्डशस्ते निपेतुर्वै छिन्नबाहूरुजानवः ॥ ३० ॥
व्यस्मयन्त च रक्षांसि तृणैर्मृत्युं व्रजन्ति किम् ।
एवं सर्वे हता बालैरखिला राक्षसास्तदा ॥ ३१ ॥
जगर्जुस्ते मयूरेशं प्रापुर्नत्वाऽप्यपूजयन् ।
॥ बाला ऊचुः ॥
आज्ञया निहताः सर्वे राक्षसास्त्वत्प्रसादतः ।
पुनराज्ञां नः प्रयच्छ करिष्यामो गुणेश्वर ॥ ३२ ॥
आश्चर्यं परमं जग्मुर्मुनयो ये समागताः ।
दृष्ट्वा बालैर्हतान्त्सर्वान् राक्षसान् कुशसञ्चयैः ॥ ३३ ॥
पार्वती वृषभात् तस्मादवरुह्यालिलिङ्ग तम् ।
शिवोऽपि प्राब्रवीद् देवं दृष्टस्तेऽद्य पराक्रमः ॥ ३४ ॥
तव शस्त्रहताः पूर्वं निहता बालकैः कुशैः ।
ब्रह्मादीनामगम्यस्ते प्रभावो गिरिजासुत ॥ ३५ ॥
न ज्ञायते मया वापि किं किमग्रे करिष्यसि ॥ ३६ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे राक्षसवधो नाम नवाधिकशततमोऽध्यायः ॥ १०९ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-109


कोई टिप्पणी नहीं:

123