श्रीगणेशपुराणे क्रीडाखण्डे त्रयोदशाधिकशततमोऽध्यायः
मित्रकौस्तुभवध
॥ क उवाच ॥
पदातयः पुरो यान्ति कम्पयन्तो वसुन्धराम् ।
विकरालमुखा वीराः सिन्दूरारुणमस्तकाः ॥ १ ॥
केचिन्निबद्धकवचा मुक्तकेशाः सुदारुणाः ।
केचिन्निबद्धकटयः केचिच्चन्दनचर्चिताः ॥ २ ॥
नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ।
पुरो यान्ति गजा मत्ता धातुचित्रा इवादयः ॥ ३ ॥
दीर्घदन्ता विभान्ति स्म भूषणैर्विविधैरपि ।
घण्टानादैर्जनं सर्वं बधिरं चक्रुरञ्जसा ॥ ४ ॥
चूर्णयन्तो गिरीन् वृक्षान् ययुः शुण्डाप्रहारतः ।
लसत्कुम्भाः पताकाढ्याश्चित्रध्वजविराजिताः ॥ ५ ॥
ततोऽश्वाश्च खुराघातैश्चूर्णयन्तो वसुन्धराम् ।
हेषितैर्नादयन्तो वै गगनं च दिशो दश ॥ ६ ॥
सुवर्णरत्नमुक्ताभिर्भूषिता व्योमचारिणः ।
अधिष्ठिता महायोधैस्तनुत्राणप्रशोभिभिः ॥ ७ ॥
नानाशस्त्रधरैर्वीरैः परसेनाविमर्दिभिः ।
ततस्तु रथिनो जग्मुः शस्त्रास्त्रै रिपुघातिनः ॥ ८ ॥
सहिता युद्धमार्गज्ञैर्वरैः सारथिभिर्मृधे ।
मुक्तामणिमया माला वहन्तो गन्धमालिनः ॥ ९ ॥
धनुस्कन्धास्तूणभृतो भल्लहस्ताः सखङ्गकाः ।
शस्त्रप्रभाभिर्नेत्राणि छादयन्तो जनस्य हि ॥ १० ॥
................................................... ॥ ११-१२ ॥
एवं सेना समायाता गर्जयन्ती दिशो दश ।
भूतराजेन सा दृष्टा पुष्पदन्तेन वाहिनी ॥ १३ ॥
मयूरेशमुभौ यातौ ततो भीत्या पलायितौ ।
॥ ता वूचतुः ॥
तवाज्ञया पुरो यातावावाभ्यां निहता चमूः ॥ १४ ॥
गुल्मस्था नगरद्वारि दग्धं च नगरं बहु ।
प्रतापं नौ समाकर्ण्य सिन्धुः स्वयमुपागतः ॥ १५ ॥
चतुरङ्गा चमूं गृह्य नानाशस्त्रास्रधारिणीम् ।
ततो भीत्या भवन्तं च समायातौ महाबल ॥ १६ ॥
॥ क उवाच ॥
सिन्धुसैन्यसमुद्रोऽथ वदतोरेवमेतयोः ।
ददृशे पूर्वदिग्भागे दुस्तरः शस्त्रयोधिभिः ॥ १७ ॥
ततो हर्षयुतो ज्ञात्वा दैत्यवृत्तं समासतः ।
नीलकण्ठं समारुह्य मयूरेशो ययौ पुरः ॥ १८ ॥
आयुधानि च चत्वारि चतुर्दोषु प्रगृह्य सः ।
सन्नद्धा गणकोट्यस्ता धनुर्बाणासिपाणयः ॥ १९ ॥
परिवार्य स्थिता देवं नीलकण्ठं वृषस्थितम् ।
मुनीश्वराः स्तुवन्ति स्म ददुराशीर्वचोऽपि तम् ॥ २० ॥
उभयोः सेनयोर्वाद्यघोषकोलाहलो महान् ।
परस्परं सम्पदं तां वीक्ष्यसेने सुविस्मिते ॥ २१ ॥
असङ्ख्यात बलं वीक्ष्य तुतोष स मयूरराट् ।
यदुक्तं नन्दिना पूर्वं तदृष्टं सर्वमेव हि ॥ २२ ॥
ततो नन्दी मयूरेशं नत्वा गर्जन् मुहुर्ययौ ।
नभोमार्गेण सैन्येषु चिच्छेद वीरमस्तकान् ॥ २३ ॥
शृङ्गाघातेन महता हयमस्याहनद् दृढम् ।
शीघ्रमुड्डीय च ययौ मयूरेशं यथाऽक्षतः ॥ २४ ॥
आश्चर्यं चक्रिरे सर्वे गणाः साध्विति शंसिरे ।
छत्रं च पातयामास नन्दी शृङ्गप्रहारतः ॥ २५ ॥
पतितेऽश्वे च छत्रे च सिन्धुरश्वान्तरे गतः ।
धारयामास च तदा छत्रमन्यन् महाधनम् ॥ २६ ॥
आश्चर्यं परमं मेने नन्दिनः कर्मणाऽसुरः ।
चुक्रोध स महावीरान् क्व गतो वः पराक्रमः ॥ २७ ॥
एवमाकर्ण्य तद्वाक्यं कौस्तुभो मैत्र एव च ।
अमात्यौ तं नमस्कृत्य सेनया चतुरङ्गया ॥ २८ ॥
मा चिन्तां करु सिन्धो त्वं विधास्यावो रिपुक्षयम् ।
अन्यथा न मुखं नाथ दर्शयावः कथञ्चन ॥ २९ ॥
एवमुक्त्वा प्रचलितौ परसैन्यनिबर्हणौ ।
पदातीनां गणा याता ब्रह्माण्डास्फोटतत्पराः ॥ ३० ॥
न्युब्जतामिच्छवो नेतुं भूगोलं रणदुर्मदाः ।
कौस्तुभोऽथ मयूरेशं यातो मैत्रश्च पातितुम् ॥ ३१ ॥
शरवर्षैः परिच्छाद्य यातावस्यान्तिकं यदा ।
वीरभद्रस्तदा यातो योद्धुं स च षडाननः ॥ ३२ ॥
असङ्ख्य सेनया युक्तौ गर्जयन्तौ दिशो दश ।
निजघ्नतुरुभौ रोषात् सिन्धुं नानाप्रहारतः ॥ ३३ ॥
कौस्तुभोप्यथ मैत्रश्च जघ्नतुस्तौ परस्परम् ।
सहस्व मारयस्वेति व्याहरन्तः परस्परम् ॥ ३४ ॥
शस्त्रैरस्त्रैरनेकैश्च ताभ्यां युद्धमकुर्वताम् ।
शरव्रातैर्भिभिण्डिपालैः परिघैर्मुसलैरपि ॥ ३५ ॥
नानासेनाचरा जघ्नुः परस्परवधेप्सवः ।
नष्टेषु सर्वशस्त्रेषु शरेषु च परस्परम् ॥ ३६ ॥
मल्लयुद्धं प्रचक्रुस्ते जीवग्राहममारयन् ।
व्यसवः पतिताः केचिद् केचिद् रक्तं मुखाद् बहु ॥ ३७ ॥
पादं पादेन जघ्नुस्ते स्कन्धं स्कन्धेन चापरे ।
पृष्ठं पृष्ठेन केचिच्च हस्तं हस्तेन चापरे ॥ ३८ ॥
मस्तकं मस्तकेनैव कूर्परं कूर्परेण च ।
पतिताः पात्यमानश्च मृता भग्नाश्च चूर्णिताः ॥ ३९ ॥
छिन्नकण्ठा भिन्नभुजा भग्नजड़घोरुबाहवः ।
एवं नष्टेषु सैन्येषु सिन्धुसेना जयं ययौ ॥ ४० ॥
जयशब्दैः स्तूयमानैर्बन्दिभिर्वाद्यनिस्वनैः ।
सिन्धुदैत्येश्वरं यातौ अमात्यौ मित्रकोस्तुभौ ॥ ४१ ॥
मयूरेशं समायातौ वीरभद्रषडाननौ ।
ततोऽस्तमगमत् सूर्यस्ततो युद्धमुपारमत् ॥ ४२ ॥
अपरेऽह्नि न्यध्यन्त देवसैन्येन दानवाः ।
पलायमानां तां सेनां निजघ्नुः शरसञ्चयैः ॥ ४३ ॥
पुनरावेशमापन्नौ वीरभद्रषडाननौ ।
गर्जन्तौ गर्जयन्तौ च गगनं च दिशो दश ॥ ४४ ॥
निघ्नन्तौ रिपुसेनां तां निदर्हन्तौ कृतान्तवत् ।
अन्धकारे महाघोरे न प्राज्ञायत किञ्चन ॥ ४५ ॥
स्वान् परानपि जघ्नुस्ते युध्यमाना महाबलाः ।
भग्नायां सिन्धुसेनायां चक्रतुर्जयनिस्वनम् ॥ ४६ ॥
दैत्यामात्यौ पुनर्यातौ मरणे कृतनिश्चयौ ।
प्रेरयामासतुरुभौ निजाश्वौ परवाहिनीम् ॥ ४७ ॥
किरन्तौ शरजालानि जघ्नतुः करवालतः ।
ततः षडाननो दृष्ट्वा तयोरतिपराक्रमम् ॥ ४८ ॥
मुष्टिघातेन तौ हत्वा निजसेनामगाज्जवात् ।
मैत्रस्तु भूमिमगमद् वमन रक्तं मुखाद् बहु ॥ ४९ ॥
तथाविधं च तं दृष्ट्वा कौस्तुभो योद्धुमागतः ।
षडाननमथो रोषान्निजघ्ने करवालतः ॥ ५० ॥
तस्मिन् मूर्च्छामवाप्ते तु वीरभद्रोऽप्ययुध्यत ।
कौस्तुभः प्राहनद् रोषाच्छराघातैरनेकशः ॥ ५१ ॥
सोऽपि तं प्राहनन्मुष्टया भूमौ चैनमघातयत् ।
हते तस्मिन्ननन्दासौ वीरभद्रो महाबलः ॥ ५२ ॥
पपाल दैत्यसेना सा हते मित्रे च कौस्तुभे ।
तमुदन्तं शस्त्रहताः स्रवन्तो रुधिरं बहु ॥ ५३ ॥
न्यवेदयन् दैत्यराजसिन्धवे देवशत्रवे ।
वाचा विस्पष्टया दुःखाच्छस्राघातकृताद् भृशम् ।
जयमाकाङ्क्षते नित्यं मित्रकौस्तुभयोर्भृशम् ॥ ५४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे मित्रकौस्तुभवधो नाम
त्रयोदशाधिकशततमोऽध्यायः ॥ ११३ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें