श्रीगणेशपुराणे क्रीडाखण्डे सप्ताधिकशततमोऽध्यायः
इन्द्रमखभङ्ग
॥ क उवाच ॥
ततश्चतुर्दशे वर्षे गौतमाद्याः सुरर्षयः ।
आययुर्गिरिजागेहं नानागणयुतं शिवम् ॥ १ ॥
नमस्कृत्य च तानम्बा नानासनगतान् पुरः ।
पूजयित्वा विधानेन प्रोवाच हृद्गतं वचः ॥ २ ॥
विघ्नभीत्या परित्यक्तं त्रिसन्ध्याक्षेत्रमुत्तमम् ।
अस्य बालस्य मे विघ्ना अत्रापि बहवोऽभवन् ॥ ३ ॥
दिशन्तु विघ्नरहितं कर्म वा स्थानमुत्तमम् ।
॥ मुनयः ऊचुः ॥
इन्द्रयागे कृते देवि सर्वविघ्नं हरिष्यति ॥ ४ ॥
॥ क उवाच ॥
तदेव कारयामास मण्डपं बहुविस्तरम् ।
सम्भारान् कारयामास शक्रसन्तोषकारकान् ॥ ५ ॥
आज्ञां गृहीत्वा शम्म्भोः सा पार्वती हर्ष निर्भरा ।
कारयामास विधिवदिन्द्रयागं महर्षिभिः ॥ ६ ॥
ध्यानमावाहनं चक्रुरिन्द्रस्यैते महर्षयः ।
पुपूजुर्गिरिजादेशात् साङ्गमिन्द्रं गणानपि ॥ ७ ॥
कुण्डे वह्निं प्रतिष्ठाप्य मन्त्रैरेव द्विजर्षभाः ।
जपानां तद्दशांशेन जुहुवुस्तिलपायसम् ॥ ८ ॥
प्रणवाद्यैर्नमोऽन्तैश्च स्वाहान्तैर्मन्त्रसञ्चयैः ।
शान्तिपाठान् पठन्ति स्म चतुर्वेदभवान् द्विजाः ॥ ९ ॥
एतस्मिन्नन्तरे बालाः क्रीडित्वा बालकैः सह ।
यज्ञवाटमुखो याति दैत्यौ तु कलविङ्कलौ ॥ १० ॥
तावत् सम्मुखतां यातौ माहिषं रूपमास्थितौ ।
महारवौ महाशृङ्गौ भीषयन्तौ जगत्त्रयम् ॥ ११ ॥
सटाभिन्नघनौ पुच्छाद् दारयन्तौ गिरीनथ ।
नासानिरोधपवनाच्चूर्णयन्तौ द्रुमानपि ॥ १२ ॥
उमासुतं हन्तुकामौ यातौ शीघ्रं तदन्तिकम् ।
प्रायुध्येतां तदा द्वौ तौ मत्ताविव महागजौ ॥ १३ ॥
तयोः शब्देन गगनं गर्जति स्म यथा घनैः ।
जयं भङ्गं क्रमेणोभौ प्रापतू रुधिरोक्षितौ ॥ १४ ॥
विद्रुता मुनिबालास्ते ताभ्यां भीता वृकादिव ।
दूराद् ददर्श गिरिजासुतस्तौ दैत्यपुङ्गवौ ॥ १५ ॥
कथमेतौ महादुष्टौ हनिष्यामीति चिन्तयन् ।
पश्यत्सु तेषु बालेषु चिक्षेप गगने च तौ ॥ १६ ॥
पुच्छे गृहीत्वाऽतिबलौ भ्रामयित्वा पुनः पुनः ।
मुहूर्तात् पतितौ पृथ्व्यां तान् विदार्य द्रुमानपि ॥ १७ ॥
शतधा देहखण्डानि तयोरादन् वृकादयः ।
ततस्ते मुनिबालास्तं ययुर्भक्त्या प्रतुष्टुवुः ॥ १८ ॥
यस्य तत्त्वं न जानन्ति ब्रह्माद्या मुनयोऽपि च ।
सर्वान्तर्यामिणस्ते तु कथं विद्यामहे वयम् ॥ १९ ॥
बाल्यात् प्रभृति दैत्यास्ते नाशिताः कोटिशस्त्वया ।
एतौ माहिषरूपेण हन्तुं त्वां समुपागतौ ॥ २० ॥
मूषकाविव संत्यक्तौ पुच्छे धृत्वा स्वलीलया ।
ययोः श्वासेन चलिताः पर्वताश्च द्रुमा धराः ॥ २१ ॥
॥ क उवाच ॥
मयूरेशस्ततः प्रायाद् यज्ञवाटं रमन् रमन् ।
ददर्शेन्द्रमखं रुष्टो ध्वंसया मास तत्क्षणात् ॥ २२ ॥
दूरे क्षिप्त्वा शक्रमूर्तिं प्रोचे सर्वान् मुनीश्वरान् ।
वृतैर्मुनिसुतैः सर्वैः किं कर्म क्रियतेऽमलाः ॥ २३ ॥
किं तुष्टेन प्रदातव्यं वासवेनाखिलार्थिना ।
अजाप्रार्थनया किं नु कामधेनुफलं लभेत् ॥ २४ ॥
स आदच्छेषसामग्रीं कृत्वा शान्तं हुताशनम् ।
मुनयो विस्मितहृदो वीक्ष्य चापल्यमस्य तत् ॥ २५ ॥
उमानिविष्टहृदया नाशकन् तं गुणेश्वरम् ।
उपालब्धुं शिक्षितुं वा वक्तुं क्रोधेन किञ्चन ॥ २६ ॥
उमायै सर्वमाख्याय जग्मुः स्वं स्वं निवेशनम् ।
श्रुत्वेन्द्रे क्षुब्धहृदये यत्स्यात् तच्च भवत्विति ॥ २७ ॥
स्वापमाने परिज्ञाते शक्रश्चुक्रोध वै भृशम् ।
क्रोधसंरक्तनयनो दहन्निव जगत्त्रयम् ॥ २८ ॥
आकार्य देवनिचयानुवाच वाक्यमुत्तमम् ।
॥ इन्द्र उवाच ॥
मम यागो मुनिगणैरारब्धः परमादरात् ॥ २९ ॥
स विध्वस्तो गुणेशेन तस्य द्रक्ष्येऽद्य पौरुषम् ।
रुष्टे मयि भवेन्नष्टं त्रैलोक्यं सचराचरम् ॥ ३० ॥
॥ देवा ऊचुः ॥
तवाज्ञा चेन् मयूरेशं बद्ध्वानीमः क्षणेन ह ।
॥ शक्र उवाच ॥
मयूरेशपुरे वह्नेः स्थानं मास्तु क्वचित् तव ॥ ३१ ॥
सर्वेषां जाठरोऽपि त्वं लीनो भव ममाज्ञया ।
॥ क उवाच ॥
इति श्रुत्वा वचस्तस्य शक्रस्य रुषितात्मनः ॥ ३२ ॥
वह्निरन्तर्हितस्तत्र पुरेऽपि जठरेऽपि च ।
नापश्यन् मुनयो वह्निं ममन्थुर्होमहेतवे ॥ ३३ ॥
नायातीति परिज्ञाय तेऽपक्वं जक्षुरादरात् ।
न च तत्पच्यते तेन व्यथा भवति दुर्धरा ॥ ३४ ॥
ततस्ते मुनयो जग्मुर्मयूरेशं कृपाकरम् ।
नमस्कृत्याब्रुवन् सर्वे शक्राहूतो गतोऽनलः ॥ ३५ ॥
जाठरोऽपि गतो वह्निरिन्द्रयागे हते त्वया ।
इत्याकर्ण्य वचस्तेषां प्रत्येकं जठरेऽनलः ॥ ३६ ॥
सोऽभवत्क्षुधयाऽऽविष्टाः सर्वे जातास्तु तत्क्षणात् ।
महानसेषु कुण्डेषु तथैव ज्वलितोऽभवत् ॥ ३७ ॥
ततो वायुं निनायाशु शक्रः क्रुद्धो महाबलः ।
प्रेतभूता पुरी सर्वा पञ्चप्राणे गतेऽभवत् ॥ ३८ ॥
पञ्चप्राणमयो देवस्ततस्तान् समजीवयत् ।
तत इन्द्रोऽब्रवीत् सूर्यं तापयैनां पुरीं बहु ॥ ३९ ॥
ततः सूर्योऽतपत् सर्वं द्वादशादित्यरूपवान् ।
वापीकूपतडागेषु नद्यां जलमशोषयत् ॥ ४० ॥
जज्वाल पृथिवी सर्वा पुरग्रामवनाकरा ।
ततः शीघ्रं मयूरेशो मेघो भूत्वा ववर्ष ह ॥ ४१ ॥
शमयामास तं वह्निं मृतांश्च समजीवयत् ।
ततो हर्षयुता लोकाः साधु साध्वित्यपूजयन् ॥ ४२ ॥
॥ क उवाच ॥
प्रतिकूलं कृतं यद्य यत् यत् तत् सर्वं निराकृतम् ।
ज्ञात्वा शक्रो ययौ देवं मयूरेशं ननाम च ॥ ४३ ॥
बद्धाञ्जलिपुटो भूत्वा स्तोतुं सवेश्वरं विभुम् ।
॥ शक्र उवाच ॥
न वेदा नर्षयो जग्मुर्ब्रह्माद्यास्ते गतिं विभो ॥ ४४ ॥
सर्वान्तर्यामिणः सर्वरूपस्य ब्रह्मरूपिणः ।
ब्रह्मादीनां विश्वसृजां कारणानां च कारणम् ॥ ४५ ॥
अपराधान् क्षमस्वाद्य त्वामहं शरणं गतः ।
मस्तकं पादयोयर्न्यस्य प्रार्थयामास सादरम् ॥ ४६ ॥
॥ क उवाच ॥
निर्विकल्पं मन्नतस्य ज्ञात्वा प्राह गुणेश्वरः ।
उत्तिष्ठोत्तिष्ठ भद्रं ते पदे तिष्ठ सुखं स्वके ॥ ४७ ॥
ततः सम्पूज्य तं देवं नमस्कृत्य शचीपतिः ।
प्रदक्षिणीकृत्य ययौ दृष्टः सन्नमरावतीम् ॥ ४८ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे इन्द्रमखभङ्गो नाम
सप्ताधिकशततमोऽध्यायः ॥ १०७ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें