श्रीगणेशपुराणे क्रीडाखण्डे द्वादशाधिकशततमोऽध्यायः
मयूरेशस्य युद्धाय निश्चयः
॥ क उवाच ॥
शिखण्डिनं समारुह्य मयूरेशः परे दिने ।
आयुधानि च चत्वारि प्रगृह्य करपङ्कजे ॥ १ ॥
जगर्ज घनवद् घोरं ययौ रणचिकीर्षया ।
शिवोऽपि गर्जन् सहसा वृषारूढो ययौ तदा ॥ २ ॥
सप्तकोटिगणाः पश्चात् सन्नद्धा ययुरोजसा ।
ततो नन्दी प्राह तत्र न गन्तुं सहसाऽर्हथ ॥ ३ ॥
गणानां नायके वीरभद्रे च मयि तिष्ठति ।
प्रमथे वा विद्यमाने शक्ते हन्तुं सुरद्विषाम ॥ ४ ॥
पश्यन्तु सेवकमहस्ततो यान्तु सुसंयुगम् ।
॥ क उवाच ॥
भारतीमेवमाकर्ण्य देवो नन्दीरितां तदा ॥ ५ ॥
उवाच परमप्रीतः साधु साधु त्वयोदितम् ।
पराक्रमवतः सिन्धोर्द्रष्टव्यस्तु पराक्रमः ॥ ६ ॥
इति यामि पुरो नन्दिन् यूयं यान्तु सहैव नः ।
ततस्तु भूतराजोऽथ पुष्पदन्तोऽपि वीर्यवान् ॥ ७ ॥
ईयतुः पुरतस्तस्य कोटिसङ्ख्यायुता गणाः ।
वीर्यश्रिया दीप्यमानाः सर्वे वीरा मदान्विताः ॥ ८ ॥
आक्रमन्तो दिगन्तान् वै गर्जन्तो घनवद् भृशम् ।
भारेण शेषशीर्षाणि नामयन्तो धरामपि ॥ ९ ॥
क्रोधानलं वमन्तस्ते प्रापुस्तां गण्डकीं पुरीम् ।
दैत्यगुल्मे निपेतुस्ते दशकोट्यसुरैर्युते ॥ १० ॥
ततस्तत्राभवद् युद्धं तुमुलं रोमहर्षणम् ।
शस्त्रास्त्रैर्बाणनिचयैर्भिण्दिपालपरश्वधैः ॥ ११ ॥
केषाञ्चिन्मस्तका भिन्नाः पादा हस्तास्तथोरवः ।
जानुजङ्घाश्च गुल्फाश्च भग्नाः केऽपि गतासवः ॥ १२ ॥
निपत्य पुनरुत्थाय प्रायुध्यन् स्वपरैः सह ।
एवं निपतिता दैत्या असङ्ख्याता गतासवः ॥ १३ ॥
पलाय्य निर्गताः केचिदाचख्युः सिन्धवेऽखिलम् ।
सभामध्ये वीरगणैरुपविष्टाय केचन ॥ १४ ॥
शस्त्राघातैः स्रवद्रक्ताः पुष्पिता इव किंशुकाः ।
तत्रागत्य मृताः केचित् केचित् धैर्यात् तमब्रुवन् ॥ १५ ॥
नगरद्वारगुल्मे तु दशकोटिनिशाचराः ।
निवृत्ताः शस्त्रसङ्घातैर्युद्धं कृत्वा परस्परम् ॥ १६ ॥
यदा शैलभिदो युद्धमभूत्तत्र जयोऽभवत् ।
उपविष्टोऽसि किं तूष्णीं सिन्धो स्वहितमाचर ॥ १७ ॥
आरामा रिपुभिर्दग्धा गृहाणि च प्रतोलिकाः ।
अन्धकारे धूलिकृते प्रापलन् वह्नितेजसा ॥ १८ ॥
भुञ्जन्तो निद्रिताः केचिन्निर्ययुर्नगराद् बहिः ।
बालानादाय पपलुस्त्यक्त्वा भोगं च केचन ॥ १९ ॥
विस्रस्तवसनाः केचिद्ध्यानस्था वह्निना हुताः ।
तत्रापि निधनं जग्मुर्नानाशस्त्रप्रहारतः ॥ २० ॥
धनञ्जयं सर्वदिक्षु वीक्ष्य पौरा भयातुराः ।
मेनिरे प्रलयं प्राप्तं दह्यते सकला पुरी ॥ २१ ॥
॥ क उवाच ॥
एवं दूतमुखाच्छ्रुत्वा सिन्धुर्जृम्भामथाकरोत् ।
खादन्निव मृगान् सिंहः पर्वतेन्द्रविनिर्गतः ॥ २२ ॥
उवाच दुर्धरा सेना दृश्यते किं भविष्यति ।
दिदीपे क्रोधानलतो ग्रसन्निव त्रिविष्टपम् ॥ २३ ॥
सिंहस्याग्रे किं शशकः करिष्यति पराक्रमम् ।
मेरोः किं शलभः कुर्याच्चालनं जम्बुकोऽपि वा ॥ २४ ॥
कालस्य मम किं कुर्याद् बालोऽयं तु मयूरराट् ।
इत्युक्त्वा क्ष्वेडितेनासौ नादयन् विदिशो दिशः ॥ २५ ॥
चिन्तातुरः क्षणं तस्थौ मुनिर्मौनमिवास्थितः ।
ततो वीरा सिन्धुदैत्यं प्राब्रुवन् क्रोधमूर्च्छिताः ॥ २६ ॥
आज्ञां देहि मयूरेश जेष्यामः क्षणमात्रतः ।
तव प्रतापात्त्रैलोक्यं वशं नेष्याम साम्प्रतम् ॥ २७ ॥
॥ सिन्धुरुवाच ॥
सम्यगुक्तं महावीरा ममापि रिपुदर्शने ।
मन उत्कण्ठितं यस्मात् सैन्येन युद्धयतामिह ॥ २८ ॥
ततः सर्वे पुरो याता गर्जन्तो वीरसत्तमाः ।
असङ्ख्याताः शस्त्रधराश्चतुरङ्गबलान्विताः ॥ २९ ॥
हयारूढः सिन्धुदैत्यः क्रोधहर्षसमन्वितः ।
वमन् क्रोधानलं वक्त्रान्नेत्राभ्यां रणदुर्मदः ।
ययावश्वं पुरोधाय मनोवेगं महाधनम् ॥ ३० ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे द्वादशाधिकशततमोऽध्यायः
॥ ११२ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें