श्रीगणेशपुराणे क्रीडाखण्डे एकादशाधिकशततमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे एकादशाधिकशततमोऽध्यायः
विचारवर्णनं

॥ क उवाच ॥

प्रायात्सभां महारम्यां द्वारपालनिवेदितः ।
नन्दी ननन्द तं दृष्ट्वा दैत्यं सिन्धु सभागतम् ॥ १ ॥
महावीरैः परिवृतं नानाशस्त्रेषु पाणिभिः ।
वाराङ्गनानृत्यरतं वीज्यमानं नृभिर्मुदा ॥ २ ॥


वाद्यत्सु सर्ववाद्येषु नादनादितदिक्षु च ।
दृष्ट्वा तं नन्दिनं केचिन्मेनिरे रविमागतम् ॥ ३ ॥
महाकायं महावीरं वीक्ष्य केचिच्चकम्पिरे ।
जगर्जुरपरे तत्र भीषयन्तो बलादमुम् ॥ ४ ॥
न बिभेति महाधैर्यान्नन्दी स्वबलगर्वितः ।
करसंज्ञार्पितं नन्दी भेजे आसनमुत्तमम् ॥ ५ ॥
सर्वे तटस्थतां याताश्चित्रगा इव पुत्तलाः ।
बुद्ध्वा तदिङ्गितं प्राह नन्दी वाचस्पतिः परः ॥ ६ ॥
नानासभा दृष्टपूर्वा नेदृशास्तासु मूढकाः ।
यूयं सर्वेतिबलिनः श्रिया परमशोभिताः ॥ ७ ॥
सुन्दराः कामसदृशा बुद्ध्या हीना वृका इव ।
सभायामागतः साधुरसाधुर्दुर्बलो बली ॥ ८ ॥
प्रष्टव्यो माननीयश्च नीतिरेषा सनातनी ।
न सा दृष्टा सभामध्ये ह्यतो मे विस्मितं मनः ॥ ९ ॥
वृथा सभासदः सर्वे वृथाऽमात्याश्च नागराः ।
नायं धर्मो राज्ञ एव सभ्यानां कृत्यमेव तत् ॥ १० ॥
॥ क उवाच ॥
इति तद्वचनं श्रुत्वा सिन्धुः प्रोवाच नन्दिनम् ।
पद्मयोनेरिव तव मतिर्दृष्टा गुणाकर ॥ ११ ॥
कस्य त्वं कुत आयातः किमर्थं वा वृषेश्वर ।
तेजसा वह्निसदृशः पञ्चास्य इव विक्रमे ॥ १२ ॥
॥ नन्द्युवाच ॥
सुरभेः कामरूपाया अपत्यं नन्दिनामकम् ।
विद्धि मां गिरिजानाथवाहं ब्रह्माण्डभेदिनम् ॥ १३ ॥
मयूरेशो धराभारहरो दुष्टनिबर्हणः ।
अवतीर्णः शिवगृहे बाल्यात् प्रभृति दैत्यहा ॥ १४ ॥
शेषो मूकोऽभवत् तस्य प्रतापवर्णनेऽब्जजः ।
समुद्रमथनाद् यद्वद् रत्नजातं बहिर्ययौ ॥ १५ ॥
तद्वन्नीतिं विमथ्याऽद्य कार्यसिद्धिं विचारय ।
आज्ञां शृणु मयूरेशप्रेषितां बलवत्तराम् ॥ १६ ॥
आज्ञाभङ्गे तस्य भवद् विनाशो यस्य कस्यचित् ।
यतः स सृजते विश्वं पाति हन्ति चराचरम् ॥ १७ ॥
त्वया विनिहिताः कारागृहे देवगणा बलात् ।
पदानि तेषां लब्धानि भाग्यं स्यात् किमतः परम् ॥ १८ ॥
इदानीं वैरनिर्मोकं विचार्य कर्तुमर्हसि ।
मोचयाशु सुरान् सर्वानाज्ञया स्वामिनो मम ॥ १९ ॥
त्रिपुरेण कृतं वरं शिवेन सह तत्क्षणात् ।
हिरण्यकशिपुं स्तम्भेऽवतीर्य हतवान् हरिः ॥ २० ॥
तारकेण जिता देवा अतिष्ठत् तत्पदे स्वयम् ।
स्कन्देन निहतो युद्धे क्षणेन तारको बलात् ॥ २१ ॥
अतो दत्त्वा सुरान् मह्यं तिष्ठ स्थाने सुखं चिरम् ।
॥ क उवाच ॥
एवं नन्दिवचः श्रुत्वा चुक्रोध सिन्धुदैत्यराट् ॥ २२ ॥
उवाच रक्तनयनो वमन्निव हुताशनम् ।
॥ सिन्धुरुवाच ॥
चातुर्यं बहुधा दृष्टं त्वदीयं वृषनन्दन ॥ २३ ॥
प्रसङ्गं नैव जानासि यतो वाचस्पतेरपि ।
अज्ञानात् प्रकृतार्थस्य वचो याति वृथार्थताम् ॥ २४ ॥
बालस्य तव वाक्येन स्वामिनस्तेऽपि वाक्यतः ।
मोचयेयं कथं देवान् यावत् सोऽपि न निर्जितः ॥ २५ ॥
प्रमाणं किन्नु ते वाक्यं तृणादवनचारिणः ।
क्व ते गिरीशस्तत्पुत्रो वृथा भीतिः प्रदर्श्यते ॥ २६ ॥
लाङ्गले योजयाम्यद्य दौत्येन नागतो यदि ।
यदि मे वक्रतां यायाद् भृकुटी क्रोधतो वृष ॥ २७ ॥
तदा त्रिभुवनं नश्येत् का तत्र गणना तयोः ।
रुष्टः शृगालः किं कुर्यादप्रियं सिंहनागयोः ॥ २८ ॥
॥ क उवाच ॥
एवं शब्दशरैर्विद्धो नन्दी क्रोधादथाब्रवीत् ।
॥ नन्द्युवाच ॥
विपरीतां मतिं तेऽद्य लक्षयाम्य सुराधम ॥ २९ ॥
सन्निपातीव विकलं वल्गसे मरणोन्मुखः ।
पूर्वं साम प्रयोक्तव्यमिति तेनाहमीरितः ॥ ३० ॥
त्वयि नीतिर्वृथा जाता ह्युपदेशो यथा खले ।
यदि निन्दा प्रयुक्ता ते मयूरेशे शिवेऽपि च ॥ ३१ ॥
क्षीयमायुस्तया तेऽद्य न युद्धे जयमेष्यसि ।
इदानीं हन्मि त्वां मूढ नाज्ञाऽस्ति स्वामिनो मम ॥ ३२ ॥
नायकेन न हन्तव्यो दूतस्तेनापि नायकः ।
इत्युक्त्वा पातयन् दैत्यान् नन्दी निश्वासवायुना ॥ ३३ ॥
क्रोधेन तमपृष्ट्वैव प्रतस्थे हर्षनिर्भरः ।
सान्निध्यं प्राप्य देवस्य मयूरेशस्य तत्क्षणात् ॥ ३४ ॥
दूराद् ददर्श देवोऽपि प्राह नन्दी समागतः ।
प्रणिपत्याब्रवीद् देवं वृत्तान्तं सर्वमादितः ॥ ३५ ॥
॥ नन्द्युवाच ॥
बहुधा बोधितो दैत्यो न स्वीचक्रे वचो मम ।
निर्भर्त्सितो बहुविधं तेनाहं च मया च सः ॥ ३६ ॥
न्युब्जे घटे यथा बिन्दुस्तस्मिन्सर्वं वृथा भवेत् ।
॥ क उवाच ॥
इति तद्वचनं श्रुत्वा प्रयातस्य यथागतम् ॥ ३७ ॥
जहर्ष स मयूरेशो दैत्यमर्दनलालसः ।
आज्ञापयत् स युद्धाय प्रमथादीदान् गणांस्तथा ॥ ३८ ॥
इदानीं सिन्धुनगरे युद्धं कर्तुं समुत्सुकाः ।
गर्जन्तु वीरशब्दैश्च मोचितुं बन्धनात् सुरान् ॥ ३९ ॥
हत्वा सिन्धुं च सबलं मोचितुं चाखिलान् सुरान् ।
मुनीनां त्वरमाणानां गन्तुं स्वाश्रममण्डलम् ॥ ४० ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे विचारवर्णनं नामैकादशाधिकशततमोऽध्यायः ॥ १११ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-111


कोई टिप्पणी नहीं:

123