श्रीगणेशपुराणे क्रीडाखण्डे
अष्टाधिकशततमोऽध्यायः
रविजगर्वपरिहारो
॥ क उवाच ॥
ततः पञ्चदशे वर्षे मयूरेशोऽर्भकैः सह ।
गतः स्नातुं नदीं पुण्यां नाम्ना ब्रह्मकमण्डलुम् ॥ १ ॥
स्नात्वा नित्यं समाप्याशु मानसैः षोडशैः पृथक् ।
उपचारैः पुपूजस्ते हृदिस्थं गणनायकम् ॥ २ ॥
केचित् पद्मासनगतं केचिद् बर्हिगतं च तम् ।
दिव्यगन्धैर्दिव्यवस्त्रैः दिव्यैः पुष्पैरपूजयन् ॥ ३ ॥
गार्ग्यो मुनिर्मन्दिरे तं ध्यात्वा रत्नान्वितेऽर्चयत् ।
एतस्मिन्नन्तरेऽकस्मात् पिदधे द्वारमस्य तत् ॥ ४ ॥
यावदुद्धाटत्येव तावत् तत् दृढतामगात् ।
तत्र आक्रन्दनं चक्रे स च ते बालका अपि ॥ ५ ॥
॥ बालका ऊचुः ॥
त्वमेव जननी तातः कथमभ्यन्तरे स्थितः ।
दत्त्वा कपाटं देवेश नोऽपराधान् क्षमस्व च ॥ ६ ॥
॥ क उवाच ॥
एतस्मिन्नन्तरे दैत्यो महाबलपराक्रमः ।
यस्य शब्देन महता कम्पते भुवनत्रयम् ॥ ७ ॥
सटाभिन्नघनो दुष्टो व्याघ्ररूपी समभ्यगात् ।
व्यादाय वदनं घोरं ग्रसन्निव जगत्त्रयम् ॥ ८ ॥
दृष्ट्वा तं दुद्रुवुर्बालाः क्रन्दन्तस्ते दिशो दश ।
स तु द्वारं विनिर्भिद्य मयूरेशं तमाययौ ॥ ९ ॥
शार्दूलसदृशं रूपं कृत्वायात् सोऽपि तं क्षणात् ।
पपाल सहसा व्याघ्रः पृष्ठे लग्नो ययौ च सः ॥ १० ॥
भ्रमन् स तु वनं यातो निकुञ्जे लीयतस्थिवान् ।
देवो वृक्षं समारुह्य कुञ्जमध्ये पपात ह ॥ ११ ॥
उभाभ्यां वदनं तस्य कराभ्यां जगृहे दृढम् ।
अन्याभ्यां बहिरानीय ततः परशुनाऽच्छिनत् ॥ १२ ॥
नासिकां श्रवणे पादौ पुच्छमग्रभुवावुभौ ।
न मुखं दर्शयेत्युक्त्वा विससर्ज गुणेश्वरः ॥ १३ ॥
निजं रूपं समास्थाय तथैव विकृतोऽभवत् ।
एवमेव करिष्यामि त्वद्देहमित्युवाच तम् ॥ १४ ॥
ययौ निजालयं दैत्यो देवः स्वं धाम चाययौ ।
ततो मुनिसुता भ्रेमुः क्रदन्तः क्व मयूरराट् ॥ १५ ॥
अतिश्रान्ता द्रुमतले सुच्छाये प्रास्वपँस्तदा ।
अनेन यास्यति पथा द्रक्ष्यामस्तत्पदाम्बुजम् ॥ १६ ॥
पादौ दक्षिणतस्तेषां दृष्ट्वा चुक्रोध भानुजः ।
अत्यारक्तदृशौ रोषाद् ब्रह्माण्डग्राससाहसः ॥ १७ ॥
बद्धवा तान् स्वस्थलं यातो मयूरेशस्ततोऽगमत् ।
नापश्यत् तत्तटे बालान् विस्मयं परमं ययौ ॥ १८ ॥
चिन्तां परमिकां प्राप्तो विना तैः स मयूरराट् ।
न सुखं क्वापि सम्प्रायात्ततो मुनिगणा ययुः ॥ १९ ॥
॥ मुनय ऊचुः ॥
क्वास्माकं बालका देव प्रातर्नीतास्त्वयाऽखिलाः ।
विना तैर्नो गमिष्यन्ति प्राणास्त्वय्यागतेऽधुना ॥ २० ॥
॥ क उवाच ॥
न किञ्चिदूचे तान् देवो मुञ्चन्नश्रु मुहुर्मुहुः ।
विचार्य भास्करीं यातः पुरीं दूतैर्निवेदितः ॥ २१ ॥
॥ दूता ऊचुः ॥
कोऽपि यातो योद्धुकामो लोकत्रयविनाशकृत् ।
उग्रारावो महाबाहुर्वार्यमाणो बलाद् यम ॥ २२ ॥
॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰॰ ॥ २३ ॥
॥ यम उवाच ॥
ब्रह्माण्डं चूर्णतां याति दण्डाघातेन यस्य मे ।
तस्य मे पुरतो युद्धं कथं बालो विधास्यसि ॥ २४ ॥
॥ देव उवाच ॥
त्वमात्मानं वर्णयसे रङ्कवद् भासि मे यम ।
मम वक्रभुवा सर्वं ब्रह्माण्डं च विनश्यति ॥ २५ ॥
एवमुक्त्वा मयूरेशो यमस्कन्धं रुरोह सः ।
पातयामास महिषात् पपातोपरि तत्क्षणात् ॥ २६ ॥
पराक्रमं तस्य बुद्ध्वा बद्धाञ्जलिपुटो यमः ।
तुष्टाव परया भक्त्या मयूरेशं सुरेश्वरम ॥ २७ ॥
॥ यम उवाच ॥
न ते रूपं विदुर्देवा ब्रह्माद्याः सनकादयः ।
नेति नेति च वेदात्स्वां वदन्ति परमेश्वरम् ॥ २८ ॥
स्रष्टारं पालकं सृष्टेः संहर्तारं निजेच्छया ।
दैत्यानां सर्वदुष्टानां नाशकं सर्वरूपिणम् ॥ २९ ॥
अकस्मादपराधं नः कृतं क्षन्तुं त्वमर्हसि ।
॥ क उवाच ॥
एवमुक्त्वा पुपूजासौ वस्त्रैः रत्नैः फलैरमुम् ॥ ३० ॥
बालानानीय तद्धस्ते निवेद्य पुरतः स्थितः ।
आलिलिङ्गुर्मुदा सर्वे परस्परमथाऽब्रुवन् ॥ ३१ ॥
॥ बाला ऊचुः ॥
श्रान्तास्त्वद्दर्शनार्थाय बद्ध्वा नीता यमेन ह ।
त्वद्दर्शनाद् बन्धमुक्ता यास्यामो निजमन्दिरम् ॥ ३२ ॥
॥ क उवाच ॥
ततस्ते स्वाश्रमं प्राप्ता मयूरेशपुरस्कृताः ।
मयूरेशपूरं याता नानावादित्रसङ्कुलम् ॥ ३३ ॥
नानाध्वजपताकाढ्यं पुष्पमालाविभूषितम् ।
यमोऽपि पृष्ठतो याति द्रष्टुं तत् कौतुकं महत् ॥ ३४ ॥
सम्मुखं तस्य ते सर्वे मुनयोऽपि ययुस्तदा ।
पुपूजुस्तुष्टुवुर्देवं लिलिङ्गुर्बालकानपि ॥ ३५ ॥
उवाचदेवतान् सर्वान् मुनीन् पूर्वं प्रकुप्यतः ।
आनीता बालका लोकाद् यमस्य क्षणमात्रतः ॥ ३६ ॥
॥ मुनय ऊचुः ॥
सर्वत्र रक्षसे त्वं हि सर्वशक्तिः सदा च नः ।
॥ क उवाच ॥
इत्युक्त्वा तमनुज्ञाप्य स्वाश्रमान्मुनयो ययुः ॥ ३७ ॥
यमोऽपि तं नमस्कृत्य स्वालयं मुदितोऽगमत् ।
देवोऽपि स्वालयं प्राप्य हर्षयामास मातरम् ॥ ३८ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे यमगर्वपरिहारो (रविजगर्वपरिहारो)
नामाष्टाधिकशततमोऽध्यायः ॥ १०८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें