श्रीगणेशपुराणे क्रीडाखण्डे पञ्चपञ्चाशदुत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे पञ्चपञ्चाशदुत्तरशततमोऽध्यायः

फलश्रुति निरूपणं
॥ सूत उवाच ॥

जन्ममृतिः न च स्यातां पुराणस्यास्य संश्रयात् ।
एकशो बहुशश्चेत् स्याद् यद्यस्य श्रवणं द्विजाः ॥ १ ॥
न शक्नुतामलं वक्तुं शेषपद्मासनावपि ।
यो ददाति कुरुक्षेत्रे सोमसूर्यग्रहे नरः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे चतुःपञ्चाशदुत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे चतुःपञ्चाशदुत्तरशततमोऽध्यायः

षट्पञ्चाशद्विनायकवर्णनं
॥ ऋषय ऊचुः ॥

किं पृष्टं सोमकान्तेन विमानवर्तिनाऽनघ ।
तद् वयं श्रोतुमिच्छामो वद सर्वमशेषतः ॥ १ ॥
॥ सूत उवाच ॥
गच्छता व्योममार्गेण पृष्टा दूता महात्मना ।
वाराणसीस्थितानां तु गणेशानां महात्मनाम् ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे त्रिपञ्चाशदुत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे त्रिपञ्चाशदुत्तरशततमोऽध्यायः

सोमकान्तस्य देवपदप्राप्तिवर्णनं
॥ सूत उवाच ॥

तदमात्याश्च चत्वारः सोमकान्तं पुरो ययुः ।
प्रणिपत्याखिलान् प्रोचुरागतस्ते सुतो नृप ॥ १ ॥
सर्ववीरैर्नागरिकैरिन्द्रः सुरगणैरिव ।
वृतो हर्षेण शोकेन दृष्ट्वा नृयानमेव च ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे द्विपञ्चाशदुत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे द्विपञ्चाशदुत्तरशततमोऽध्यायः

हेमकण्ठदर्शनं
॥ सूत उवाच ॥

उपरिष्टाद् ददर्शाऽथ नृपो दैवपुरं निजम् ।
जहर्ष गोपुराट्टालशोभां दृष्ट्वाथ काञ्चनीम् ॥ १ ॥
ततः सुधर्मा सस्मार सभां रम्यां समीक्ष्य ह ।
निजं पुत्रं स्नेहवशात् प्राह गद्गदभाषिणी ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे एकपञ्चाशदधिकशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे एकपञ्चाशदधिकशततमोऽध्यायः

सोमकान्तविमानप्राप्ति वर्णनं
॥ सूत उवाच ॥

एवं श्रुत्वा कथां नित्यं सोमकान्तो मुनीश्वरात् ।
शुष्काम्रमूले तत्पुण्यं न्यक्षिपज्जलतो नृपः ॥ १ ॥
गते संवत्सरे चूतः पल्लवैः कुसुमैः फलैः ।
शुशुभेऽतीवरुचिरः पुराणश्रुतिपुण्यतः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे पञ्चाशदुत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे पञ्चाशदुत्तरशततमोऽध्यायः

व्यासानुग्रहसिद्धिक्षेत्रवर्णनं
॥ सोमकान्त उवाच ॥

कथं प्रादुरभूद्देवः पुरस्तस्य महात्मनः ।
भृगो तत्सर्वमाख्याहि श्रुत्वा पापक्षयो यतः ॥ १ ॥
॥ भृगुरुवाच ॥
यथा तत्पुरतः प्रादुरासीद् देवो गजाननः ।
तत्सर्वं कथयिष्येऽहं सादरं श‍ृणु भूमिप ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे एकोनपञ्चाशदुत्तरशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे एकोनपञ्चाशदुत्तरशततमोऽध्यायः

मुनिविसर्जनं
॥ क उवाच ॥

एवं पूजां सम्प्रगृह्य तत्रैव न्यवसद् विभुः ।
भक्तानां पूरयन् कामान् सदने राजपूजिते ॥ १ ॥
॥ मुनिरुवाच ॥
विनायकस्य माहात्म्ये कथा भिन्ना निरूपिताः ।
अवतीर्य वरेण्यस्य गृहे विघ्नासुरो हतः ॥ २ ॥

123