श्रीलिङ्गमहापुराणे पूर्वभागे विंशोऽध्यायः
ब्रह्मप्रबोधनं
॥ ऋषय ऊचुः ॥
कथं पाद्मे पुरा कल्पे ब्रह्मा पद्मोद्भवोऽभवत् ।
भवं च दृष्टवांस्तेन ब्रह्मणा पुरुषोत्तमः ॥ १ ॥
एतत्सर्वं विशेषेण साम्प्रतं वक्तुमर्हसि ।
॥ सूत उवाच ॥
आसीदेकार्णवं घोरमविभागं तमोमयम् ॥ २ ॥
मध्ये चैकार्णवे तस्मिन् शङ्खचक्रगदाधरः ।
जीमूताम्भोऽम्बुजाक्षश्च किरीटी श्रीपतिर्हरिः ॥ ३ ॥
नारायणमुखोद्गीर्ण सर्वात्मा पुरुषोत्तमः ।
अष्टबाहुर्महावक्षा लोकानां योनिरुच्यते ॥ ४ ॥
किमप्यचिन्त्यं योगात्मा योगमास्थाय योगवित् ।
फणासहस्रकलितं तमप्रतिमवर्चसम् ॥ ५ ॥
महाभोगपतेर्भोगं साध्वास्तीर्य महोच्छ्रयम् ।
तस्मिन् महति पर्यङ्के शेते चैकार्णवे प्रभुः ॥ ६ ॥
एवं तत्र शयानेन विष्णुना प्रभविष्णुना ।
आत्मारामेण क्रीडार्थं लीलयाक्लिष्टकर्मणा ॥ ७ ॥
शतयोजनविस्तीर्णं तरुणादित्यसन्निभम् ।
वज्रदण्डं महोत्सेधं नाभ्यां सृष्टं तु पुष्करम् ॥ ८ ॥
तस्यैवं क्रीडमानस्य समीपं देवमीढुषः ।
हेमगर्भाण्डजो ब्रह्मा रुक्मवर्णो ह्यतीन्द्रियः ॥ ९ ॥
चतुर्वक्त्रो विशालाक्षः समागम्य यदृच्छया ।
श्रिया युक्तेन दिव्येन सुशुभेन सुगन्धिना ॥ १० ॥
क्रीडमानं च पद्मेन दृष्ट्वा ब्रह्मा शुभेक्षणम् ।
सविस्मयमथागम्य सौम्यसम्पन्नया गिरा ॥ ११ ॥
प्रोवाच को भवाञ्छेते ह्याश्रितो मध्यमम्भसाम् ।
अथ तस्याच्युतः श्रुत्वा ब्रह्मणस्तु शुभं वचः ॥ १२ ॥
उदतिष्ठत पर्यङ्काद्विस्मयोत्फुल्ललोचनः ।
प्रत्युवाचोत्तरं चैव कल्पे कल्पे प्रतिश्रयः ॥ १३ ॥
कर्तव्यं च कृतं चैव क्रियते यच्च किञ्चन ।
द्यौरन्तरिक्षं भूश्चैव परं पदमहं भुवः ॥ १४ ॥
तमेवमुक्त्वा भगवान् विष्णुः पुनरथाब्रवीत् ।
कस्त्वं खलु समायातः समीपं भगवान् कुतः ॥ १५ ॥
क्व वा भूयश्च गन्तव्यं कश्च वा ते प्रतिश्रयः ।
को भवान् विश्वमूर्तिर्वै कर्तव्यं किं च ते मया ॥ १६ ॥
एवं ब्रुवन्तं वैकुण्ठं प्रत्युवाच पितामहः ।
मायया मोहितः शम्भोरविज्ञाय जनार्दनम् ॥ १७ ॥
मायया मोहितं देवमविज्ञातं महात्मनः ।
यथा भवांस्तथैवाहमादिकर्ता प्रजापतिः ॥ १८ ॥
सविस्मयं वचः श्रुत्वा ब्रह्मणो लोकतन्त्रिणः ।
अनुज्ञातश्च ते नाथ वैकुण्ठो विश्वसम्भवः ॥ १९ ॥
कौतूहलान् महायोगी प्रविष्टो ब्रह्मणो मुखम् ।
इमानष्टादश द्वीपान् ससमुद्रान् सपर्वतान् ॥ २० ॥
प्रविश्य सुमहातेजाश्चातुर्वर्ण्यसमाकुलान् ।
ब्रह्मणस्तम्भपर्यन्तं सप्तलोकान् सनातनान् ॥ २१ ॥
ब्रह्मणस्तूदरे दृष्ट्वा सर्वान् विष्णुर्महाभुजः ।
अहोऽस्य तपसो वीर्यमित्युक्त्वा च पुनः पुनः ॥ २२ ॥
अटित्वा विविधांल्लोकान् विष्णुर्नानाविधाश्रयान् ।
ततो वर्षसहस्रान्ते नान्तं हि ददृशे यदा ॥ २३ ॥
तदास्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रनिकेतनः ।
नारायणो जगद्धाता पितामहमथाब्रवीत् ॥ २४ ॥
भगवानादिरन्तश्च मध्यं कालो दिशो नभः ।
नाहमन्तं प्रपश्यामि उदरस्य तवानघ ॥ २५ ॥
एवमुक्त्वाब्रवीद्भूयः पितामहमिदं हरिः ।
भगवानेवमेवाहं शाश्वतं हि ममोदरम् ॥ २६ ॥
प्रविश्य लोकान् पश्यैताननौपम्यान् सुरोत्तम ।
ततः प्राह्लादिनीं वाणीं श्रुत्वा तस्याभिनन्द्य च ॥ २७ ॥
श्रीपतेरुदरं भूयः प्रविवेश पितामहः ।
तानेव लोकान् गर्भस्थानपश्यत् सत्यविक्रमः ॥ २८ ॥
पर्यटित्वा तु देवस्य ददृशेऽन्तं न वै हरेः ।
ज्ञात्वा गतिं तस्य पितामहस्य द्वाराणि सर्वाणि पिधाय विष्णुः ।
विभुर्मनः कर्तुमियेष चाशु सुखं प्रसुप्तोऽहमिति प्रचिन्त्य ॥ २९ ॥
ततो द्वाराणि सर्वाणि पिहितानि समीक्ष्य वै ।
सूक्ष्मं कृत्वात्मनो रूपं नाभ्यां द्वारमविन्दत ॥ ३० ॥
पद्मसूत्रानुसारेण चान्वपश्यत्पितामहः ।
उज्जहारात्मनो रूपं पुष्कराच्चतुराननः ॥ ३१ ॥
विरराजारविन्दस्थः पद्मगर्भसमद्युतिः ।
ब्रह्मा स्वयम्भूर्भगवाञ्जगद्योनिः पितामहः ॥ ३२ ॥
एतस्मिन्नन्तरे ताभ्यामेकैकस्य तु कृत्स्नशः ।
वर्तमाने तु सङ्घर्षे मध्ये तस्यार्णवस्य तु ॥ ३३ ॥
कुतोऽप्यपरिमेयात्मा भूतानां प्रभुरीश्वरः ।
शूलपाणिर्महादेवो हेमवीराम्बरच्छदः ॥ ३४ ॥
अगच्छद्यत्र सोऽनन्तो नागभोगपतिर्हरिः ।
शीघ्रं विक्रमतस्तस्य पद्भ्यामाक्रान्तपीडिताः ॥ ३५ ॥
उद्भूतास्तूर्णमाकाशे पृथुलास्तोयबिन्दवः ।
अत्युष्णश्चातिशीतश्च वायुस्तत्र ववौ पुनः ॥ ३६ ॥
तद्दृष्ट्वा महदाश्चर्यं ब्रह्मा विष्णुमभाषत ।
अब्बिन्दवश्च शीतोष्णाः कम्पयन्त्यम्बुजं भृशम् ॥ ३७ ॥
एतन्मे संशयं ब्रूहि किं वा त्वन्यच्चिकीर्षसि ।
एतदेवंविधं वाक्यं पितामहमुखोद्गतम् ॥ ३८ ॥
श्रुत्वाप्रतिमकर्मा हि भगवानसुरान्तकृत् ।
किं नु खल्वत्र मे नाभ्यां भूतमन्यत्कृतालयम् ॥ ३९ ॥
वदति प्रियमत्यर्थं मन्युश्चास्य मया कृतः ।
इत्येवं मनसा ध्यात्वा प्रत्युवाचेदमुत्तरम् ॥ ४० ॥
किमत्र भगवानद्य पुष्करे जातसम्भ्रमः ।
किं मया च कृतं देव यन्मां प्रियमनुत्तमम् ॥ ४१ ॥
भाषसे पुरुषश्रेष्ठ किमर्थं ब्रूहि तत्त्वतः ।
एवं ब्रुवाणं देवेशं लोकयात्रानुगं ततः ॥ ४२ ॥
प्रत्युवाचाम्बुजाभाक्षं ब्रह्मा वेदनिधिः प्रभुः ।
योऽसौ तवोदरं पूर्वं प्रविष्टोऽहं त्वदिच्छया ॥ ४३ ॥
यथा ममोदरे लोकाः सर्वे दृष्टास्त्वया प्रभो ।
तथैव दृष्टाः कार्त्स्न्येन मया लोकास्तवोदरे ॥ ४४ ॥
ततो वर्षसहस्रात्तु उपावृत्तस्य मेऽनघ ।
त्वया मत्सरभावेन मां वशीकर्तुमिच्छता ॥ ४५ ॥
आशु द्वाराणि सर्वाणि पिहितानि समन्ततः ।
ततो मया महाभाग सञ्चिन्त्य स्वेन तेजसा ॥ ४६ ॥
लब्धो नाभिप्रदेशेन पद्मसूत्राद्विनिर्गमः ।
मा भूत्ते मनसोऽल्पोऽपि व्याघातोऽयं कथञ्चन ॥ ४७ ॥
इत्येषानुगतिर्विष्णो कार्याणामौपसर्पिणी ।
यन्मयानन्तरं कार्यं ब्रूहि किं करवाण्यहम् ॥ ४८ ॥
ततः परममेयात्मा हिरण्यकशिपो रिपुः ।
अनवद्यां प्रियामिष्टां शिवां वाणीं पितामहात् ॥ ४९ ॥
श्रुत्वा विगतमात्सर्यं वाक्यमस्मै ददौ हरिः ।
न ह्येवमीदृशं कार्यं मयाध्यवसितं तव ॥ ५० ॥
त्वां बोधयितुकामेन क्रीडापूर्वं यदृच्छया ।
आशु द्वाराणि सर्वाणि घाटितानि मयात्मनः ॥ ५१ ॥
न तेऽन्यथावगन्तव्यं मान्यः पूज्यश्च मे भवान् ।
सर्वं मर्षय कल्याण यन्मयापकृतं तव ॥ ५२ ॥
अस्मान्मयोह्यमानस्त्वं पद्मादवतर प्रभो ।
नाहं भवन्तं शक्नोमि सोढुं तेजोमयं गुरुम् ॥ ५३ ॥
स होवाच वरं ब्रूहि पद्मादवतर प्रभो ।
पुत्रो भव ममारिघ्न मुदं प्राप्स्यसि शोभनाम् ॥ ५४ ॥
सद्भाववचनं ब्रूहि पद्मादवतर प्रभो ।
स त्वं च नो महायोगी त्वमीड्यः प्रणवात्मकः ॥ ५५ ॥
अद्यप्रभृति सर्वेशः श्वेतोष्णीषविभूषितः ।
पद्मयोनिरिति ह्येवं ख्यातो नाम्ना भविष्यसि ॥ ५६ ॥
पुत्रो मे त्वं भव ब्रह्मन् सप्तलोकाधिपः प्रभो ।
ततः स भगवान् देवो वरं दत्त्वा किरीटिने ॥ ५७ ॥
एवं भवतु चेत्युक्त्वा प्रीतात्मा गतमत्सरः ।
प्रत्यासन्नमथायान्तं बालार्काभं महाननम् ॥ ५८ ॥
भवमत्यद्भुतं दृष्ट्वा नारायणमथाब्रवीत् ।
अप्रमेयो महावक्त्रो दंष्ट्री ध्वस्तशिरोरुहः ॥ ५९ ॥
दशबाहुस्त्रिशूलाङ्को नयनैर्विश्वतः स्थितः ।
लोकप्रभुः स्वयं साक्षाद्विकृतो मुञ्जमेखली ॥ ६० ॥
मेण्ढ्रेणोर्ध्वेन महता नर्दमानोऽतिभैरवम् ।
कः खल्वेष पुमान् विष्णो तेजोराशिर्महाद्युतिः ॥ ६१ ॥
व्याप्य सर्वा दिशो द्यां च इत एवाभिवर्तते ।
तेनैवमुक्तो भगवान् विष्णुर्ब्रह्माणमब्रवीत् ॥ ६२ ॥
पद्भ्यां तलनिपातेन यस्य विक्रमतोऽर्णवे ।
वेगेन महताकाशेऽप्युत्थिताश्च जलशयाः ॥ ६३ ॥
स्थूलाद्भिर्विश्वतोऽत्यर्थं सिच्यसे पद्मसम्भव ।
घ्राणजेन च वातेन कम्प्यमानं त्वया सह ॥ ६४ ॥
दोधूयते महापद्मं स्वच्छन्दं मम नाभिजम् ।
समागतो भवानीशो ह्यनादिश्चान्तकृत् प्रभुः ॥ ६५ ॥
भवानहं च स्तोत्रेण उपतिष्ठाव गोध्वजम् ।
ततः क्रुद्धोऽम्बुजाभाक्षं ब्रह्मा प्रोवाच केशवम् ॥ ६६ ॥
भवान्न नूनमात्मानं वेत्ति लोकप्रभुं विभुम् ।
ब्रह्माणं लोककर्तारं मां न वेत्सि सनातनम् ॥ ६७ ॥
को ह्यसौ शङ्करो नाम आवयोर्व्यतिरिच्यते ।
तस्य तत्क्रोधजं वाक्यं श्रुत्वा हरिरभाषत ॥ ६८ ॥
मा मैवं वद कल्याण परिवादं महात्मनः ।
महायोगेन्धनो धर्मो दुराधर्षो वरप्रदः ॥ ६९ ॥
हेतुरस्याथ जगतः पुराणपुरुषोऽव्ययः ।
बीजी खल्वेष बीजानां ज्योतिरेकः प्रकाशते ॥ ७० ॥
बालक्रीडनकैर्देवः क्रीडते शङ्करः स्वयम् ।
प्रधानमव्ययो योनिरव्यक्तं प्रकृतिस्तमः ॥ ७१ ॥
मम चैतानि नामानि नित्यं प्रसवधर्मिणः ।
यः कः स इति दुःखार्तैर्दृश्यते यतिभिः शिवः ॥ ७२ ॥
एष बीजी भवान् बीजमहं योनिः सनातनः ।
स एवमुक्तो विश्वात्मा ब्रह्मा विष्णुमपृच्छत ॥ ७३ ॥
भवान् योनिरहं बीजं कथं बीजी महेश्वरः ।
एतन्मे सूक्ष्ममव्यक्तं संशयं छेत्तुमर्हसि ॥ ७४ ॥
ज्ञात्वा च विविधोत्पत्तिं ब्रह्मणो लोकतन्त्रिणः ।
इमं परमसादृश्यं प्रश्नमभ्यवदद्धरिः ॥ ७५ ॥
अस्मान्महत्तरं भूतं गुह्यमन्यन्न विद्यते ।
महतः परमं धाम शिवमध्यात्मिनां पदम् ॥ ७६ ॥
द्विविधं चैवमात्मानं प्रविभज्य व्यवस्थितः ।
निष्कलस्तत्र योऽव्यक्तः सकलश्च महेश्वरः ॥ ७७ ॥
यस्य मायाविधिज्ञस्य अगम्यगहनस्य च ।
पुरा लिङ्गोद्भवं बीजं प्रथमं त्वादिसर्गिकम् ॥ ७८ ॥
मम योनौ समायुक्तं तद्बीजं कालपर्ययात् ।
हिरण्मयमकूपारे योन्यामण्डमजायत ॥ ७९ ॥
शतानि दश वर्षाणामण्डमप्सु प्रतिष्ठितम् ।
अन्ते वर्षसहस्रस्य वायुना तद् द्विधा कृतम् ॥ ८० ॥
कपालमेकं द्यौर्जज्ञे कपालमपरं क्षितिः ।
उल्बं तस्य महोत्सेधो योऽसौ कनकपर्वतः ॥ ८१ ॥
ततश्च प्रतिसंध्यात्मा देवदेवो वरः प्रभुः ।
हिरण्यगर्भो भगवांस्त्वभिजज्ञे चतुर्मुखः ॥ ८२ ॥
आ तारार्केन्दुनक्षत्रं शून्यं लोकमवेक्ष्य च ।
कोऽहमित्यपि च ध्याते कुमारास्तेऽभवंस्तदा ॥ ८३ ॥
प्रियदर्शनास्तु यतयो यतीनां पूर्वजास्तव ।
भूयो वर्षसहस्रान्ते तत एवात्मजास्तव ॥ ८४ ॥
भुवनानलसङ्काशाः पद्मपत्रायतेक्षणाः ।
श्रीमान् सनत्कुमारश्च ऋभुश्चैवोर्ध्वरेतसौ ॥ ८५ ॥
सनकः सनातनश्चैव तथैव च सनन्दनः ।
उत्पन्नाः समकालं ते बुद्ध्यातीन्द्रियदर्शनाः ॥ ८६ ॥
उत्पन्नाः प्रतिभात्मानो जगतां स्थितिहेतवः ।
नारप्स्यन्ते च कर्माणि तापत्रयविवर्जिताः ॥ ८७ ॥
अल्पसौख्यं बहुक्लेशं जराशोकसमन्वितम् ।
जीवनं मरणं चैव सम्भवश्च पुनः पुनः ॥ ८८ ॥
अल्पभूतं सुखं स्वर्गे दुःखानि नरके तथा ।
विदित्वा चागमं सर्वमवश्यं भवितव्यताम् ॥ ८९ ॥
ऋभुं सनत्कुमारं च दृष्ट्वा तव वशे स्थितौ ।
त्रयस्तु त्रीन् गुणान् हित्वा चात्मजाः सनकादयः ॥ ९० ॥
वैवर्तेन तु ज्ञानेन प्रवृत्तास्ते महौजसः ।
ततस्तेषु प्रवृत्तेषु सनकादिषु वै त्रिषु ॥ ९१ ॥
भविष्यसि विमूढस्त्वं मायया शङ्करस्य तु ।
एवं कल्पे तु वैवृत्ते संज्ञा नश्यति तेऽनघ ॥ ९२ ॥
कल्पे शेषाणि भूतानि सूक्ष्माणि पार्थिवानि च ।
सर्वेषां ह्यैश्वरी माया जागृतिः समुदाहृता ॥ ९३ ॥
यथैष पर्वतो मेरुर्देवलोको ह्युदाहृतः ।
तस्य चेदं हि माहात्म्यं विद्धि देववरस्य ह ॥ ९४ ॥
ज्ञात्वा चेश्वरसद्भावं ज्ञात्वा मामम्बुजेक्षणम् ।
महादेवं महाभूतं भूतानां वरदं प्रभुम् ॥ ९५ ॥
प्रणवेनाथ साम्ना तु नमस्कृत्य जगद्गुरुम् ।
त्वां च मां चैव सङ्क्रुद्धो निःश्वासान्निर्दहेदयम् ॥ ९६ ॥
एवं ज्ञात्वा महायोगमभ्युत्तिष्ठन् महाबलम् ।
अहं त्वामग्रतः कृत्वा स्तोष्याम्यनलसप्रभम् ॥ ९७ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे ब्रह्मप्रबोधनं नाम
विंशोऽध्यायः ॥ २० ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें