श्रीलिङ्गमहापुराणे पूर्वभागे त्रयोदशोऽध्यायः
तत्पुरुषमाहात्म्यं
॥ सूत उवाच ॥
एकत्रिंशत्तमः कल्पः पीतवासा इति स्मृतः ।
ब्रह्मा यत्र महाभागः पीतवासा बभूव ह ॥ १ ॥
ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः ।
प्रादुर्भूतो महातेजाः कुमारः पीतवस्त्रधृक् ॥ २ ॥
पीतगन्धानुलिप्ताङ्गः पीतमाल्याम्बरो युवा ।
हेमयज्ञोपवीतश्च पीतोष्णीषो महाभुजः ॥ ३ ॥
तं दृष्ट्वा ध्यानसंयुक्तो ब्रह्मा लोकमहेश्वरम् ।
मनसा लोकधातारं प्रपेदे शरणं विभुम् ॥ ४ ॥
ततो ध्यानगतस्तत्र ब्रह्मा माहेश्वरीं वराम् ।
गां विश्वरूपां ददृशे महेश्वरमुखाच्च्युताम् ॥ ५ ॥
चतुष्पदां चतुर्वक्त्रां चतुर्हस्तां चतुःस्तनीम् ।
चतुर्नेत्रां चतुःशृङ्गीं चतुर्दंष्ट्रां चतुर्मुखीम् ॥ ६ ॥
द्वात्रिंशद्गुणसंयुक्तामीश्वरीं सर्वतोमुखाम् ।
स तां दृष्ट्वा महातेजा महादेवीं महेश्वरीम् ॥ ७ ॥
पुनराह महादेवः सर्वदेवनमस्कृतः ।
मतिः स्मृतिर्बुद्धिरिति गायमानः पुनः पुनः ॥ ८ ॥
एह्येहीति महादेवि सातिष्ठत् प्राञ्जलिर्विभुम् ।
विश्वमावृत्य योगेन जगत् सर्वं वशीकुरु ॥ ९ ॥
अथ तामाह देवेशो रुद्राणी त्वं भविष्यसि ।
ब्राह्मणानां हितार्थाय परमार्था भविष्यसि ॥ १० ॥
तथैनां पुत्रकामस्य ध्यायतः परमेष्ठिनः ।
प्रददौ देवदेवेशः चतुष्पादां जगद्गुरुः ॥ ११ ॥
ततस्तां ध्यानयोगेन विदित्वा परमेश्वरीम् ।
ब्रह्मा लोकगुरोः सोऽथ प्रतिपेदे महेश्वरीम् ॥ १२ ॥
गायत्रीं तु ततो रौद्रीं ध्यात्वा ब्रह्मानुयन्त्रितः ।
इत्येतां वैदिकीं विद्यां रौद्रीं गायत्रीमीरिताम् ॥ १३ ॥
जपित्वा तु महादेवीं ब्रह्मा लोकनमस्कृताम् ।
प्रपन्नस्तु महादेवं ध्यानयुक्तेन चेतसा ॥ १४ ॥
ततस्तस्य महादेवो दिव्ययोगं बहुश्रुतम् ।
ऐश्वर्यं ज्ञानसम्पत्तिं वैराग्यं च ददौ प्रभुः ॥ १५ ॥
ततोऽस्य पार्श्वतो दिव्याः प्रादुर्भूताः कुमारकाः ।
पीतमाल्याम्बरधराः पीतस्रगनुलेपनाः ॥ १६ ॥
पीताभोष्णीषशिरसः पीतास्याः पीतमूर्धजाः ।
ततो वर्षसहस्रान्त उषित्वा विमलौजसः ॥ १७ ॥
योगात्मानस्तपोह्लादाः ब्राह्मणानां हितैषिणः ।
धर्मयोगबलोपेता मुनीनां दीर्घसत्रिणाम् ॥ १८ ॥
उपदिश्य महायोगं प्रविष्टास्ते महेश्वरम् ।
एवमेतेन विधिना ये प्रपन्ना महेश्वरम् ॥ १९ ॥
अन्येऽपि नियतात्मानो ध्यानयुक्ता जितेन्द्रियाः ।
ते सर्वे पापमुत्सृज्य विमला ब्रह्मवर्चसः ॥ २० ॥
प्रविशन्ति महादेवं रुद्रं ते त्वपुनर्भवाः ॥ २१ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे तत्पुरुषमाहात्म्यं
नाम त्रयोदशोऽध्यायः ॥ १३ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें