श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चदशोऽध्यायः
अघोरेशमाहात्म्यं
॥ सूत उवाच ॥
ततस्तस्मिन् गते कल्पे कृष्णवर्णे भयानके ।
तुष्टाव देवदेवेशं ब्रह्मा तं ब्रह्मरूपिणम् ॥ १ ॥
अनुगृह्य ततस्तुष्टो ब्रह्माणमवदद्धरः ।
अनेनैव तु रूपेण संहरामि न संशयः ॥ २ ॥
ब्रह्महत्यादिकान् घोरांस्तथान्यानपि पातकान् ।
हीनांश्चैव महाभाग तथैव विविधान्यपि ॥ ३ ॥
उपपातकमप्येवं तथा पापानि सुव्रत ।
मानसानि सुतीक्ष्णानि वाचिकानि पितामह ॥ ४ ॥
कायिकानि सुमिश्राणि तथा प्रासङ्गिकानि च ।
बुद्धिपूर्वं कृतान्येव सहजागन्तुकानि च ॥ ५ ॥
मातृदेहोत्थितान्येवं पितृदेहे च पातकम् ।
संहरामि न सन्देहः सर्वं पातकजं विभो ॥ ६ ॥
लक्षं जप्त्वा ह्यघोरेभ्यो ब्रह्महा मुच्यते प्रभो ।
तदर्धं वाचिके वत्स तदर्धं मानसे पुनः ॥ ७ ॥
चतुर्गुणं बुद्धिपूर्वे क्रोधादष्टगुणं स्मृतम् ।
वीरहा लक्षमात्रेण भ्रूणहा कोटिमभ्यसेत् ॥ ८ ॥
मातृहा नियुतं जप्त्वा शुद्ध्यते नात्र संशयः ।
गोघ्नश्चैव कृतघ्नश्च स्त्रीघ्नः पापयुतो नरः ॥ ९ ॥
अयुताघोरमभ्यस्य मुच्यते नात्र संशयः ।
सुरापो लक्षमात्रेण बुद्ध्याबुद्ध्यापि वै प्रभो ॥ १० ॥
मुच्यते नात्र सन्देहस्तदर्धेन च वारुणीम् ।
अस्नाताशी सहस्रेण अजपी च तथा द्विजः ॥ ११ ॥
अहुताशी सहस्रेण अदाता च विशुद्ध्यति ।
ब्राह्मणस्वापहर्ता च स्वर्णस्तेयी नराधमः ॥ १२ ॥
नियुतं मानसं जप्त्वा मुच्यते नात्र संशयः ।
गुरुतल्परतो वापि मातृघ्नो वा नराधमः ॥ १३ ॥
ब्रह्मघ्नश्च जपेदेवं मानसं वै पितामह ।
सम्पर्कात्पापिनां पापं तत्समं परिभाषितम् ॥ १४ ॥
तथाप्ययुतमात्रेण पातकाद्वै प्रमुच्यते ।
संसर्गात् पातकी लक्षं जपेद्वै मानसं धिया ॥ १५ ॥
उपांशु यच्चतुर्धा वै वाचिकं चाष्टधा जपेत् ।
पातकादर्धमेव स्यादुपपातकिनां स्मृतम् ॥ १६ ॥
तदर्धं केवले पापे नात्र कार्या विचारणा ।
ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च ॥ १७ ॥
कृत्वा च गुरुतल्पं च पापकृद् ब्राह्मणो यदि ।
रुद्रगायत्रिया ग्राह्यं गोमूत्रं कापिलं द्विजाः ॥ १८ ॥
गन्धद्वारेति तस्या वै गोमयं स्वस्थमाहरेत् ।
तेजोऽसि शुक्तमित्याज्यं कापिलं संहरेद् बुधः ॥ १९ ॥
आप्यायस्वेति च क्षीरं दधिक्राव्णेति चाहरेत् ।
गव्यं दधि नवं साक्षात् कापिलं वै पितामह ॥ २० ॥
देवस्य त्वेति मन्त्रेण संग्रहेद्वै कुशोदकम् ।
एकस्थं हेमपात्रे वा कृत्वाघोरेण राजते ॥ २१ ॥
ताम्रे वा पद्मपात्रे वा पालाशे वा दले शुभे ।
सकूर्चं सर्वरत्नाढ्यं क्षिप्त्वा तत्रैव काञ्चनम् ॥ २२ ॥
जपेल्लक्षमघोराख्यं हुत्वा चैव घृतादिभिः ।
घृतेन चरुणा चैव समिद्भिश्च तिलैस्तथा ॥ २३ ॥
यवैश्च व्रीहिभिश्चैव जुहुयाद्वै पृथक् पृथक् ।
प्रत्येकं सप्तवारं तु द्रव्यालाभे घृतेन तु ॥ २४ ॥
हुत्वाघोरेण देवेशं स्नात्वाघोरेण वै द्विजाः ।
अष्टद्रोणघृतेनैव स्नाप्य पश्चाद्विशोध्य च ॥ २५ ॥
अहोरात्रोषितः स्नातः पिबेत् कूर्चं शिवाग्रतः ।
ब्राह्मं ब्रह्मजपं कुर्यादाचम्य च यथाविधि ॥ २६ ॥
एवं कृत्वा कृतघ्नोऽपि ब्रह्महा भ्रूणहा तथा ।
वीरहा गुरुघाती च मित्रविश्वासघातकः ॥ २७ ॥
स्तेयी सुवर्णस्तेयी च गुरुतल्परतः सदा ।
मद्यपो वृषलीसक्तः परदारविधर्षकः ॥ २८ ॥
ब्रह्मस्वहा तथा गोघ्नो मातृहा पितृहा तथा ।
देवप्रच्यावकश्चैव लिङ्गप्रध्वंसकस्तथा ॥ २९ ॥
तथान्यानि च पापानि मानसानि द्विजो यदि ।
वाचिकानि तथान्यानि कायिकानि सहस्रशः ॥ ३० ॥
कृत्वा विमुच्यते सद्यो जन्मान्तरशतैरपि ।
एतद्रहस्यं कथितमघोरेशप्रसङ्गतः ॥ ३१ ॥
तस्माज्जपेद्द्विजो नित्यं सर्वपापविशुद्धये ॥ ३२ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागेऽघोरेशमाहात्म्यं नाम
पञ्चदशोऽध्यायः ॥ १५ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें