श्रीलिङ्गमहापुराणे पूर्वभागे एकोनविंशोऽध्यायः
विष्णुप्रबोधं
॥ सूत उवाच ॥
अथोवाच महादेवः प्रीतोऽहं सुरसत्तमौ ।
पश्यतां मां महादेवं भयं सर्वं विमुच्यताम् ॥ १ ॥
युवां प्रसूतौ गात्राभ्यां मम पूर्वं महाबलौ ।
अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः ॥ २ ॥
वामे पार्श्वे च मे विष्णुर्विश्वात्मा हृदयोद्भवः ।
प्रीतोऽहं युवयोः सम्यग्वरं दद्मि यथेप्सितम् ॥ ३ ॥
एवमुक्त्वा तु तं विष्णुं कराभ्यां परमेश्वरः ।
पस्पर्श सुभगाभ्यां तु कृपया तु कृपानिधिः ॥ ४ ॥
ततः प्रहृष्टमनसा प्रणिपत्य महेश्वरम् ।
प्राह नारायणो नाथं लिङ्गस्थं लिङ्गवर्जितम् ॥ ५ ॥
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ ।
भक्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी ॥ ६ ॥
देवः प्रदत्तवान् देवाः स्वात्मन्यव्यभिचारिणीम् ।
ब्रह्मणे विष्णवे चैव श्रद्धां शीतांशुभूषणः ॥ ७ ॥
जानुभ्यामवनीं गत्वा पुनर्नारायणः स्वयम् ।
प्रणिपत्य च विश्वेशं प्राह मन्दतरं वशी ॥ ८ ॥
आवयोर्देवदेवेश विवादमतिशोभनम् ।
इहागतो भवान् यस्माद्विवादशमनाय नौ ॥ ९ ॥
तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम् ।
प्रणिपत्य स्थितं मूर्ध्ना कृताञ्जलिपुटं स्मयन् ॥ १० ॥
॥ श्रीमहादेव उवाच ॥
प्रलयस्थितिसर्गाणां कर्ता त्वं धरणीपते ।
वत्स वत्स हरे विष्णो पालयैतच्चराचरम् ॥ ११ ॥
त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुभवाख्यया ।
सर्गरक्षालयगुणैर्निष्कलः परमेश्वरः ॥ १२ ॥
सम्मोहं त्यज भो विष्णो पालयैनं पितामहम् ।
पाद्मे भविष्यति सुतः कल्पे तव पितामहः ॥ १३ ॥
तदा द्रक्ष्यसि मां चैवं सोऽपि द्रक्ष्यति पद्मजः ।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ॥ १४ ॥
तदाप्रभृति लोकेषु लिङ्गार्चा सुप्रतिष्ठिता ।
लिङ्गवेदी महादेवी लिङ्गं साक्षान् महेश्वरः ॥ १५ ॥
लयनाल्लिङ्गमित्युक्तं तत्रैव निखिलं सुराः ।
यस्तु लैङ्गं पठेन्नित्यमाख्यानं लिङ्गसन्निधौ ॥ १६ ॥
स याति शिवतां विप्रो नात्र कार्या विचारणा ॥ १७ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे विष्णुप्रबोधो
नामैकोनविंशोऽध्यायः ॥ १९ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें