श्रीलिङ्गमहापुराणे पूर्वभागे चतुर्दशोऽध्यायः
अघोरोत्पत्तिवर्णनं
॥ सूत उवाच ॥
ततस्तस्मिन्गते कल्पे पीतवर्णे स्वयंभुवः ।
पुनरन्यः प्रवृत्तस्तु कल्पो नाम्नासितस्तु सः ॥ १ ॥
एकार्णवे तदा वृत्ते दिव्ये वर्षसहस्रके ।
स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः ॥ २ ॥
तस्य चिन्तयमानस्य पुत्रकामस्य वै प्रभोः ।
कृष्णः समभवद्वर्णो ध्यायतः परमेष्ठिनः ॥ ३ ॥
अथापश्यन् महातेजाः प्रादुर्भूतं कुमारकम् ।
कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा ॥ ४ ॥
कृष्णाम्बरधरोष्णीषं कृष्णयज्ञोपवीतिनम् ।
कृष्णेन मौलिना युक्तं कृष्णस्रगनुलेपनम् ॥ ५ ॥
स तं दृष्ट्वा महात्मानमघोरं घोरविक्रमम् ।
ववन्दे देवदेवेशमद्भुतं कृष्णपिङ्गलम् ॥ ६ ॥
प्राणायामपरः श्रीमान् हृदि कृत्वा महेश्वरम् ।
मनसा ध्यानुयुक्तेन प्रपन्नस्तु तमीश्वरम् ॥ ७ ॥
अघोरं तु ततो ब्रह्मा ब्रह्मरूपं व्यचिन्तयत् ।
तथा वै ध्यायमानस्य ब्रह्मणः परमेष्ठिनः ॥ ८ ॥
प्रददौ दर्शनं देवो ह्यघोरो घोरविक्रमः ।
अथास्य पार्श्वतः कृष्णाः कृष्णस्रगनुलेपनाः ॥ ९ ॥
चत्वारस्तु महात्मानः संबभूवुः कुमारकाः ।
कृष्णः कृष्णशिखश्चैव कृष्णास्यः कृष्णवस्त्रधृक् ॥ १० ॥
ततो वर्षसहस्रं तु योगतः परमेश्वरम् ।
उपासित्वा महायोगं शिष्येभ्यः प्रददुः पुनः ॥ ११ ॥
योगेन योगसम्पन्नाः प्रविश्य मनसा शिवम् ।
अमलं निर्गुणं स्थानं प्रविष्टा विश्वमीश्वरम् ॥ १२ ॥
एवमेतेन योगेन येऽपि चान्ये मनीषिणः ।
चिन्तयन्ति महादेवं गन्तारो रुद्रमव्ययम् ॥ १३ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे अघोरोत्पत्तिवर्णनं
नाम चतुर्दशोऽध्यायः ॥ १४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें