श्रीलिङ्गमहापुराण -[पूर्वभाग] -021

 श्रीलिङ्गमहापुराणे पूर्वभागे एकविंशोऽध्यायः

ब्रह्मविष्णु कृतं महेश्वरस्तुतिः
॥ सूत उवाच ॥

ब्रह्माणमग्रतः कृत्वा ततः स गरुडध्वजः ।
अतीतैश्च भविष्यैश्च वर्तमानैस्तथैव च ॥ १ ॥
नामभिश्छान्दसैश्चैव इदं स्तोत्रमुदीरयत् ।
॥ विष्णुरुवाच ॥


नमस्तुभ्यं भगवते सुव्रतानन्ततेजसे ॥ २ ॥
नमः क्षेत्राधिपतये बीजिने शूलिने नमः ।
सुमेंढ्रायार्च्यमेंढ्राय दण्डिने रूक्षरेतसे ॥ ३ ॥
नमो ज्येष्ठाय श्रेष्ठाय पूर्वाय प्रथमाय च ।
नमो मान्याय पूज्याय सद्योजाताय वै नमः ॥ ४ ॥
गह्वराय घटेशाय व्योमचीराम्बराय च ।
नमस्ते ह्यस्मदादीनां भूतानां प्रभवे नमः ॥ ५ ॥
वेदानां प्रभवे चैव स्मृतीनां प्रभवे नमः ।
प्रभवे कर्मदानानां द्रव्याणां प्रभवे नमः ॥ ६ ॥
नमो योगस्य प्रभवे सांख्यस्य प्रभवे नमः ।
नमो ध्रुवनिबद्धानामृषीणां प्रभवे नमः ॥ ७ ॥
ऋक्षाणां प्रभवे तुभ्यं ग्रहाणां प्रभवे नमः ।
वैद्युताशनिमेघानां गर्जितप्रभवे नमः ॥ ८ ॥
महोदधीनां प्रभवे द्वीपानां प्रभवे नमः ।
अद्रीणां प्रभवे चैव वर्षाणां प्रभवे नमः ॥ ९ ॥
नमो नदीनां प्रभवे नदानां प्रभवे नमः ।
महौषधीनां प्रभवे वृक्षाणां प्रभवे नमः ॥ १० ॥
धर्मवृक्षाय धर्माय स्थितीनां प्रभवे नमः ।
प्रभवे च परार्धस्य परस्य प्रभवे नमः ॥ ११ ॥
नमो रसानां प्रभवे रत्नानां प्रभवे नमः ।
क्षणानां प्रभवे चैव लवानां प्रभवे नमः ॥ १२ ॥
अहोरात्रार्धमासानां मासानां प्रभवे नमः ।
ऋतूनां प्रभवे तुभ्यं संख्यायाः प्रभवे नमः ॥ १३ ॥
प्रभवे चापरार्धस्य परार्धप्रभवे नमः ।
नमः पुराणप्रभवे सर्गाणां प्रभवे नमः ॥ १४ ॥
मन्वन्तराणां प्रभवे योगस्य प्रभवे नमः ।
चतुर्विधस्य सर्गस्य प्रभवेऽनन्तचक्षुषे ॥ १५ ॥
कल्पोदयनिबन्धानां वार्तानां प्रभवे नमः ।
नमो विश्वस्य प्रभवे ब्रह्माधिपतये नमः ॥ १६ ॥
विद्यानां प्रभवे चैव विद्याधिपतये नमः ।
नमो व्रताधिपतये व्रतानां प्रभवे नमः ॥ १७ ॥
मन्त्राणां प्रभवे तुभ्यं मन्त्राधिपतये नमः ।
पितॄणां पतये चैव पशूनां पतये नमः ॥ १८ ॥
वाग्वृषाय नमस्तुभ्यं पुराणवृषभाय च ।
नमः पशूनां पतये गोवृषेन्द्रध्वजाय च ॥ १९ ॥
प्रजापतीनां पतये सिद्धीनां पतये नमः ।
दैत्यदानवसङ्घानां रक्षसां पतये नमः ॥ २० ॥
गन्धर्वाणां च पतये यक्षाणां पतये नमः ।
गरुडोरगसर्पाणां पक्षिणां पतये नमः ॥ २१ ॥
सर्वगुह्यपिशाचानां गुह्याधिपतये नमः ।
गोकर्णाय च गोप्त्रे च शङ्कुकर्णाय वै नमः ॥ २२ ॥
वराहायाप्रमेयाय ऋक्षाय विरजाय च ।
नमः सुराणां पतये गणानां पतये नमः ॥ २३ ॥
अम्भसां पतये चैव ओजसां पतये नमः ।
नमोऽस्तु लक्ष्मीपतये श्रीपाय क्षितिपाय च ॥ २४ ॥
बलाबलसमूहाय अक्षोभ्यक्षोभणाय च ।
दीप्तशृङ्गैकशृङ्गाय वृषभाय ककुद्मिने ॥ २५ ॥
नमः स्थैर्याय वपुषे तेजसानुव्रताय च ।
अतीताय भविष्याय वर्तमानाय वै नमः ॥ २६ ॥
सुवर्चसे च वीर्याय शूराय ह्यजिताय च ।
वरदाय वरेण्याय पुरुषाय महात्मने ॥ २७ ॥
नमो भूताय भव्याय महते प्रभवाय च ।
जनाय च नमस्तुभ्यं तपसे वरदाय च ॥ २८ ॥
अणवे महते चैव नमः सर्वगताय च ।
नमो बन्धाय मोक्षाय स्वर्गाय नरकाय च ॥ २९ ॥
नमो भवाय देवाय इज्याय याजकाय च ।
प्रत्युदीर्णाय दीप्ताय तत्त्वायातिगुणाय च ॥ ३० ॥
नमः पाशाय शस्त्राय नमस्त्वाभरणाय च ।
हुताय उपहूताय प्रहुतप्राशिताय च ॥ ३१ ॥
नमोऽस्त्विष्टाय पूर्ताय अग्निष्टोमद्विजाय च ।
सदस्याय नमश्चैव दक्षिणावभृथाय च ॥ ३२ ॥
अहिंसायाप्रलोभाय पशुमन्त्रौषधाय च ।
नमः पुष्टिप्रदानाय सुशीलाय सुशीलिने ॥ ३३ ॥
अतीताय भविष्याय वर्तमानाय ते नमः ।
सुवर्चसे च वीर्याय शूराय ह्यजिताय च ॥ ३४ ॥
वरदाय वरेण्याय पुरुषाय महात्मने ।
नमो भूताय भव्याय महते चाभयाय च ॥ ३५ ॥
जरासिद्ध नमस्तुभ्यमयसे वरदाय च ।
अधरे महते चैव नमः सस्तुपताय च ॥ ३६ ॥
नमश्चेन्द्रियपत्राणां लेलिहानाय स्रग्विणे ।
विश्वाय विश्वरूपाय विश्वतः शिरसे नमः ॥ ३७ ॥
सर्वतः पाणिपादाय रुद्रायाप्रतिमाय च ।
नमो हव्याय कव्याय हव्यवाहाय वै नमः ॥ ३८ ॥
नमः सिद्धाय मेध्याय इष्टायेज्यापराय च ।
सुवीराय सुघोराय अक्षोभ्यक्षोभणाय च ॥ ३९ ॥
सुप्रजाय सुमेधाय दीप्ताय भास्कराय च ।
नमो बुद्धाय शुद्धाय विस्तृताय मताय च ॥ ४० ॥
नमः स्थूलाय सूक्ष्माय दृश्यादृश्याय सर्वशः ।
वर्षते ज्वलते चैव वायवे शिशिराय च ॥ ४१ ॥
नमस्ते वक्रकेशाय ऊरुवक्षःशिखाय च ।
नमो नमः सुवर्णाय तपनीयनिभाय च ॥ ४२ ॥
विरूपाक्षाय लिङ्गाय पिङ्गलाय महौजसे ।
वृष्टिघ्नाय नमश्चैव नमः सौम्येक्षणाय च ॥ ४३ ॥
नमो धूम्राय श्वेताय कृष्णाय लोहिताय च ।
पिशिताय पिशङ्गाय पीताय च निषङ्गिणे ॥ ४४ ॥
नमस्ते सविशेषाय निर्विशेषाय वै नमः ।
नम ईज्याय पूज्याय उपजीव्याय वै नमः ॥ ४५ ॥
नमः क्षेम्याय वृद्धाय वत्सलाय नमो नमः ।
नमो भूताय सत्याय सत्यासत्याय वै नमः ॥ ४६ ॥
नमो वै पद्मवर्णाय मृत्युघ्नाय च मृत्यवे ।
नमो गौराय श्यामाय कद्रवे लोहिताय च ॥ ४७ ॥
महासन्ध्याभ्रवर्णाय चारुदीप्ताय दीक्षिणे ।
नमः कमलहस्ताय दिग्वासाय कपर्दिने ॥ ४८ ॥
अप्रमाणाय सर्वाय अव्ययायामराय च ।
नमो रूपाय गन्धाय शाश्वतायाक्षताय च ॥ ४९ ॥
पुरस्ताद्बृंहते चैव विभ्रान्ताय कृताय च ।
दुर्गमाय महेशाय क्रोधाय कपिलाय च ॥ ५० ॥
तर्क्यातर्क्यशरीराय बलिने रंहसाय च ।
सिकत्याय प्रवाह्याय स्थिताय प्रसृताय च ॥ ५१ ॥
सुमेधसे कुलालाय नमस्ते शशिखण्डिने ।
चित्राय चित्रवेषाय चित्रवर्णाय मेधसे ॥ ५२ ॥
चेकितानाय तुष्टाय नमस्ते निहिताय च ।
नमः क्षान्ताय दान्ताय वज्रसंहननाय च ॥ ५३ ॥
रक्षोघ्नाय विषघ्नाय शितिकण्ठोर्ध्वमन्यवे ।
लेलिहाय कृतान्ताय तिग्मायुधधराय च ॥ ५४ ॥
प्रमोदाय सम्मोदाय यतिवेद्याय ते नमः ।
अनामयाय सर्वाय महाकालाय वै नमः ॥ ५५ ॥
प्रणवप्रणवेशाय भगनेत्रान्तकाय च ।
मृगव्याधाय दक्षाय दक्षयज्ञान्तकाय च ॥ ५६ ॥
सर्वभूतात्मभूताय सर्वेशातिशयाय च ।
पुरघ्नाय सुशस्त्राय धन्विनेऽथ परश्वधे ॥ ५७ ॥
पूषदन्तविनाशाय भगनेत्रान्तकाय च ।
कामदाय वरिष्ठाय कामाङ्गदहनाय च ॥ ५८ ॥
रङ्गे करालवक्त्राय नागेन्द्रवदनाय च ।
दैत्यानामन्तकेशाय दैत्याक्रन्दकराय च ॥ ५९ ॥
हिमघ्नाय च तीक्ष्णाय आर्द्रचर्मधराय च ।
श्मशानरतिनित्याय नमोऽस्तूल्मुकधारिणे ॥ ६० ॥
नमस्ते प्राणपालाय मुण्डमालाधराय च ।
प्रहीणशोकैर्विविधैर्भूतैः परिवृताय च ॥ ६१ ॥
नरनारीशरीराय देव्याः प्रियकराय च ।
जटिने मुण्डिने चैव व्यालयज्ञोपवीतिने ॥ ६२ ॥
नमोऽस्तु नृत्यशीलाय उपनृत्यप्रियाय च ।
मन्यवे गीतशीलाय मुनिभिर्गायते नमः ॥ ६३ ॥
कटङ्कटाय तिग्माय अप्रियाय प्रियाय च ।
विभीषणाय भीष्माय भगप्रमथनाय च ॥ ६४ ॥
सिद्धसङ्घानुगीताय महाभागाय वै नमः ।
नमो मुक्ताट्टहासाय क्ष्वेडितास्फोटिताय च ॥ ६५ ॥
नर्दते कूर्दते चैव नमः प्रमुदितात्मने ।
नमो मृडाय श्वसते धावतेऽधिष्ठिते नमः ॥ ६६ ॥
ध्यायते जृम्भते चैव रुदते द्रवते नमः ।
वल्गते क्रीडते चैव लम्बोदरशरीरिणे ॥ ६७ ॥
नमोऽकृत्याय कृत्याय मुण्डाय कीकटाय च ।
नम उन्मत्तदेहाय किङ्किणीकाय वै नमः ॥ ६८ ॥
नमो विकृतवेषाय क्रूरायामर्षणाय च ।
अप्रमेयाय गोप्त्रे च दीप्तायानिर्गुणाय च ॥ ६९ ॥
वामप्रियाय वामाय चूडामणिधराय च ।
नमस्तोकाय तनवे गुणैरप्रमिताय च ॥ ७० ॥
नमो गुण्याय गुह्याय अगम्यगमनाय च ।
लोकधात्री त्वियं भूमिः पादौ सज्जनसेवितौ ॥ ७१ ॥
सर्वेषां सिद्धियोगानामधिष्ठानं तवोदरम् ।
मध्येऽन्तरिक्षं विस्तीर्णं तारागणविभूषितम् ॥ ७२ ॥
स्वातेः पथ इवाभाति श्रीमान् हारस्तवोरसि ।
दिशो दशभुजास्तुभ्यं केयूराङ्गदभूषिताः ॥ ७३ ॥
विस्तीर्णपरिणाहश्च नीलाञ्जनचयोपमः ।
कण्ठस्ते शोभते श्रीमान् हेमसूत्रविभूषितः ॥ ७४ ॥
दंष्ट्राकरालं दुर्धर्षमनौपम्यं मुखं तथा ।
पद्ममालाकृतोष्णीषं शिरो द्यौः शोभतेऽधिकम् ॥ ७५ ॥
दीप्तिः सूर्ये वपुश्चन्द्रे स्थैर्यं शैलेऽनिले बलम् ।
औष्ण्यमग्नौ तथा शैत्यमप्सु शब्दोऽम्बरे तथा ॥ ७६ ॥
अक्षरान्तरनिष्पन्दाद् गुणानेतान् विदुर्बुधाः ।
जपो जप्यो महादेवो महायोगो महेश्वरः ॥ ७७ ॥
पुरेशयो गुहावासी खेचरो रजनीचरः ।
तपोनिधिर्गुहगुरुर्नन्दनो नन्दवर्धनः ॥ ७८ ॥
हयशीर्षा पयोधाता विधाता भूतभावनः ।
बोद्धव्यो बोधिता नेता दुर्धर्षो दुष्प्रकम्पनः ॥ ७९ ॥
बृहद्रथो भीमकर्मा बृहत्कीर्तिर्धनञ्जयः ।
घण्टाप्रियो ध्वजी छत्त्री पिनाकी ध्वजिनीपतिः ॥ ८० ॥
कवची पट्टिशी खड्गी धनुर्हस्तः परश्वधी ।
अघस्मरोऽनघः शूरो देवराजोऽरिमर्दनः ॥ ८१ ॥
त्वां प्रसाद्य पुरास्माभिर्द्विषन्तो निहता युधि ।
अग्निः सदार्णवाम्भस्त्वं पिबन्नपि न तृप्यसे ॥ ८२ ॥
क्रोधाकारः प्रसन्नात्मा कामदः कामगः प्रियः ।
ब्रह्मचारि चागाधश्च ब्रह्मण्यः शिष्टपूजितः ॥ ८३ ॥
देवानामक्षयः कोशस्त्वया यज्ञः प्रकल्पितः ।
हव्यं तवेदं वहति वेदोक्तं हव्यवाहनः ।
प्रीते त्वयि महादेव वयं प्रीता भवामहे ॥ ८४ ॥
भवानीशोऽनादिमांस्त्वं च सर्वलोकानां त्वं ब्रह्मकर्तादिसर्गः ।
सांख्याः प्रकृतेः परमं त्वां विदित्वा क्षीणध्यानास्त्वाममृत्युं विशन्ति ॥ ८५ ॥
योगाच्च त्वां ध्यायिनो नित्यसिद्धं ज्ञात्वा योगान् संत्यजन्ते पुनस्तान् ।
ये चाप्यन्ये त्वां प्रसन्ना विशुद्धाः स्वकर्मभिस्ते दिव्यभोगा भवन्ति ॥ ८६ ॥
अप्रसङ्ख्येयतत्त्वस्य यथा विद्मः स्वशक्तितः ।
कीर्तितं तव माहात्म्यमपारस्य महात्मनः ॥ ८७ ॥
शिवो नो भव सर्वत्र योऽसि सोऽसि नमोऽस्तु ते ।
॥ सूत उवाच ॥
य इदं कीर्तयेद्भक्त्या ब्रह्मनारायणस्तवम् ॥ ८८ ॥
श्रावयेद्वा द्विजान् विद्वान् शृणुयाद्वा समाहितः ।
अश्वमेधायुतं कृत्वा यत्फलं तदवाप्नुयात् ॥ ८९ ॥
पापाचारोऽपि यो मर्त्यः शृणुयाच्छिवसन्निधौ ।
जपेद्वापि विनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ ९० ॥
श्राद्धे वा दैविके कार्ये यज्ञे वावभृथान्तिके ।
कीर्तयेद्वा सतां मध्ये स याति ब्रह्मणोऽन्तिकम् ॥ ९१ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे ब्रह्मविष्णुस्तुतिर्नामैकविंशोऽध्यायः ॥ २१ ॥

   इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-21

कोई टिप्पणी नहीं:

123