श्रीलिङ्गमहापुराणे पूर्वभागे अष्टादशोऽध्यायः
श्रीविष्णुकृतं महेश्वरस्तोत्रं
॥ विष्णुरुवाच ॥
एकाक्षराय रुद्राय अकारायात्मरूपिणे ।
उकारायादिदेवाय विद्यादेहाय वै नमः ॥ १ ॥
तृतीयाय मकाराय शिवाय परमात्मने ।
सूर्याग्निसोमवर्णाय यजमानाय वै नमः ॥ २ ॥
अग्नये रुद्ररूपाय रुद्राणां पतये नमः ।
शिवाय शिवमन्त्राय सद्योजाताय वेधसे ॥ ३ ॥
वामाय वामदेवाय वरदायामृताय ते ।
अघोरायातिघोराय सद्योजाताय रंहसे ॥ ४ ॥
ईशानाय श्मशानाय अतिवेगाय वेगिने ।
नमोऽस्तु श्रुतिपादाय ऊर्ध्वलिङ्गाय लिङ्गिने ॥ ५ ॥
हेमलिङ्गाय हेमाय वारिलिङ्गाय चाम्भसे ।
शिवाय शिवलिङ्गाय व्यापिने व्योमव्यापिने ॥ ६ ॥
वायवे वायुवेगाय नमस्ते वायुव्यापिने ।
तेजसे तेजसां भर्त्रे नमस्तेजोऽधिव्यापिने ॥ ७ ॥
जलाय जलभूताय नमस्ते जलव्यापिने ।
पृथिव्यै चान्तरिक्षाय पृथिवीव्यापिने नमः ॥ ८ ॥
शब्दस्पर्शस्वरूपाय रसगन्धाय गन्धिने ।
गणाधिपतये तुभ्यं गुह्याद् गुह्यतमाय ते ॥ ९ ॥
अनन्ताय विरूपाय अनन्तानामयाय च ।
शाश्वताय वरिष्ठाय वारिगर्भाय योगिने ॥ १० ॥
संस्थितायाम्भसां मध्ये आवयोर्मध्यवर्चसे ।
गोप्त्रे हर्त्रे सदा कर्त्रे निधनायेश्वराय च ॥ ११ ॥
अचेतनाय चिन्त्याय चेतनायासहारिणे ।
अरूपाय सुरूपाय अनङ्गायाङ्गहारिणे ॥ १२ ॥
भस्मदिग्धशरीराय भानुसोमाग्निहेतवे ।
श्वेताय श्वेतवर्णाय तुहिनाद्रिचराय च ॥ १३ ॥
सुश्वेताय सुवक्त्राय नमः श्वेतशिखाय च ।
श्वेतास्याय महास्याय नमस्ते श्वेतलोहित ॥ १४ ॥
सुताराय विशिष्टाय नमो दुन्दुभिने हर ।
शतरूपविरूपाय नमः केतुमते सदा ॥ १५ ॥
ऋद्धिशोकविशोकाय पिनाकाय कपर्दिने ।
विपाशाय सुपाशाय नमस्ते पाशनाशिने ॥ १६ ॥
सुहोत्राय हविष्याय सुब्रह्मण्याय सूरिणे ।
सुमुखाय सुवक्त्राय दुर्दमाय दमाय च ॥ १७ ॥
कङ्काय कङ्करूपाय कङ्कणीकृतपन्नग ।
सनकाय नमस्तुभ्यं सनातन सनन्दन ॥ १८ ॥
सनत्कुमार सारङ्गमारणाय महात्मने ।
लोकाक्षिणे त्रिधामाय नमो विरजसे सदा ॥ १९ ॥
शङ्खपालाय शङ्खाय रजसे तमसे नमः ।
सारस्वताय मेघाय मेघवाहन ते नमः ॥ २० ॥
सुवाहाय विवाहाय विवादवरदाय च ।
नमः शिवाय रुद्राय प्रधानाय नमो नमः ॥ २१ ॥
त्रिगुणाय नमस्तुभ्यं चतुर्व्यूहात्मने नमः ।
संसाराय नमस्तुभ्यं नमः संसारहेतवे ॥ २२ ॥
मोक्षाय मोक्षरूपाय मोक्षकर्त्रे नमो नमः ।
आत्मने ऋषये तुभ्यं स्वामिने विष्णवे नमः ॥ २३ ॥
नमो भगवते तुभ्यं नागानां पतये नमः ।
ओङ्काराय नमस्तुभ्यं सर्वज्ञाय नमो नमः ॥ २४ ॥
सर्वाय च नमस्तुभ्यं नमो नारायणाय च ।
नमो हिरण्यगर्भाय आदिदेवाय ते नमः ॥ २५ ॥
नमोऽस्त्वजाय पतये प्रजानां व्यूहहेतवे ।
महादेवाय देवानामीश्वराय नमो नमः ॥ २६ ॥
शर्वाय च नमस्तुभ्यं सत्याय शमनाय च ।
ब्रह्मणे चैव भूतानां सर्वज्ञाय नमो नमः ॥ २७ ॥
महात्मने नमस्तुभ्यं प्रज्ञारूपाय वै नमः ।
चितये चितिरूपाय स्मृतिरूपाय वै नमः ॥ २८ ॥
ज्ञानाय ज्ञानगम्याय नमस्ते संविदे सदा ।
शिखराय नमस्तुभ्यं नीलकण्ठाय वै नमः ॥ २९ ॥
अर्धनारीशरीराय अव्यक्ताय नमो नमः ।
एकादशविभेदाय स्थाणवे ते नमः सदा ॥ ३० ॥
नमः सोमाय सूर्याय भवाय भवहारिणे ।
यशस्कराय देवाय शङ्करायेश्वराय च ॥ ३१ ॥
नमोऽम्बिकाधिपतये उमायाः पतये नमः ।
हिरण्यबाहवे तुभ्यं नमस्ते हेमरेतसे ॥ ३२ ॥
नीलकेशाय वित्ताय शितिकण्ठाय वै नमः ।
कपर्दिने नमस्तुभ्यं नागाङ्गाभरणाय च ॥ ३३ ॥
वृषारूढाय सर्वस्य हर्त्रे कर्त्रे नमो नमः ।
वीररामातिरामाय रामनाथाय ते विभो ॥ ३४ ॥
नमो राजाधिराजाय राज्ञामधिगताय ते ।
नमः पालाधिपतये पालाशाकृन्तते नमः ॥ ३५ ॥
नमः केयूरभूषाय गोपते ते नमो नमः ।
नमः श्रीकण्ठनाथाय नमो लिकुचपाणये ॥ ३६ ॥
भुवनेशाय देवाय वेदशास्त्र नमोऽस्तु ते ।
सारङ्गाय नमस्तुभ्यं राजहंसाय ते नमः ॥ ३७ ॥
कनकाङ्गदहाराय नमः सर्पोपवीतिने ।
सर्पकुण्डलमालाय कटिसूत्रीकृताहिने ॥ ३८ ॥
वेदगर्भाय गर्भाय विश्वगर्भाय ते शिव ।
॥ ब्रह्मोवाच ॥
विररामेति संस्तुत्वा ब्रह्मणा सहितो हरिः ॥ ३९ ॥
एतत्स्तोत्र वरं पुण्यं सर्वपापप्रणाशनम् ।
यः पठेच्छ्रावयेद्वापि ब्राह्मणान् वेदपारगान् ॥ ४० ॥
स याति ब्रह्मणो लोके पापकर्मरतोऽपि वै ।
तस्माज्जपेत्पठेन्नित्यं श्रावयेद्ब्राह्मणाञ्छुभान् ॥ ४१ ॥
सर्वपापविशुद्ध्यर्थं विष्णुना परिभाषितम् ॥ ४२ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे अथवा रुद्रस्तोत्रं
नामाष्टादशोऽध्यायः ॥ १८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें