श्रीलिङ्गमहापुराणे पूर्वभागे षोडशोऽध्यायः
ईशानमाहात्म्यकथनं
॥ सूत उवाच ॥
अथान्यो ब्रह्मणः कल्पो वर्तते मुनिपुङ्गवाः ।
विश्वरूप इति ख्यातो नामतः परमाद्भुतः ॥ १ ॥
विनिवृत्ते तु संहारे पुनः सृष्टे चराचरे ।
ब्रह्मणः पुत्रकामस्य ध्यायतः परमेष्ठिनः ॥ २ ॥
प्रादुर्भूता महानादा विश्वरूपा सरस्वती ।
विश्वमाल्याम्बरधरा विश्वयज्ञोपवीतिनी ॥ ३ ॥
विश्वोष्णीषा विश्वगन्धा विश्वमाता महोष्ठिका ।
तथाविधं स भगवानीशानं परमेश्वरम् ॥ ४ ॥
शुद्धस्फटिकसङ्काशं सर्वाभरणभूषितम् ।
अथ तं मनसा ध्यात्वा युक्तात्मा वै पितामहः ॥ ५ ॥
ववन्दे देवमीशानं सर्वेशं सर्वगं प्रभुम् ।
ओमीशान नमस्तेऽस्तु महादेव नमोऽस्तु ते ॥ ६ ॥
नमोऽस्तु सर्वविद्यानामीशान परमेश्वर ।
नमोऽस्तु सर्वभूतानामीशान वृषवाहन ॥ ७ ॥
ब्रह्मणोऽधिपते तुभ्यं ब्रह्मणे ब्रह्मरूपिणे ।
नमो ब्रह्माधिपतये शिवं मेऽस्तु सदाशिव ॥ ८ ॥
ओङ्कारमूर्ते देवेश सद्योजात नमो नमः ।
प्रपद्ये त्वां प्रपन्नोऽस्मि सद्योजाताय वै नमः ॥ ९ ॥
अभवे च भवे तुभ्यं तथा नातिभवे नमः ।
भवोद्भव भवेशान मां भजस्व महाद्युते ॥ १० ॥
वामदेव नमस्तुभ्यं ज्येष्ठाय वरदाय च ।
नमो रुद्राय कालाय कलनाय नमो नमः ॥ ११ ॥
नमो विकरणायैव कालवर्णाय वर्णिने ।
बलाय बलिनां नित्यं सदा विकरणाय ते ॥ १२ ॥
बलप्रमथनायैव बलिने ब्रह्मरूपिणे ।
सर्वभूतेश्वरेशाय भूतानां दमनाय च ॥ १३ ॥
मनोन्मनाय देवाय नमस्तुभ्यं महाद्युते ।
वामदेवाय वामाय नमस्तुभ्यं महात्मने ॥ १४ ॥
ज्येष्ठाय चैव श्रेष्ठाय रुद्राय वरदाय च ।
कालहन्त्रे नमस्तुभ्यं नमस्तुभ्यं महात्मने ॥ १५ ॥
इति स्तवेन देवेशं ननाम वृषभध्वजम् ।
यः पठेत् सकृदेवेह ब्रह्मलोकं गमिष्यति ॥ १६ ॥
श्रावयेद्वा द्विजान् श्राद्धे स याति परमां गतिम् ।
एवं ध्यानगतं तत्र प्रणमन्तं पितामहम् ॥ १७ ॥
उवाच भगवानीशः प्रीतोऽहं ते किमिच्छसि ।
ततस्तु प्रणतो भूत्वा वाग् विशुद्धं महेश्वरम् ॥ १८ ॥
उवाच भगवान् रुद्रं प्रीतं प्रीतेन चेतसा ।
यदिदं विश्वरूपं ते विश्वगौः श्रेयसीश्वरी ॥ १९ ॥
एतद्वेदितुमिच्छामि यथेयं परमेश्वर ।
कैषा भगवती देवी चतुष्पादा चतुर्मुखी ॥ २० ॥
चतुःशृङ्गी चतुर्वक्त्रा चतुर्दंष्ट्रा चतुःस्तनी ।
चतुर्हस्ता चतुर्नेत्रा विश्वरूपा कथं स्मृता ॥ २१ ॥
किं नामगोत्रा कस्येयं किं वीर्या चापि कर्मतः ।
तस्य तद्वचनं श्रुत्वा देवदेवो वृषध्वजः ॥ २२ ॥
प्राह देववृषं ब्रह्मा ब्रह्माणं चात्मसंभवम् ।
रहस्यं सर्वमन्त्राणां पावनं पुष्टिवर्धनम् ॥ २३ ॥
शृणुष्वैतत्परं गुह्यमादिसर्गे यथा तथा ।
एवं यो वर्तते कल्पो विश्वरूपस्त्वसौ मतः ॥ २४ ॥
ब्रह्मस्थानमिदं चापि यत्र प्राप्तं त्वया प्रभो ।
त्वत्तः परतरं देव विष्णुना तत्पदं शुभम् ॥ २५ ॥
वैकुण्ठेन विशुद्धेन मम वामाङ्गजेन वै ।
तदाप्रभृति कल्पश्च त्रयस्त्रिंशत्तमो ह्ययम् ॥ २६ ॥
शतं शतसहस्राणामतीता ये स्वयंभुवः ।
पुरस्तात्तव देवेश तच्छृणुष्व महामते ॥ २७ ॥
आनन्दस्तु स विज्ञेय आनन्दत्वे व्यवस्थितः ।
माण्डव्यगोत्रस्तपसा मम पुत्रत्वमागतः ॥ २८ ॥
त्वयि योगं च सांख्यं च तपोविद्याविधिक्रियाः ।
ऋतं सत्यं दया ब्रह्म अहिंसा सन्मतिः क्षमा ॥ २९ ॥
ध्यानं ध्येयं दमः शान्तिर्विद्याविद्या मतिर्धृतिः ।
कान्तिर्नीतिः प्रथा मेधा लज्जा दृष्टिः सरस्वती ॥ ३० ॥
तुष्टिः पुष्टिः क्रिया चैव प्रसादश्च प्रतिष्ठिताः ।
द्वात्रिंशत्सुगुणा ह्येषा द्वात्रिंशाक्षरसंज्ञया ॥ ३१ ॥
प्रकृतिर्विहिता ब्रह्मंस्त्वत्प्रसूतिर्महेश्वरी ।
विष्णोर्भगवतश्चापि तथान्येषामपि प्रभो ॥ ३२ ॥
सैषा भगवती देवी मत्प्रसूतिः प्रतिष्ठिता ।
चतुर्मुखी जगद्योनिः प्रकृतिर्गौः प्रतिष्ठिता ॥ ३३ ॥
गौरी माया च विद्या च कृष्णा हैमवतीति च ।
प्रधानं प्रकृतिश्चैव यामाहुस्तत्त्वचिन्तकाः ॥ ३४ ॥
अजामेकां लोहितां शुक्लकृष्णां विश्वप्रजां सृजमानां सरूपाम् ।
अजोऽहं मां विद्धि तां विश्वरूपं गायत्रीं गां विश्वरूपां हि बुद्ध्या ॥ ३५ ॥
एवमुक्त्वा महादेवः ससर्ज परमेश्वरः ।
ततश्च पार्श्वगा देव्याः सर्वरूपकुमारकाः ॥ ३६ ॥
जटी मुण्डी शिखण्डी च अर्धमुण्डश्च जज्ञिरे ।
ततस्तेन यथोक्तेन योगेन सुमहौजसः ॥ ३७ ॥
दिव्यवर्षसहस्रान्ते उपासित्वा महेश्वरम् ।
धर्मोपदेशमखिलं कृत्वा योगमयं दृढम् ॥ ३८ ॥
शिष्टाश्च नियतात्मानः प्रविष्टा रुद्रमीश्वरम् ॥ ३९ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे ईशानमाहात्म्यकथनं
नाम षोडशोऽध्यायः ॥ १६ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें